________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिनां समलकृतो नयोपदेशः । सत्यम्-भावसङ्ग्रहेण विषयताविशेषेण शक्तिविशेषणहेतुत्वे अभावसङ्ग्रहेण चाभावविशेषेण तथात्वे बाधका. भावात् , व्यवहारोच्छेदस्य व्यवहारनयसिद्धकार्यकारणभावेनैव निराकरणाद्, अनुभवसिद्धास्तु ग्राह्य. प्राहकनिष्ठाः सामान्यविशेषधर्मा न कल्पनामात्रेणापोहितुं शक्या इति दिक् । उत्तिष्ठन्तु विकल्पवीचिनिचयाः पर्यायमर्यादया, द्रव्यार्था[व]हिते तु चेतसि चिरं शाम्यन्तु तत्रैव ते ।
वस्तु प्रस्तुतमस्तु सागरसमं सर्वोपपत्तिक्षम, बाह्यं वा स्फुटमान्तरं समुचितस्याद्वादमुद्राङ्कितम् ॥ १॥ विशेषेण परामर्शादेहेतुत्वमिष्टमेवेति तदापादनं स्याद्वादिनं प्रति नानिष्टापादनमित्यर्थः, सामान्यं भावस्वरूपं विशेषोऽभावस्वरूप इति ग्राह्यवद् ग्राहकस्यापि सामान्य विशेषोभयरूपत्वमित्यखण्डविषयताविशेषः सामान्यांशः, अन्याश्च तत्तद्विषयनिरूपिता विषयता विशेषांश इति तत्र सामान्यग्राहिपरसङ्ग्रहनयेनाखण्डविषयतालक्षणशक्तिविशेषेण हेतुत्वं विशेषग्राह्यपरसङ्ग्रहेण नैगमनयविशेषेणातत्तद्विषयतानिरूपिततत्तद्विषयतालक्षणसखण्डविषयतास्वरूपशक्तिविशेषेणापि हेतुत्वमित्यखण्ड. विषयताविशेषेणैव हेतुत्वमित्यवधारणस्यायुक्तत्वमित्याशयेनाह-भावसाहेणेति-भावः- सामान्यांशस्तं संग्रहीतुं शीलमस्येति भावसङ्ग्रहः, परसामान्यग्राहिसङ्ग्रहनयस्तेनेत्यर्थः । 'शक्तिविशेषणताहेतुत्वे' इति स्थाने 'शक्तिविशेषण हेतुत्वे' इति पाठो युक्तः, शक्तिविशेषश्चात्र सामान्यांशगतः सामर्थ्यविशेषो बोध्यः। अभावसङ्गाहकेणेति- अभावो विशेषांशस्तं प्रहीतुं शीलमस्येति अभावसङ्गाहकोऽपरसामान्यग्राही नयस्तेनेत्यर्थः । अभावविशेषेण तत्तत्खण्डविषयताविशेषेण । तथात्वे हेतुत्वे । नन्वखण्ड विषयत्वादिना परामर्शादरनुमित्यादिकं प्रति कारणत्वं नापामरसाधारणव्यवहर्तृणां व्यव. हारवीथीमवतरतीति तथा कार्यकारणभावमाश्रयतां तत्तध्यापकविधेयकानुमितिस्तत्तस्याप्यविषयकपरामर्शादित्येवं विशिष्यानुमितिपरामर्शकार्यकारणभावावलम्बिनो व्यवहारस्योच्छेदः स्यादित्यत आह-व्यवहारोच्छेदस्येति- अस्य 'निराकरणाद्' इत्यनेनान्वयः, आपामरानुभवगोचरीक्रियमाणतत्तद्विषयताविशेषघटितमूर्तिकाभ्यां परामर्शत्वा-ऽनुमितित्वाभ्यां व्यवहारनयसिद्धो योऽनुमिति-परामर्शयोः कार्यकारणभावः सोऽपि सर्वनयमये स्याद्वादे समस्त्येव, तादृशकार्यकारणभावेनैवापामरसिद्धानुमिति परामर्शकार्यकारणभावस्य व्यवहारोपपत्तेर्व्यवहारोच्छेदस्यासम्भवादित्यर्थः । नन्वनुमिति-परामर्शकार्यकारणभाव