________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
चेत् ? तर्हि भिन्नानि लिङ्ग-वच:- सङ्ख्या रूपाणि येषां तादृशेषु शब्देषु ' तटस्तटी तटम्, गुरुर्गुरवः, स च त्वं च यास्यथः कुरुते करोति ' इत्यादिषु कथं सामानाधिकरण्यम् ? न कथविदित्यर्थः, यथा हि त्वया ' अग्निष्टोमयाजी पुत्रोऽस्य जनिता ' इत्युक्तं स्वीक्रियते, कालभेदात्, तथा लिङ्गादिभेदादर्थभेदः सुतरां स्वीकर्तव्य इत्युपदेशः ॥ ३५ ॥
समभिरूढं लक्षयति-
१८२
नयः समभिरूढोऽसौ यः सत्स्वर्थेष्वसंक्रमः ।
शब्दभेदेऽर्थभेदस्य व्याप्त्यभ्युपगमश्च सः ॥ ३६ ॥
6.
नयामृत० - ' नय:' इति । यः सत्स्वर्थेषु घटादिष्वसङ्क्रमो घटाद्यन्यशब्दावाच्यत्वमसौ नयः समभिरूढः, यत् सूत्रम्-“ बत्थूओ संकमणं होइ अवत्थू णये समभिरूढे " [ विशेषावश्यक नियुक्तिगाथा - २१८५ ]त्ति सत्स्वर्थेष्वसङ्क्रमः ” [ तत्त्वार्थसू० अ० १, सूत्र० ३५ ] इति तत्त्वार्थभाष्यम्, तत्र च यद्यपि यथाश्रुतार्थोऽमावालम्बनत्वेनासम्भवी, संज्ञाभेदेनार्थ भेदाभ्युपगन्तृत्वं घटपटादिसञ्ज्ञाभेदेनार्थभेदाभ्युपगन्तरि नैगमादावतिव्याप्तम्, तथापि शब्दभेदेऽर्थभेदस्य व्याप्तेरभ्युपगमः सोऽसङ्क्रम
इत्युदाहृतम्, भिन्नसङ्ख्याशब्दे सामानाधिकरण्यं न सम्भवतीत्यत्र स च त्वं च यास्यथः ' इत्युदाहृतम्, भिन्नरूपशब्दे सामानाधिकरण्यं न सम्भवतीत्यत्र ' कुरुते करोति' इत्युदाहृतम् । कालभेदेनार्थभेदो यथर्जुसूत्रेण स्वीक्रियते तथा लिङ्गादिभेदादर्थभेदोऽपि तेन स्वीकर्तव्य इति ऋजुसूत्रं प्रति शब्दनयस्योपदेशः शिक्षणस्वरूप एतत्पद्याभिप्रेत इत्याह-यथा हीति । त्वया ऋजुसूत्रनयेन, युष्मच्छ्न्देन र्जु सूत्रस्योपदर्शनत उपदेशस्वरूपतोक्तवाक्यस्य प्रतीयते । ' इत्युक्तं स्वीक्रियते, कालभेदात्' इत्यस्य स्थाने ' इत्युक्तमयुक्तं स्वीक्रियते, कालभेदादर्थभेदात्' इति पाठो 'युक्तः, अत्र वर्तमानकालवर्तिनो देवदत्ताभिख्यस्य षष्ठ्यन्तेदंशब्दप्रतिपाद्यस्य जनितेतिशब्द प्रतिपाद्यो भविष्यत्कालीनजन्मवान् दूरकालविप्रकर्षाज्जन्यत्वाभावेन न पुत्रः, किन्त्वेतत्कालीनदेवदत्तक्षणघटितसन्तान गत भविष्यत्कालीन जन्मवत्पुरुषी य गर्भगताद्यक्षणस्वरूप कुर्वंद्र पात्मकभविष्यत्क्षणविशेष प्रभवविसदृशपन्ततिपतिताद्यक्षणविशेषप्रभवद्वितीयक्षणविशेष प्रभवादिक्रमोपजातान्यवहितस्वकुर्वद्रूपात्मकक्षणविशेषस्यैव जन्यत्वादुक्तजन्मवान् पुत्र इत्यसंलग्नकत्वादस्य 'पुत्रो जनिता ' इति न संभवति, तथा यश्च पुत्रस्तत्सन्तानगत आद्यक्षणस्वरूपः सोऽन्योऽन्यश्च तत्सन्तानपतितोऽग्निष्टोमाभिधयागकरणसमर्थ इति 'पुत्रोऽग्निष्टोमयाजी' इत्यपि न सम्भवतीति 'अग्निष्टोमयाजी पुत्रोऽस्य जनिता' इति वचनमयुकं त्वया ऋजुसूत्रनयेन स्त्रीक्रियते, कालभेदादर्थ भेदादित्यर्थः । 'स्वीकर्तव्यः ' इत्यत्रापि त्वया' इत्यस्य सम्बन्धः ॥ ३५ ॥
षदत्रिंशत्तमपद्यमवतारयति समभिरूदमिति । विवृणोति नय इतीति । असङ्क्रमः' इत्यस्य विवरणम्घटाद्यन्यशब्दावाच्यत्वमिति, यथा घटशब्दवाच्यस्य चेष्टाविशेषवतो घटस्य घटशब्दान्यकुम्भ- कलशादिशब्दानभिधेयत्वमिति, विषय-विषयिणोरभेदोपचाराद् घटस्य घटशब्दान्यशब्दावाच्यत्वाभ्युपगमस्य समभिरूढनयत्वे तद्विषयस्योक्त वाच्यत्वस्यापि समभिरूढनयत्वम् । निरुक्तासङ्क्रमस्य समभिरूढनयत्वे सूत्रं प्रमाणयति- यत् सूत्रमिति । वत्थूओ० इति " वस्तुनः सङ्क्रमणं भवति अवस्तु नये समभिरूढे " इति संस्कृतम् । उक्तार्थे तत्त्वार्थ भाष्य संवादमाह - सत्स्वर्थेष्विति । उपचारतो निरुक्तसमभिरूढलक्षणं सम्भवदप्युक्तासकमे ज्ञानविशेषस्वरूपे समभिरूढे प्रसिद्धलक्ष्यस्वरूपेऽसम्भवं ज्ञानगतस्यान्यादृशस्य तस्यातिव्याप्तिं चोपदर्शयन् निष्कृष्टं दोषलेशा सम्पृक्तं तल्लक्षणमुपदर्शयति - तत्र चेति । यथाश्रुतार्थः असङ्क्रमशब्दाभिधेयार्थः । अभाव!लम्बनत्वेन सङ्कमाभावलक्षणाभावविशेषस्वरूप पर्यवसन्नत्वेन । असम्भवी समभिरूढनये ज्ञानविशेषस्वरूपे कुत्रापि लक्ष्ये न सम्भवतीति । संज्ञेति- इदं लक्षणं ज्ञानगतं समभिरूढे लक्ष्ये सर्वत्र वर्तते, घट-कुटकुम्भादिसञ्ज्ञा मदनार्थभेदाभ्युपगन्तृत्वस्य शक्रेन्द्र- पुरन्दरादिसंज्ञा भेदेनार्थ मेदाम्युपगन्तृत्वस्य च समभिरूढे सत्वात् किन्त्वतिव्याप्तिदोष कलितमिदं घटपटादिसंज्ञाभेदेनार्थ भेदाभ्युपगन्तृत्वस्य नैगमादिनयेऽप्यलक्ष्ये वृत्तेरित्यर्थः । शब्दभेद इति यस्मिन्