________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
१०५
मपि सामानाधिकरण्येन वैशिष्ट्यभानाद् विषयताभेदः, यदि च तत्र प्रकारतयोर्निरूपितत्वविशेषान्नातिरेकस्तदा विशिष्टवैशिष्ट्यस्थलेऽप्येकप्रकारतावच्छिन्नापरप्रकारतयोपपत्तावतिरेके किं मानम् ? 'विशेष्ये विशेषणम्' इति स्थले हि रक्तत्वप्रकारतानिरूपिता दण्डत्वावच्छिन्नप्रकारता, विशिष्टवैशिष्ट्यस्थले च रक्तत्वप्रकारतावच्छिन्ना दण्डत्वावछिन्नप्रकारतेत्येवं विशेषसम्भवात् , स्वीक्रियतां वा तत्रावच्छेदकत्वाख्येष्वेव प्रकारता, प्रकारताद्वयघटितरूपेण च यथा हेतुतावश्यकत्वं तथा प्रागुक्तमेव यथा सन्निवेश- . ध्रौव्येणेति न रक्तत्व-दण्डत्वोभयावच्छिन्नप्रकारतयैव रक्तदण्डस्यैव विशिष्टवैशिष्ट्य विषयता, अन्यथा 'रक्तदण्डद्रव्यवान्' इत्यतः 'रक्तदण्डवान्' इत्यस्य वैलक्षण्याद् रक्तत्व-दण्डत्वनिष्ठद्वित्वावच्छिन्नपरस्परं सामानाधिकरण्यसम्बन्धेन वैशिष्टयभानमभ्युपेयमित्यत आह-यदि चेति । तत्र 'एकत्र द्वयम्' इति ज्ञाने । निरूपितत्वविशेषात् अन्यज्ञानीयप्रकारतातो य एकविशेष्यतानिरूपितत्वलक्षणो विशेषस्तस्मात् । नातिरेकः परस्परं सामानाधिकरण्येन वैशिष्टयभाननिबन्धन ज्ञानान्तरीयप्रकारतातो न भेदः, 'रक्तदण्डवान् पुरुषः' इति विशिष्टवैशिष्टयबोधेऽपि 'पुरुषे दण्डस्तत्र रक्तत्वम्' इत्येवं रीत्या जायमान रक्तदण्डवान् पुरुषः' इति ज्ञानीयप्रकारतातः प्रकारताया न भेदः किन्तूभयत्र रक्तत्वे दण्डे च प्रकारता समैव । विशिष्टवैशिष्टयबुद्धिप्रकारतयोरवच्छेद्यावच्छेदकभावो 'विशेष्ये विशेषणम्' इति ज्ञानप्रकारतयोनिरूप्यनिरूपकभाव इत्येवं तयोर्विशेषसम्भवादित्याह-तदेति । कि मानमिति- न किञ्चिन्मानमित्यर्थः । तादृशबोधद्वयवैलक्षण्यस्यान्यथाऽप्युपपत्त्या न तदन्यथानुपपत्तिस्तत्र मानमित्य ह- 'विशेष्ये विशेषणम्' इति स्थले हीति- यद्यपि ज्ञानान्तरे प्रकारत्वविशेष्यत्वयोरेव निरूप्यनिरूपकभाव इति प्रकारतात्वावच्छिन्ननिरूपकतानिरूपितनिरूप्यतावच्छेदकं विशेष्यतात्वमेव न प्रकारतात्वमिति रक्तत्वनिष्ठप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यतैव भवति न तु दण्डत्वावच्छिन्नप्रकारतेति दण्डत्वावच्छिन्नविशेष्यताऽतिरिक्ता तत्राभ्युपगम्यैव, तथा च रक्तत्वनिष्ठप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यतावच्छेद्यैव तत्र दण्डनिष्टप्रकारता न तु रक्तत्वनिष्ठप्रकारतानिरूपितदण्डत्वावच्छिन्नप्रकारतारूपा सा, तथापि यथकत्र द्वयमिति स्थले प्रकारत्वयोनिरूपितत्वविशेषमुपास्य सामानाधिकरण्यसम्बन्धेन परस्परवैशिष्टयभानप्रयुक्तस्य सम्भवतोऽपि विषयतातिरेकस्यानभ्युपगमस्तथैवान्यत्रादृष्टस्यापि प्रकारतात्वाभ्यां निरूप्यनिरूपकभावस्य विशिष्टवैशिष्टयबोधतो विशेषाधिगतये 'विशेष्ये विशेषणम्' इति ज्ञानीयप्रकारत्वयोरम्युपगमेन तत्र दण्डे विशेष्यतालक्षणविषयताभेदानभ्युपगम इत्याशयः । 