________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
१८१
यथाऽहं रथेन यास्यामि' इत्येवं परभावेनैतन्निर्देष्टव्यम् , एवमुपग्रहणभेदोऽपि 'विरमति 'इत्यादिन युक्तः, आत्मार्थतया हि · विरमते ' इत्यस्यैव प्रयोगस्य सङ्गतः, न चैवं लोक-शास्त्रविलोपः, सर्वत्रेय नयमते तल्लोपस्य समानत्वादिति सम्मतिवृत्ती व्यवस्थितम् , यद्यपि 'ग्राममधिशेते' इत्यादी ग्रामो. तरद्वितीयादिपदादधिकरणत्वत्वादिप्रकारकप्रतीत्यर्थमधिकरणत्वत्वादिविशिष्टे लक्षणैव स्वीकार्या, तन्निरूढत्वसमानार्थमेव च विशेषानुशासनमपि वक्तुं शक्यते, तथाप्युक्तविपरीतप्रयोगप्रामाण्याय " उपपदविभक्तेः कारकविभक्तिर्बलीयसी" इत्यादिन्यायसाम्राज्याच्चायं विशेष इति दिक् ॥ ३४ ॥ उक्तयुक्त्या यथानेनर्जुसूत्रीयं युवां यास्यथेति मतं दूष्यते तथाऽऽह
सामानाधिकरण्यं चेन्न विकारा-ऽपरार्थयोः।
भिन्नलिङ्ग-वचः-सङ्ख्या-रूपशब्देषु तत् कथम् ? ॥३५॥ नयामृत०-सामानाधिकरण्यमिति । चेत्- यदि, विकारा-ऽपरार्थयो:-विकारा-ऽविकारार्थकशब्दयोः, 'पलालं दहति 'इत्यादी सामानाधिकरण्यम्- एकार्थान्वयजननयोग्यत्वं नेष्टं ऋजुसूत्रनयेन लोक-शास्त्रयोः सर्वप्रकारेणाविरोधः प्रमाणराजस्याद्वाद एव, नयमते तु सर्वस्मिँस्तद्विरोधस्तत्तन्नयवादिभिः खहस्तिन एवेति नैकोऽपि नयवादी तद्दोषं स्वविरोधिनयवादिनं प्रत्यभिधातुं शक्नोति स्वपदकुठारप्रहारकल्पत्वादिति निषेधहेतुमुपदर्शयतिसर्वत्रैवेति । तल्लोपस्य लोक-शास्त्रविलोपस्य । उक्तार्थस्यादेयत्वप्रतिपत्तये त्वाह-इति सम्मतिवृत्ती व्यवस्थितम् । अधिकरणत्वेन ग्रामस्य प्रतिपत्तये शब्दनयस्तत्र 'प्रामेऽधिशेते' इति सप्तम्यन्तमेव प्रामपदमुररीकरोति, तत्र द्वितीयान्तत्वेऽपि प्रामपदस्य द्वितीयाया अधिकरणत्वत्वविशिष्टे लक्षणया 'ग्राममधिशेते' इति प्रयोग उपपद्यते, सप्तमीस्थाने द्वितीयाऽनुशासनमपि द्वितीयाया अधिकरणत्वत्वविशिष्टे लक्षणाया निरूढत्वज्ञापनार्थमेवेति यद्यपि वक्तुं शक्यते तथापि 'ग्रामे अधिशेते' इति प्रयोगोऽपि प्रामाणिकानां भवति, तनिहाय 'उपपदविभक्केः कारकविभक्तिर्बलीयसी' इति न्यायाश्रयणमावश्यकमतो द्वितीयामुपपदविभक्ति बाधित्वा कारकविभक्तिः सप्तम्येव तत्र भवतीति शब्दनयस्याभिप्राय इति ग्रन्थकृत् स्वयं विवेकमुपदर्शयति-यद्यपीति । लक्षणेव द्वितीयाविभक्तेर्लक्षणैव । 'तन्निरूढत्वसमानार्थमेव' इत्यस्य स्थाने 'तन्निरूढत्वज्ञापनार्थमेव ' इति पाठो युक्तः । तन्निरूढत्वेति- उक्तलक्षणानिरूढत्वेत्यर्थः। उक्तविपरीतप्रयोगेति- 'प्राममधिशेते ' इति प्रयोगविपरीत 'ग्रामेऽधिशेते' इति प्रयोगेत्यर्थः ॥ ३४ ॥
पञ्चत्रिंशत्तमपद्यमवतारयति-उक्तयुक्त्येति । अनेन शब्दनयेन । 'युवा यास्यथ' इति स्थाने 'युवां यास्यथः ' इति पाठो युक्तः । विवृणोति-सामानाधिकरण्यमितीति । 'चेद्' इत्यस्य विवरणम्- यदीति । 'विकारापरार्थयोः' इत्यस्य विवरणम्-विकाराविकारार्थकशब्दयोरिति । पलालं दहतीति- अत्र 'पलालम् ' इत्यविकारार्थकशब्दः, 'दहति' इति विकारार्थकशब्दः, यो हि दहनक्रियाकाले यद्रूपेण वर्तते तस्य दहनम मिना भवति, पलालस्य याहसंस्थानादिरूपेणावस्थानमविकृतरूपेणाग्निसंयुक्तावस्थातः प्राक् तादूप्येणावस्थानं नाग्निसंयुक्ततावस्थायां किन्तु पूर्वरूपपरावर्तनभस्मीभवनलक्षणविकृतरूपेणेत्यतस्तयोः सामानाधिकरण्यं नेष्टमृजुसूत्रनयेन । सामानाधिकरण्यमेकाधिकरणवृत्तित्वं सुप्रसिद्धम् , तदत्र न युक्तमतस्तस्य विवरणम्- एकार्थान्वयजननयोग्यत्वम् , तस्य निषेधः सर्वथा न सम्भवति व्यवहारनयेन 'पलालं दहति' इत्यत्र तयोरुक्तस्वरूपस्य सामानाधिकरण्यस्याभ्युपगमादतः पूरयति- इष्टमृजुसूत्रनयेनेति"पलालं न दहत्य निर्भिद्यते न घटः क्वचित् । नासंयतः प्रव्रजति भव्योऽसिद्धो न सिध्यति" ॥ [नयोपदेशश्लोक.. ] इत्यभियुक्तवचनेन ऋजुसूत्राभीष्टं प्रतिपादितं प्राक् । यद्यर्थकचेत्पदनित्यसम्बन्धात् तीत्यनुक्कोऽपि मूले समागच्छत्येवेत्याशयेन तींति पूरितम् । तादृशेषु भिन्नलिङ्ग-वचः सङ्ख्या-रूपेषु. 'तटस्तटी तटम्' इत्यस्य 'इत्यादिषु' इत्यत्रान्वयः, तथा च 'तटस्तटो तटम्' इत्यत्र कथं सामानाधिकरण्यमित्यन्वयः, एवमग्रेऽपि, भिन्नलिङ्गशब्दे सामानाधिकरण्यं न सम्भवतीत्यत्र 'तटः, तटी, तटम्' इत्युदाहृतम्, भिन्नवचश्शन्दे सामानाधिकरण्यं न सम्भवतीत्यत्र 'गुरुः, गुरवः'