SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ - नयामृततरङ्गिणी-तरङ्गिणीत रणिभ्यां समलङ्कृतो नयोपदेशः । करोमि' इत्याकारककृतिसाक्षात्कारोत्पत्त्या व्यभिचार:, हेतुतावच्छेदके ज्ञानत्वानिवेशे च 'रक्तदण्डः ' इत्यनुबुद्ध संस्काराद् रक्तत्वनिर्विकल्पकदशायां विशिष्टवैशिष्ट्य बोधापत्तिः, उद्बोधकानां संस्कारज विशिष्ट. वैशिष्ट्यबोधहेतुत्वेऽपि तदभावे सामान्यसामग्र्या फलजनने बाधकाभावादिति वाच्यम्, कृतिसाक्षात्कारपूर्व नियमतो 'दण्डो रक्त:' इति स्मरणानभ्युपगमात् वस्तुतः संस्कारव्यावृत्तज्ञानेच्छाकृतिवृत्तिजातिविशेषं कल्पयित्वा विशेषणतावच्छेदकप्रकारक विजातीयगुणत्वेनैव हेतुत्वं स्वीक्रियते, अनन्तस्मृतिव्यक्ति तद्धेतुकल्पनापेक्षया तादृशजातिकल्पनाया एवोचितत्वात् न च कृतिसाक्षात्कारपूर्वं विषयस्मृतिकल्पनमावश्यकमन्यथोपनायकज्ञानविरहेण विषयभानासम्भवेन कृतिसाक्षात्कारानुदयप्रसङ्गादिति वाच्यम्, - ज्ञानलक्षणप्रत्यासत्तीतरमपीच्छा कृति साधारणतद्विषयकविजातीयगुणत्वेनैव हेतुत्वोपगमात्, अवश्यं च गुणमानसजनकतावच्छेदकतया संस्कारादिव्यावृत्तजातिविशेषकल्पनम्, अन्यथा संस्कारादीनां मानसविभाव्यते तदा रक्तदण्डविषयकानुद्बुद्धसंस्कारतो रकत्वस्य निर्विकल्पकोत्पत्त्यनन्तरकाल एवं रक्तदण्डं जानामि' इत्यनुव्यवसायापत्तिः, तत्र संस्कारे निरुक्तः नुव्यवसायोऽप्युक्तसम्बन्धेन वर्तते कारणतावच्छेदकधर्माक्रान्त उक्त संस्कारोऽपि, यदि च संस्कार जवैशिष्ट्यबोधे स्वातन्त्र्येणोद्बोधकानामपि कारणत्वमिति तदभावादेव न संस्कारज विशिष्टवैशिष्टयबोधापत्तिः, एवमपि विशिष्टवैशिष्ट्य बुद्धित्वलक्षणसामान्यधर्मावच्छिन्नस्य कारणसद्भावात् तदापत्तिः स्यादेवेत्याशङ्कय प्रतिक्षिपति - न चेति - अस्य 'वाच्यम्' इत्यनेनान्वयः । 'रक्तत्वनिर्विकल्पकदशायाम्' इत्यस्य 'रक्तत्व निर्विकल्पको त्पत्तिद्वितीयक्षणे' इत्यर्थः, 'निर्विकल्पकोत्पत्तिक्षणे' इत्यर्थस्तु यदि विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य यत् कारणत्वं तत्रापि ज्ञानत्वमनिवेश्य विशेषणविषयकत्वेनैव कारणत्वमास्थीयते तदा सम्भवति, अन्यथाऽनुव्यवसायस्य विशिष्टबुद्धित्वस्यापि सम्भवात् तत्र कारणीभूतस्य रक्तत्वलक्षणविशेषणज्ञानस्योक्तनिर्विकल्पकात् पूर्वमभावेन न तदानीमापत्तिसम्भव इति बोध्यम् । तदभावे उद्बोधकाभावे । सामान्यसमश्या विशिष्टवैशिष्ट्य बुद्धित्वावच्छिन्न सामान्योत्पादक सामय्या, अत्रेदं बोध्यम्- संशयानुव्यवसायस्य विशेष्ये विशेषणम्' इति रीत्या जायमानत्वेऽपि कृत्याद्यनुव्यवसायस्य विशिष्टवैशिष्ट्यावगाहित्वेन तत्र विशेणतावच्छेदकप्रकारकज्ञानस्य कारणत्वेन तत्रैव व्यभि चाराशङ्कनमिदम्, तत्र कार्यतावच्छेदकः कारणतावच्छदेकश्च सम्बन्धः समवाय एव तत एव च कारणतावच्छेदककोटौ ज्ञानत्वानिवेशेऽनुद्बुद्धसंस्काराद् विशिष्टवैशिष्टयवोधापादनं सङ्गतिमङ्गति, अन्तरा व्यवसायहेतुत्वाभिधानं तु अनुव्यवसायं प्रत्येवेति । विशिष्टवैशिष्ट्यबुद्धिं प्रति विशेषणतावच्छेदकप्रकारकज्ञानस्य यत् कारणत्वं तत्र कारणतावच्छेदककोटौ ज्ञानस्वं निवेश्यत एव तेन नानुद्बुद्धसंस्काराद् विशिष्टवैशिष्ट्यबोधापत्तिः, 'रक्तदण्डं करोमि' इति कृतिसाक्षात्कारात् पूर्वं नियमतो 'दण्डो रक्त:' इति स्मरणमुपेयते, तद्रूपविशेषणतावच्छेदकप्रकारकज्ञानत एव विशिष्टवैशिष्टयबोधात्मा कृतिसाक्षात्कार इति न तत्र व्यभिचारोऽपीति निषेधहेतुमुपदर्शयति- कृति साक्षात्कार पूर्वमिति । 'स्मरणानभ्युपगमाद्' इति स्थाने 'स्मरणाभ्युपगमाद्' इति पाठो युक्तः । लाघवादाह- वस्तुत इति । हेतुत्वं विशिष्टवैशिष्टयावगाहिबुद्धित्वावच्छिन्नं प्रति कारणत्वम्, विशेषणतावच्छेदकप्रकारक विजातीयगुणो रक्तत्वप्रकारक दण्ड विशेष्यक कृतिरपि भवति, ततो 'रक्तदण्डं करोमि ' इत्याकारकस्य रक्तत्वविशिष्टदण्डवैशिष्टया व गाहिनोऽनुव्यवसायस्य सम्भवान्न तत्र व्यभिचार इत्याशयः । कृतिसाक्षाकारात् पूर्वं नियमतो विशेषणतावच्छेदकस्मरणस्य कल्पने यदा यदा कृति साक्षात्कारात्मक विशिष्ट वैशिष्टयबुद्धिर्भवति तदा तदा तत्स्मरणं कल्पनीयमिति गौरवमतः संस्कारव्यावृत्तस्य ज्ञानेच्छा कृतिवर्तिनो जातिविशेषस्य निरुक्तकारणतावच्छेदकतया कल्पनमेवोचितमित्याह- अनन्तेति । तद्धेत्विति - अनन्त स्मृति हेत्वित्यर्थः । तादृशजातीति - ज्ञानेच्छाकृतिवृत्तिजातीत्यर्थः । ननु मनोजन्यप्रत्यक्षं ज्ञानादिषु तदाश्रयीभूतात्मनि च लौकिकमिति तत्र लौकिकसन्निकर्षस्याधिपत्येऽपि ज्ञानादिविषयीभूतस्य बाह्यपदार्थस्य यत् तत्र भानं तत्र न मनसो लौकिकसन्निकर्षः किन्तु ज्ञानलक्षणा लौकिकसन्निकर्ष इति तद्बलादेव मानसे ज्ञानादिविशेषणतया बाह्यो भासत इति यदि कृतिसाक्षात्कारपूर्वं नियमतो निरुक्तस्मरणं न करूप्येत तदा कृत्यंशे रक्तत्वविशिष्टदण्डवैशिष्टयावगाह्यनुव्यवसाय एव न स्यादिति ज्ञानलक्षणप्रत्यासत्तिसम्पत्तये स्मरणंकल्पनमावश्यकमित्याशङ्क्य प्रतिक्षिपति न चेति- अस्य 'वाच्यम्' इत्यनेन सम्बन्धः । अन्यथा कृतिसाक्षात्कारपूर्वं विषयस्मृतेरकरूपने । उपनायकज्ञानविरहेण कृतौ विशेषणतया विषयभानप्रयोजकस्य ज्ञानलक्षणालौकिकसन्निकर्षस्याभावेन । कृतिसाक्षात्कारानुदयप्रसङ्गात् स्वविषयविशिष्टकृति साक्षात्कार लक्षणकृत्यनुव्यवसायानुत्पत्तिप्रसङ्गात् । तद्विषयका लौकिकप्रत्यक्षं प्रति ज्ञानलक्षणप्रत्यासत्तेस्तद्विषयकविजातीयगुणत्वेन हेतुत्वमिति कृतिसाक्षात्कारे कृत्यंशे विशेषणतया विषयस्य भानं तद्विषयक कृतिरूप प्रत्यासत्तित एवेति निषेधहेतुमुपदर्शयति- ज्ञानलक्षणेति- 'ज्ञानलक्षणप्रत्यासत्तीतरमपीच्छा कृतिसाधारण' ९२
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy