________________
१०६
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
पर्यायाधी(धा)रताकावच्छेदकताप्रकारताश्रयणेऽतिगौरवात् , 'गुणवान् दण्डवान्' इत्यतो वैलक्षण्यसम्पादनाय रक्तविशिष्टदण्डत्वोभयपर्याप्तावच्छेदकताकप्रकारतानुधावने रक्तत्वेन दण्डे पीतावगाहिनि तादृशबोधेऽगतेश्च, तस्माद् रक्तत्वत्वावच्छिन्नावच्छेदकतानिरूपकदण्डत्वावच्छिन्नप्रकारताकबुद्धित्वमेव 'रक्तदण्डवान्' इति विशिष्टवैशिष्ट्यबुद्धित्वमाश्रयणीयम् , अनुमितिहेतुपरामर्शेऽपि हेतुतावच्छेदकावच्छिन्नस्थाने 'रक्तदण्डवान्' इत्यस्यावलक्षण्याद्' इति पाठः सम्यग, रक्तत्व-दण्डत्वोभयावच्छिन्न प्रकारता यथा रक्तदण्ड निष्ठप्रकारता तथा रक्तदण्डद्रव्यनिष्ठप्रकारताऽपि तस्यां द्रव्यत्वस्याधिकस्यावच्छेदकत्वेऽपि रक्तत्व-दण्डत्वोभयस्यावच्छेदकत्वानपायात् , एवं च रक्तत्व-दण्डत्वोभयावच्छिन्न प्रकारताकबुद्धित्वलक्षणं रक्तदण्डवैशिष्ट्यावगाहिबुद्धित्वं 'रक्तदण्डवान्' इति बुद्धाविव 'रक्तदण्डद्रव्यवान्' इति बुद्धावपीति तयोवलक्षण्यं न स्यादिति तादृशप्रकारतयैव विशिष्टवैशिष्टयधीविषयत्वस्योररीकारेऽपि रक्तदण्डस्यैवेत्यवधारणं न घटते रक्तदण्डद्रव्यस्याप्युक्तप्रकारत्वसद्भावादित्यर्थः । ननु रतत्व दण्डत्वनिष्टद्वित्वावच्छिन्नपर्याप्ताधारताकावच्छेदकतानिरूपितप्रकारतयैव रक्तदण्डस्यैव निरुक्कविशिष्टवैशिष्टयधीविषयतेत्येवमवधारणं सम्भवति, यतो 'रक्तदण्डद्रव्यवान्' इति ज्ञानीयप्रकारतानिरूपितावच्छेदकतापर्याप्तिसम्बन्धेन रक्तत्व दण्डत्व-द्रव्यत्वेषु त्रिषु वर्तत इति पर्याप्तिसम्बन्धावच्छिन्नतादृशावच्छेदकतानिष्ठनिरूपकतानिरूपिताधारता रक्तत्व-दण्डत्व द्रव्यत्वैतद्गतत्रित्वावच्छिन्ना न तु रक्तत्व दण्डत्वनिष्ठद्वित्वावच्छिन्ना, तादृशद्वित्वावच्छिन्नाधारता तु रक्तदण्डवानिति ज्ञानीयप्रकारतानिरूपितावच्छेदकत्वनिष्ठपर्याप्तिसम्बन्धनिरूपकतानिरूपितैवेति भवति 'रक्तदण्डद्रव्यवान्' इत्यतो रक्तदण्डवान्' इत्यस्य वैलक्षण्यम् , तादृशप्रकारतयैव रक्तदण्डस्यैव विशिष्टवैशिष्टयधी. विषयतेत्यवधारणं च सुसङ्गतमित्यत आह-रक्तत्व-दण्डत्वनिष्ठेति- रक्तत्व दण्डत्वगतं यद् द्वित्वं तदवच्छिन्नानुयोगितानिरूपिका या पर्याप्तिस्तत्सम्बन्धावच्छिन्ननिरूपकतानिरूपिताधारताका याऽवच्छेदकता तनिरूपितप्रकारताकबुद्धित्वं रक्तदण्डवैशिष्टयबुद्धित्वमित्येवमभ्युपगमेऽतिगौरवादित्यर्थः, किञ्च गुणवद्दण्डवानितिबुद्धितो रक्तदण्डवानितिबद्धलक्षण्यं न रक्तत्वदण्डत्वोभयावच्छिन्नप्रकारताकबुद्धित्वेन सम्भवति गुणवद्दण्डवानिति बुद्धरपि गुणत्वेन गुणमात्रस्य दण्डविशेषणत्वे रक्तरूपस्यापि गुणत्वेन दण्डविशेषणतया रक्तत्वदण्डत्वोभयावच्छिन्नप्रकारताक बुद्धित्वादतस्ततो वैलक्षण्याय रूपत्वावान्तरसामान्यरूपं यदक्तत्वं तद्विशिष्टं