________________
१०४
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयपदेशः ।
मानत्वात् , विशिष्टबुद्धिष्वपि हि सामान्यत एकाविशेषितस्यापरस्य निरूपितत्वेन बहुतरापि विषयता अनुभूयन्त इति चतुर्कैवेति को विभागः, अत एवैकत्र द्वयस्थलेऽप्येकत्र भासनयोर्विशेषणयोः परस्परएकविशेषितोऽपरो विषय इति तन्निष्टविषयता तत्सम्बन्धित्वेन तन्निरूपिता समस्ति, सा च तत्तद्विशेषणनिष्ठप्रकारतानिरूपितविशेष्यतारूपा, तामुपादाय च प्रकारचतुष्टयोपवर्णनं कृतं तथा स्वतन्त्रतया विशेषणस्वरूपं विशेष्यस्वरूपं च विषयः, कथमन्यथा दण्डविशिष्टपुरुषज्ञानस्य विशेष्यांशमुपादाय पुरुषमात्रविषयकपुरुषज्ञानविषयकत्वं विशेषणांशमुपादाय दण्डमात्रविषयकपुरुषज्ञानविषयकत्वं विशेषणांशमुपादाय दण्डमात्रविषयकदण्डज्ञानविषय विषयकत्वमनुभूयमानमुपपद्यत, दण्डविशिष्टपुरुषज्ञाने दण्डविशिष्टपुरुषनिष्ठविषयताकत्वमेव समस्ति, पुरुषमात्रज्ञाने च दण्डाविशेषितपुरुषनिष्टविषयताकत्वमेव समस्ति, एवं दण्डविशिष्टपुरुषज्ञाने पुरुषविशेषणीभवद्दण्डनिष्ठविषयताकत्वमेव समस्ति, दण्डमात्रज्ञाने च पुरुषाविशेषणीभूतदण्डनिष्टविषयताकत्वमेव समस्तीति 'दण्डी पुरुषः' इति ज्ञाने विशेष्यांशमुपादाय या केवलपुरुषज्ञानेन सहकविषयविषयकत्वं विशेषणांशमुपादाय या केवलदण्डज्ञानेन सहैकविषयविषयकत्वं तदनुरोधेनकाविशेषितापरनिरूपितविषयता विशेषण-विशेष्य-संसर्गादिविभिन्न विषयस्वरूपगतत्वेन बहुतरा स्वीकरणीया, एवं विशिष्टे यदपरवैशिष्टयबुद्धिस्तस्या विशिष्टस्वरूपनिविष्टविशेष्यांशमुपादाय तत्रापरवैशिष्टयबुद्धिरूपताऽपि, तत एव च तस्याः केवले विशेष्यस्वरूपे याऽपरवैशिष्टयबुद्धिस्तया सहक विषयविषयकत्वमिति तत्तद्विषयतानामुपादानेनापि परिगणितप्रकारच्यतिरिक्तप्रकाराणां सम्भवाच्चतुधैव विभाग इति नैयायिकपरिकल्पनं न युक्तमिति । अत एव बहुतराणां विषयत्वानामनुभवानुरोधात् स्वीकरणीयत्वादेव । एकत्रेति- यदि च 'एकाविशेषितस्यापरस्य' इति स्थाने 'एकविशेषितस्यापरस्य' इति पाठोऽनुभवपथमवतरति तदा विशिष्टस्य वैशिष्टयबुद्धौ यथा विशेषणतावच्छेदकधर्मनिष्ठावच्छेदकतानिरूपितस्वासाधारणधर्मनिष्टावच्छेदकतानिरूपितविशेष्यीभूतनिष्टप्रकारताख्या विषयता, यथा वा विशेषणतावच्छेदकधर्मनिष्ठपकारतानिरूपितस्वासाधारणधर्मनिष्टावच्छेदकतानिरूपितविशेष्यत्वाभिन्नतादृशधर्मद्वयनिष्ठावच्छेदकतानिरूपितविशेष्यीभूतनिष्ठप्रकारत्वा ख्यविषयता, विशेषण-विशेष्योभयस्वरूपमेव विशेषण-विशेष्यभावमापन्नं विशिष्टं न त्वतिरिक्तमित्यभिप्रायाश्रयणेनाभिमता, तथा विशेषण-विशेष्यभावेन निष्पन्नं विशिष्ट स्वरूपं कथञ्चिद्विशेषणविशेष्यस्वरूपाभ्यां भिन्नमेवेत्यभिप्रायाश्रयणेन कञ्चिद्वयतिरिक्तस्वरूपस्य विशिष्टस्य प्रकारत्वाख्यविषयत्वमप्यतिरिक्तं, तदवच्छेदकताऽपि विशिष्टासाधारणधर्मस्वरूपातिरिक्तधर्मगताऽतिरिक्ता, तन्निरूपितसंसर्गताऽपि तदवच्छेदकसम्बन्धगता विलक्षणवेति तत्तद्विषयनिष्टविषयतानिरूपितविषयताकबोधोऽपि विशिष्टवैशिष्ट्यबोधप्रकारक: सम्भवति, एवं तथाभूतानां विषयत्वानां मध्ये एकस्य निरूपितत्वमपरस्य निरूपकत्वमिति समाश्रयणेन यः प्रकाररततो विलक्षणप्रकारो भवत्यैवैकस्य निरूपकत्वमपरस्य निरूपितत्वमित्या त्रयणेन प्रकारः, तथा यद्धर्म. विशिष्टस्य यत्र प्रकारत्वं तत्र तद्धर्मस्य पि प्रकारत्वमित्यभिप्रायाश्रयणेन तद्धर्मनिष्ठपरम्परासम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यताकबोधलक्षणोऽप्यपरः प्रकार इत्येवं सूक्ष्मेक्षिकया बहूनां विशिष्टवैशिष्टयबुद्धिप्रकाराण सम्भवे चतुधैवेति विभागो न युक्त इत्याशयः । 'एकत्रद्वयस्थलेऽपि' इत्यपिना यथा 'विशिष्टबुद्धिषु' इत्यनेनाभिमतस्य विशिष्टवैशिष्टयबुद्धिषु दर्शितदिशा विषयताऽभेदस्तथेत्यस्थार्थस्यामेडनम् , 'चैत्रो दण्डी बु.प्डली' इत्येवम् ‘एकत्र द्वयम्' इति ज्ञाने दण्डत्वावच्छिन्न प्रकारतानिरूपिता सती कुण्डलत्वावच्छिन्नप्रकारतानिरूपिता या चैत्रत्वावच्छिन्नविशेष्यता तन्निरूपकबोधत्वमित्येकविशेष्यतायाः प्रकारताद्वयनिरूपित्वेन तत्र विशेष्यितायाः प्रकारिताद्वयावच्छिन्नत्वमित्येवमन्यप्रकाराद् यथा वैलक्षण्यं तथैकत्र चैत्रे भास. मानयोर्दण्डकुण्डयोरपि परस्परं सामानाधिकरण्यसम्बन्धेनवैशिष्ट्यभानमिति । सामानाधिकरण्यसम्बन्धावच्छिन्नदण्डनिष्ठ. प्रकारतानिरूपितकुण्डलनिष्टविशेष्यताकत्वं सामानाधिकरण्यसम्बन्धावच्छिन्नकुण्डलनिष्टप्रकारतानिरूपितदण्डनिष्ठविशेष्यताकत्वमपीति, तथा च सामानाधिकरण्यसम्बन्धावच्छिन्ना या दण्डनिष्टप्रकारता या च संयोगसम्बन्धावच्छिन्नदण्डनिष्टप्रकारता तयोरवच्छेद्यावच्छेदकभावः, एवं सामानाधिकरण्यसम्बन्धावच्छिन्ना या कुण्डलनिष्ठप्रकारता या च संयोगसम्बन्धावच्छिन्नकुण्डलनिष्टप्रकारता तयोरवच्छेद्यावच्छेदकभावः, एवमवच्छेद्यावच्छेदकभावापन्नप्रकारत्वानां स्वसमानाधिकरणविशेष्यतयावच्छेद्यावच्छेदकभावः, तथा प्रकारत्वाख्यविशेष्यत्वाख्यविषरतावलक्षण्ये तन्निरूपितप्रकारित्व विशेष्यित्वयोरपि वैलक्षण्यम्, तादृशविशेष्यित्वस्यापि प्रकारितयाऽवच्छेद्यावच्छेदकभाव इति, तथा च विषयताभेदप्रयुक्तमेकत्र दूयमिति ज्ञानस्यापि प्रकारान्तरं सम्भवतीत्यतोऽपि चतुधैवेति विभागोऽनुपपन्न इत्याशयः । ननु ‘एकत्र द्वयम्' इत्यत्रै कविशेष्यतानिरूपितयोः प्रकारतयोर्विशेष्यताद्वारा यत् परम्परया निरूपितत्वलक्षणो निरूपितत्वविशेषः समूहालम्बनज्ञानीयप्रकारत्वयोनास्तीत्येतावतैव समूहालम्बनादितो बैलक्षण्यस्य सम्भवेनापरधर्मनिष्ठसामानाधिकरण्यसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यत्वाभेदमपरधर्मनिष्ठविशेष्यतानिरूपितप्रकारत्वाभेदं चाभ्युपगम्यान्यज्ञानीयप्रकारतातो भेदो नाभ्युपेय इति न तत्र भासमानयोर्विशेषणयोः