विशिष्टवैशिष्ट्यबोधविशेषणतावच्छेदकनिश्चयकार्यकारणभावव्यवहारादिकं यदि व्यवहारनयसिद्धापामरानुभवगोचरीक्रियमाणतत्तद्विषयताविशेषसङ्कटितमूर्तिकानुमितित्व-परामर्शत्वादिकमुपादायैव तदोक्तदिशा व्यवस्थाप्यमानाखण्ड विषयतादिकमनतिप्रयोजनकमेव न प्रामाणि काभ्युपगमाई मित्यत आह- अनुभवसिद्धास्त्विति- अनुभूतिर्हि सर्वतो बलवती प्रामाणिकानपि स्वपक्ष एव व्यवस्थापयति, व्यवहारो हि भवत्युपचारबहुलो यथा यथा यद् यद् व्यवहियते तथा तथा तत् तत् कल्प्यते, न त्वेवं व्यवहारमात्रानुरोधिस्थूलकल्पनामात्रेणानुभवसिद्धानां धर्माणामपहवः शक्यः कर्तुमिति सामान्यविशेषात्मकस्य ग्राह्यस्य वस्तुनः सामान्य-विशेषात्मकमेव ग्राहकं युक्तिक्षममिति ग्राह्ये ग्राहके चानुभवसिद्धाः सामान्य-विशेषधर्मा अखण्डसखण्डरूपाः स्वीकरणीया एव प्रामाणिकैरुक्तदिशा व्यवस्थाप्यमाना विशिष्टवैशिष्टयबोधीयानल्पप्रकारविषयताविशेषा आवरणक्षयोपशमविशेषजन्यतावच्छेदिकाः प्रमाण-नयापेक्षात्मलाभा इत्यर्थः ।
विशिष्टवैशिष्ट्यबोधविचारफलं पद्येनोपदर्शयति-उत्तिष्ठन्त्विति । 'द्रव्यार्थाहिते तु' इत्यस्य स्थाने 'द्रव्यार्थावहिते तु' इति पाठो युक्तः, पर्यायमर्यादया विकल्पवीचिनिचया उत्तिष्ठन्तु, सागरे यथा क्रमश एकवीचिप्रादुर्भावोपशमानन्तरमपरवीचिप्रादुर्भावोपशमनं पुनस्तदनन्तरमपरवीचिप्रादुर्भावोपशमनमित्येवं वीचि नचयाः-तरङ्गपरम्पराः, तीरमर्यादयं त्तिष्ठन्ति- समुद्रः स्वतीरद्वयमनतिक्रम्यैवावतिष्ठते न स्वावस्थानमर्यादां कदाचिदप्युल्लङ्यति ततस्तदीयजलतरङ्गपरम्परा अपि मर्यादितदेशव्यापिन्यः एव भवन्ति, तथा स्याद्वादाभ्युपगतं वस्तु यत् सागरोपमया समलङ्कतं तद्विषयकं चैतन्यमपि सागरतयाऽध्यवसितं तस्मिंश्चित्ते, पर्यायमर्यादया पर्यायनयापेक्षया, यावन्तो धर्मविशेषस्वरूपा वस्तुगतास्तज्ज्ञानगताश्च धर्मास्ते सर्वे पर्याया एव, तद्विषयका विकल्पा एव वीचयस्तरङ्गास्तासां निचयाः समुदायाः, उत्तिष्ठन्तु तत्तत्पर्यायग्राहिनयापेक्षया प्रादुर्भवन्तु, यदा हि ग्राहकस्य विशेषरूपतामाकलयन्ति प्रेक्षाविददग्धास्तदोत्तिष्ठन्त्येव तत्तद्विशेषापेक्षया तत्तद्विकल्पाः, विशेषाः सर्वे सामान्य कस्वरूपा एव, न तु सामान्यातिरिक्ता विशेषाः सन्तीत्येवं सङ्घहै कनयकृतादरा भवन्ति यदा कृतिनस्तदा द्रव्यावहिते द्रव्य सामान्यमेव तत्त्वमित्येवं द्रव्यार्थिकनयापेक्षया द्रव्याथेकावगाहनप्रवणे, चेतसि ज्ञाने सति, तत्रैव तस्मिन्नेकस्वरूपे चेतस्येव, ते विकल्पवीचिनिचयाः, चिरं यावत्पर्यायनयविचारसम्मुखीना न भवन्ति कृतिनस्तावत्कालपर्यन्तम् , शाम्यन्तु तिरोभूता भवन्तु, नहि द्रव्यार्थ