यद्रक्तरूपं यच्च दण्डत्वं तदुभयपर्याप्तावच्छेदकताकप्रकारताकबुद्धित्वमेव रक्तदण्डवैशिष्टयबुद्धित्वं वाच्यम् , 'गुणवतव्यवान्' इति बुद्धिप्रकारतायां च गुणत्वेनैव रक्तरूपस्यावच्छेदकत्वं न तु रक्तत्वविशिष्टस्य तत्त्वमिति भवति तद्वारणम्, किन्तु रक्तत्वेन पीतस्य दण्डेऽवगाहकं यद् रक्तदण्डवान्' इति ज्ञानं तदपि रक्तदण्डवैशिष्टयावगाहित्वेन सम्मतम् , तस्य सङ्ग्रहो न भवेत् , तज्ज्ञानीय प्रकारताया रक्तत्वविशिष्टं यद् रक्तरूपं तद्-दण्डत्वोभयपर्याप्तावच्छेदकताकत्वाभाव दित्याह- 'गुणवान् दण्डवान्' इत्यत इति-एतस्य स्थाने 'गुणवद्दण्डवानित्यतः' इति पाठो युक्तः । रक्तत्वविशिष्ट इत्यत्र रक्तत्वपदेन रूपत्वावान्तरसामान्यरूपं रक्तत्वं ग्राह्यम् । स्वसम्मतं विशिष्टवैशिष्टयबुद्धित्वस्वरूपमुपसंहरतितस्मादिति- 'रक्तदण्डद्रव्यवान्' इत्यत्र रक्तं यद् दण्डात्मकं द्रव्यं तद्वानित्येवं स्वरूपपर्यवसाने रकत्वत्वावच्छिन्नावच्छेदकता. निरूपकं द्रव्यत्वावच्छिन्नप्रकारत्वमेव न दण्डत्वावच्छिन्न प्रकारत्वमिति तद्वयवच्छेदः, 'गुणत्ववद्व्यवान्' इत्यत्र दण्डत्वावच्छिन्नप्रकारतानिरूपितावच्छेदकता गुणत्वावच्छिन्ना न रक्तत्वत्वावच्छिन्नेति तद्वयवच्छेदः, रक्तत्वत्वपदेनात्र रूपत्वावान्तरसामान्य रक्त. त्वमेव विवक्षितम् , रकत्वेन दण्डे पीतावगाहिबोधीयप्रकारतानिरूपिता पीतनिष्ठावच्छेदकताऽपि रक्तत्वत्वावच्छिन्ना भवत्येवेति तत्सङ्ग्रहश्चेति । अनुमितिं प्रति परामर्शस्य यद् विशिष्टवैशिष्ट्यावगाहित्वेन कारणत्वं तत्रापि कारणतावच्छेदक विशिष्टवैशिष्टयबुद्धित्वमित्यमेव निर्वक्तव्यमित्याह-अनुमितिहेतपरामर्शेऽपीति । हेततावच्छेदकावच्छिन्नेति- 'हेतुसमानाधिकरणात्यन्यताभावप्रतियोगितानवच्छेदकसाध्यतावच्छेदकावच्छिन्नसाध्यसमानाधिकरणहेतुमान् पक्ष.' इत्याकारकः परामर्शोऽनुमितिकारणम् , निरुक्तपरामर्शीयपक्षनिष्टविशेष्यतानिरूपितहेतुनिष्ठप्रकारतायाः साक्षादवच्छेदको हेतुतावच्छेदकताघटकसम्बन्धेन हेतुतावच्छेदकः स्वरूपसम्बन्धेन वृत्तित्वं च, यद् यत्र विशेषणं तत् तन्निष्टावच्छेदकताया अवच्छेदकम् , असाधारणधर्मस्यावच्छेदकत्वेऽपि तत्तद्धर्मावच्छिन्नत्वेनैव तत्तद्धर्मिनिष्ठावच्छेदकता निविशते विशेषणान्तरनिष्ठावच्छेदकतानिरूपितत्वेनावगतिसौलभ्याय, एवं च वृत्तित्वेऽधिकरणं तत्र साध्यं तत्र साध्यतावच्छेदकं तत्राभावस्तत्र प्रतियोगितयाऽवच्छेदकत्वं तत्र प्रतियोगिता तत्राभावस्तत्र वृत्तित्वं तत्राधिकरणं तत्र हेतुस्तत्र हेतुतावच्छेदकमसाधारणधर्मतया विशेषणम् , तदवलम्बनेन 'हेतुतावच्छेदकावच्छिन्नहेतुनिष्ठावच्छेदकतानिरूपित' इत्यादि निवेशः, हेत्वधिकरणस्य साध्याधिकरणस्य चाधिकरणत्वने प्रवेशो नाभिलषित इत्यधिकरणत्वावच्छिन्नत्वन नाधिकरणनिष्ठावच्छदकतानिवेश आहतः, अधिकरणत्वेन तत्प्रवेशस्या.