________________
११६
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
३५ भाष्यम् ] उभयथापि मिथ्यात्वमिति चेत् ? न-प्रमाणापेक्षात्वेनैतेषामुभयवैलक्षण्यादिति, अत एव संयोगेऽपि नैतेषां विप्रतिपत्तित्वम् , सत्व-जीवाजीवात्मकत्व-द्रव्यगुणपर्यायात्मकत्व-चतुर्दर्शनविषयत्वपश्वास्तिकायावरुद्धत्व-षड्व्य क्रोडीकृतत्वधम्मैरेकत्व-द्वित्व-त्रित्व-चतुष्टव-पश्चत्व-षड्त्वाध्यवसायानामिव पर्यायविशुद्धिवशात् पृथगर्यप्राहिणां मतिज्ञानादीनामिवैकत्रार्थे प्रतिनियतयिषयविभागशालिनां प्रत्यक्षादी. नामिव वा नैगमाद्यध्यवसायानामविरुद्धनानाधर्मग्राहित्वेनाविप्रतिपत्तिरूपत्वादिति सम्प्रदायः, अत्र त्रिमिनिदर्शनेविरुद्धधर्मग्राहित्वांऽशप्राहित्व-परस्परफलवैलक्षण्यानां विप्रतिपत्तित्वसाधकहेतूनामसिद्धिव्यभिचारप्रदर्शनादिष्टसिद्धिरित्यस्मदीयो विवेकः ॥ ८ ॥ पत्तय इत्यर्थः । उभयथाऽपि नयानां तन्त्रान्तरीयत्वे स्वतन्त्रत्वे चेत्यर्थः। मिथ्यात्वं भ्रमत्वम्, तथा च मिथ्याज्ञानं न वस्तुसिद्धयङ्गमिति न नयानां तत्त्वाधिगमाङ्गत्वमिति प्रश्नाभिसन्धिः, समाधत्ते-नेति । 'प्रमाणापेक्षात्वेन' इति स्थाने 'प्रमाणापेक्ष्यत्वेन ' इति पाठः शोभनः । एतेषां नैगमादिनयानाम् । उभयेति- तन्त्रान्तरीय-स्वतन्त्रोभयेत्यर्थः, प्रमाणं सत्वाऽसत्त्वाद्यनन्तधर्मात्मकतया वस्तुतत्त्वं गृह्णाति, न च परस्परविरुद्धानां सत्त्वा-ऽसत्त्वादीनामेकस्मिन् समावेश इति तेषामपेक्षाभेदेनकत्र समावेशतोऽविरोध इत्यधिगतिप्रयोजनका निमित्तभेदोपदर्शका नया विवेकेन स्वविषयधर्माणामेकस्मिन् समावेशसौष्ठवाय प्रमाणेनापेक्ष्यन्ते, तन्त्रान्तरीयाश्चैकान्तेनैव सत्त्वा-ऽसत्त्वादिधर्मग्राहका इति नाविरोधोपपादनप्रत्यलाः, प्रत्युत विरोधोपस्थापका एवेति न प्रमाणापेक्ष्याः, एवं चोदकपक्षप्राहिणः स्वतन्त्रा अपीति नयानां प्रमाणापेक्ष्यत्वं तन्त्रान्तरीयाणां स्वतन्त्राणां च तदभाव इति विरुद्धधर्मयोगान्न नयानां तन्त्रान्तरीयत्वं स्वतन्त्रत्वं वा किन्तु तदुभयविलक्षणत्वमेवेत्यर्थः। अत एव प्रमाणापेक्ष्यत्वेन नयानामुभयवैलक्षण्यादेव । संयोगेऽपीति-अपिना केवलस्यैकैकस्यैकैकधर्मग्राहकत्वेनैव विरुद्धधर्मद्वयग्राहकत्वाभावादेव न विप्रतिपत्तित्वमित्यस्योपग्रहः, नययोः संयोगे निष्पन्ननयद्वयस्वरूपस्य धर्मद्वयग्राहकत्वेऽपि विषयीभूतयोधर्मयोर्विरोधाभावादेव विरुद्धधर्मद्वयादिग्राहकत्वलक्षणं