________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
ईहाडपायपरम्परापरिचयः सर्वोऽप्ययं युज्यते, वस्त्वंशेऽप्युपयोगमाकलयतामन्तर्मुहूर्तावधिम् । अन्येषां तु विकल्प शिल्पघटितो बोधस्तृतीयं क्षणध्वंसी ध्वस्त समस्तहेत्वमिलितः कस्मिन् विचारे क्षमः ॥२॥ नयविचारणायां पर्यायनयविषयतद्विकल्पानां मनागप्यस्त्याविर्भावसङ्कथेति भावः, अतः सागरोपमं प्रस्तुतं स्याद्वाद्यभ्युपगतं वस्तुतत्त्वमस्तु । कथमित्थमभ्युपगन्तुं शक्यमित्यपेक्षायामाह - सर्वोपपत्तिक्षममिति - सामान्य पेक्षया विशेषापेक्षया च ये एकस्मिन्नेव वस्तुनि बोधवैचित्र्यप्रकारा व्यवहृतिभेदास्तन्निबन्धन कार्यकारणभावभेदाः प्रामाया प्रमाण्यव्यवस्थादयश्च तेषां सर्वेषां स्याद्वाद्यभ्युपगतेऽनेकान्तात्मक वस्तुन्येवोपपत्तिरिति सर्वविचित्रप्रत्यय-व्यवहारादिसमर्थमित्यर्थः । तदीदृशं वस्तु न केवलं बाह्यमेवान्तरमेव तथा, किन्तु बाह्यमाभ्यन्तरं च स्फुटं तथानुभूयमानत्वात् तथाभ्युपगन्तव्यमित्याह- बाह्यं वा स्फुटमान्तरमिति - अत्र वाकारः समुच्चयार्थकः । ननु सामान्य- विशेषस्वभावा दीनामखण्ड-सखण्डविषयत्वादीनां विरोधाद् यत् सामान्यात्मकं तद्विशेषात्मकं न भवितुमर्हति यस्मिन् प्रत्यये नानाविषयताशालित्वं न तत्रैकविषयताशालित्वम्, अखण्डविषयतादति च न सखण्डविषयतावत्स्त्वमिति प्रस्तुतं वस्तु न सम्भवतीत्यत आह- समुचितस्याद्वाद मुद्राङ्कितमिति - प्रामाणिकानां मध्ये विशिष्टाधिपत्यशालित्वेन राजपदाभिषिक्तानामनेकान्तवादिनां तत्तन्नयोपस्थापिततत्तन्निमित्तापेक्षया सामान्य विशेषादिविरोधप्रतिरोधकत्वेन समुचितो यः स्याद्वादोनेकान्तवादस्तलक्षणा या मुद्रा तयाऽङ्कितमित्यर्थः । उपमाने समुद्रेऽपि गङ्गायमुना दिनदीसमागमप्रभवो यो जलसमष्टेः पर्यायः - परित आय आगमनम्, तस्य या मर्यादा तीरमनुल्लङ्घयैव व्यवस्थानं तया, तीरमुलद्धयापि जलागमनस्य भावे तेन सहैव जलकल्लोलमालायाः समतलस्वभावतयैवानवरतान्यान्य भूभागसमवगाहने ऊर्ध्वदेशाक्रान्त्यभावादुत्थानं न द निरुक्तपर्यायमर्यादयैव समुद्रे वीचिनिचया उत्तिष्ठन्तीति, तद्रष्टुः पुरुषस्य द्रव्यं सुवर्णरत्नादिकं तद्रूपो योऽर्यमाणत्वादर्थो धनं तदवद्दिते तदवधानपरे - एतस्मिन् रत्नाकरे बहूनि रत्नानि सन्ति तानि कल्लोलमालया यदि तीरमागच्छेयुस्तर्हि यथेष्टतदुपादानतः कृतार्थो भविष्यामीत्येवं तदेकाग्रे, चिरं चिरकालं यावत् चेतसि सति, तत्रैव यस्मात् समुद्रादुत्तिष्ठन्ति कल्लोलास्तस्मिन्नेव समुद्रे, ते शाम्यन्ति न तु समुद्रात् तीरं रत्नान्यानयन्तीति द्रष्टुश्चेतसि मनोरथैकप्रवाहशालिनि मनोरथमपरिपूर्यैव शाम्यन्ति - विषयभावं परित्यज्यन्ति, सोऽयं समुद्रः सर्वेषां नदी-नदानां योपपत्तिरेकत्र सर्वेषां प्राप्तावपि निराबाधमवस्थानं न तु कस्यचित् तत्रान्तः प्रवेशोऽन्यस्य च तत्र प्रवेशाभाव इत्येवं वैषम्यलक्षणानुपपत्तिस्तत्र क्षमः, सागरे 'समुद्र:' इति संज्ञाऽन्वर्था - मुद्रया सह वर्तत इति, उयते नौकादिना यत् तत्र तद् ब्राह्यम् रत्नादिकं चान्तर्व्यवस्थितत्वादान्तरम्, तदुभयमपि स्फुटं यथा स्यात् तथा समुचितस्याद्वादमुद्राङ्कितम् - समुचितो यः स्याद्वाद :अमुकप्रदेशेऽस्य बाह्यं वस्तु, अमुक प्रदेशेऽस्यान्तरं वस्त्वित्येवमस्तित्ववादः, तस्यातिविपुलशरीरत्वादतिगम्भीरदुरवगाहाधस्तलत्वाच्च यन्मुद्रणं प्रत्यक्षादिबुद्धावप्रतिभासनम्, तेनाङ्कितं चिह्नितं बाह्यमाभ्यन्तरं चास्य न प्रत्यक्षादिबुद्धयाऽवधारयितुं शक्यमित्येवं ज्ञेयमिति ॥ १ ॥
११२
यत्र चेतस्यनेकान्तवस्तुविचारकर्मठे विकल्पवाचिनिचया उत्तिष्टन्त्यनेकरूपतायां पर्यायार्थिकनयाभिमतायाम्, द्रव्यार्थिकनयाभिमतायां त्वेकरूपतायां शाम्यन्ति, तस्य चेतस एकाऽनेकरूपस्य सतो दीर्घोपयोगरूपतया चिरकालावस्थाने सत्येवैतन्मननपरायणस्य स्याद्वादिनः प्रामाणिकपरिषदि सुग्राह्यवचनत्वम्, तदेतत् कथमित्यपेक्षायामाह - ईहेति- अवगृहीतस्य विशेषाकाङ्क्षणमीहा, यथा 'किञ्चिदिदम्' इति नैश्वयिका व ग्रहगृहीतस्य सामान्यवस्तुनः श्रोत्रग्राह्यत्वादिना प्रायः शब्देनानेन भवितव्यमिति ' शब्दोऽयम्' इति व्यावहारिकावग्रहगृहीतस्य वा शब्दत्वावान्तर- सामान्यवतो मधुरत्वसुश्रवत्वादिगुणयोगेन प्रायः शाङ्खादिनानेन भवितव्यमिति ज्ञानमीहा, ततः परः ' शब्द एवायम्, शाङ्ख एवायम्' इति निर्णयोऽवायः, ईहितविशेष निर्णयलक्षणः, तत्परम्परा - विशिष्टबुद्धि-विशिष्टवैशिष्ट्या वगाहिबुद्ध युपलक्षितं वैशिष्ट्या वगाहिबुद्धिविशिष्टवैशिष्टयबुद्धये कत्रद्वयमितिबुद्धिलक्षणावान्तरप्रभेदलक्षणा तत्परिचय:- परितः सर्वतोभावेन च य एकत्रोपयोगेऽपेक्षाभेदेन सम्मिलनम्, परिचीयते निश्चीयतेऽनेनेति वा परिचयः, तत्तत्सखण्डाखण्डेका नेकविषयतावैलक्षण्ययोगः । अयम् अनन्तरदर्शितस्वरूपः सर्वोऽपि, अपिना न तु तत्र किञ्चिद् युज्यते किञ्चिन्न युज्यत इत्यर्थस्य संशब्दनम् । युज्यते युक्त्या घटते । केषां मते युज्यते ! इत्यपेक्षयामाह - वस्त्वंशेऽपीति- अपिना वस्तुनि किमु वक्तव्यमित्यर्थस्यानेडनम् । अन्तर्मुहूर्तावधिमुपयोगमाकलयताम् अन्तर्मुहूर्त यावदेक उपयोगोऽवतिष्ठत इत्यन्तर्मुहूर्त स्थितिकमेकमुपयोगमभ्युपगच्छतां स्याद्वादिनां मत इत्यर्थः, वस्त्वंशेऽप्येकोपयोगस्यान्तर्मुहूर्त स्थितिकस्य भावे बहुविचारेहापायादिरूपस्य तस्यांशभेदेन विशिष्टबुद्धित्व-विशिष्टवैशिष्ट्यबुद्धित्वादिधर्मसमावेशस्य सम्भवेनैकानेक सखण्डाखण्ड विषयत्वादीनां तत्र सम्भवेन तदा