'विशेष्ये विशेषणम्' इति बोधतो विषयतातिरेकाभ्युपगममन्तरेणापि विशेषमुपदर्शयति-विशिष्टवैशिष्टयस्थले चेतियद्यप्यत्रापि अनन्तराभासमानसमानाधिकरणकज्ञानीयविषयत्वयोरेवावच्छेद्यावच्छेदकभावो ज्ञानान्तरीयविषयतास्थले दृष्ट इति रक्तदण्डवान्' इति विशिष्टवैशिष्टयज्ञाने या रक्तत्वनिष्ठप्रकारता या च दण्डत्वावच्छिन्नदण्डनिष्ठप्रकारता तयोरेकज्ञानीययोरपि सामानाधिकरण्याभावान्नोक्तनियमानुसारेणावच्छेद्यावच्छेदकभावसम्भवः, तथापि विशेष्ये विशेषणम्' इति ज्ञानीयप्रकारतातो विशेषाधिगत्यर्थमन्यत्रादृष्टस्याप्येतस्य कल्पनम् , एतावतैवान्यबुद्धितो विशिष्टवैशिष्टयबुद्धर्भेदस्य सम्भवान्नातिरिक्तविषयताकल्पनमित्याशयः । यदि च व्यधिकरणविषयतात्मनो रक्तत्वनिष्ठप्रकारत्व-दण्डत्वावच्छिन्नप्रकारत्वयो वच्छेदकभावस्तदा विशिष्टवैशिष्टयबोधे या रक्तत्वनिष्ठप्रकारता सा रक्तत्वनिष्टावच्छेदकतैव, तन्निरूपितत्वादेव दण्डत्वाववच्छिन्नप्रकारताया: 'विशेष्ये विशेषणम्' इति ज्ञानीयप्रकारतातो विशेष इत्याह-स्वीक्रियतां वेति । तत्र विशिष्टवैशिष्ट्यबोधे । 'अवच्छेदकत्वाख्येष्वेव' इति स्थाने 'अवच्छेदकताख्यव' इति पाठो युक्तः । "विशेष्ये विशेषणम्' इति ज्ञानीयविषयताया रक्तत्वनिष्ठप्रकारतानिरूपितशुद्धदण्डत्वावच्छिन्नप्रकारतारूपाया अनुभवसिद्धत्वं कारणतावच्छेदकत्वं च पूर्वमुपपादितमेवेति स्मार. यति-प्रकारताद्वयघटितरूपेणेति । रक्तत्वनिष्ठप्रकारत्वावच्छिन्नदण्डत्वावच्छिन्न प्रकारताकत्वेन विशिष्टबोधस्य बोधान्तरतो विशेषे तद्रूपेणैव तस्य स्वकार्य प्रति कारणत्वादिकं परिभावनीयम् , प्रकारान्तराश्रयणेन तत्र विशिष्टनिष्ठप्रकारतानिर्वचनं तु न सम्भवदुतिकमित्याह-न रक्तत्वेति-प्रथमवकारेण रकत्व-दण्डत्वद्रव्यत्वादित्रितयधर्मावच्छिन्नप्रकारतया रक्तत्वनिष्ठप्रकारतानिरूपितदण्डत्वावच्छिन्नप्रकारतया विशिष्टवैशिष्ट्यबुद्धिविषयत्वस्य व्यवच्छेदः, द्वितीयवकारेण रक्त-दण्ड-द्रव्यादेः प्रकृतदण्डवानिति विशिष्टवैशिष्ट्यबुद्धिविषयत्वव्यवच्छेदः, नयभेदेन बहूनां विशिष्टवैशिष्ट्यबुद्धिप्रकाराणां सम्भवे रक्तत्वनिष्ठप्रकारत्वावच्छिन्नदण्डत्वावच्छिन्नप्रकारतयाऽपि रक्तदण्डस्येव रक्तदण्डद्रव्यत्वादेरपि विशिष्टवैशिष्टयबुद्धिविषयता सम्भवत्यैवेति तळ्यवच्छेदनं न न्याय्यमिति निषेधहेतुरत्रावसेयः । अन्यथा निरुक्कैकान्तस्यैवाश्रयणे । 'रक्तदण्डवान्' इत्यस्य लक्षण्याद' अस्य