विप्रतिपत्तित्वमेतेषां नयानां नेत्यर्थः । नैगमादिनयानामविरुद्धनानाधर्मग्राहित्वेनाविप्रतिपत्तिरूपत्वं दृष्टान्तत्रयोपढौकनेन द्रढयति-सत्वेति- 'सर्वमेकं सदविशेषाद् ' इति सत्त्वधर्मेण सर्वस्यैकत्वाध्यवसायः, 'सर्व द्विस्वभावं जीवाजीवात्मकत्वाद्' इति जीवा-ऽजीवात्मकत्वधर्मेण सर्वस्य द्वित्वाध्यवसायः, 'सर्व त्रितयस्वरूपं द्रव्यगुणपर्यायात्मकत्वाद्' इति द्रव्य गुण-पर्यायात्मकत्वधर्मेण सर्वस्य त्रित्वाध्यवसायः, ' सर्वं चतुष्टयस्वरूपं चतुर्दर्शनविषयत्वाद् ' इति चतुर्दर्शनविषयत्वधर्मेण सर्वस्य चतुष्ट्वाध्यवसायः, 'सर्व पञ्चात्मकं पञ्चास्तिकायावरुद्धत्वाद्' इति पञ्चास्तिकायावरुद्धत्वधर्मेण सर्वस्य पञ्चात्मकत्वाध्यवसायः, 'सर्व पदस्वरूपं षड्व्व्यक्रोडीकृतत्वाद्' इति षड्द्रव्यक्रोडीकृतत्वधर्मेण सर्वस्य पदत्वाध्यवसाय इत्येवमुक्तानां षण्णामध्यवसायानामिवेत्यर्थः, । पर्यायेति- पर्यायविशुद्धिवशादेकत्रैवार्थे न्यूनाधिकपर्यायग्राहित्वेन पृथगर्थप्राहिणां मतिज्ञानध्रुतज्ञानादीनामिवेत्यर्थः, एकत्रार्थ इति- एकस्मिन् घटादिरूपेऽर्थे प्रतिनियतरूपरसादिविषयविभागशालिनां चाक्षुषरासनादिप्रत्यक्षादीनामिवेत्यर्थः । एकेनैव निदर्शनेन नैगमादीनामविप्रतिपत्तिरूपत्वस्य निर्णीतिसम्भवेन निदर्शनत्रयोपादानं किमर्थमित्यपेक्षायामाह- अति - नैगमादयो नया विप्रतिपत्तयो विरुद्धधर्मग्राहित्वाद्' इत्यनुमानहेतोविरुद्धधर्मग्राहित्वस्यासिद्धयुपदर्शनाय प्रथमनिदर्शनम् , यथैकत्व-द्वित्वाद्यव्यवसायविषया एकत्व-द्वित्वादयोऽपेक्षाभेदनैकत्र वर्तमाना न विरुद्धा इति तद्भाहिणामेकत्व-द्वित्वाद्यध्यवसायानामविरुद्धनानाधर्मग्राहित्वमेव न विरुद्ध नानाधर्मग्राहित्वं तथा नैगमाद्यध्यवसायविषयाः सामान्यविशेषधर्मा अप्यपेक्षाभेदेनैकत्र वर्तमाना न विरुद्धा इति तदाहिणामपि नैगमाद्यध्यवसायानामविरुद्धनानाधर्मग्राहित्वमेव न विरुद्धनानाधर्मग्रााहित्वमिति तस्यासिद्धिः, 'नैगमादयो नया विप्रतिपत्तयोऽशनाहित्वाद्' इत्यनुमानहेतोरंशसाहित्वस्य व्यभिचारोपदर्शनार्थ द्वितीयनिदर्शनम् , विप्रतिपत्तित्वस्य व्याप्यं नांशप्राहित्वं मतिज्ञानादीनामंशग्राहित्वेऽपि विप्रतिपत्तित्वाभावादित्यंशग्राहित्वहेतुळभिचरितः, ' नैगमादयो नया विप्रतिपतयः परस्परफलवलक्षण्याद्' इत्यनुमानहेतोरपि व्यभिचारप्रदर्शनार्थ तृतीयनिदर्शनम्, विप्रतिपत्तित्वाभावेऽपि प्रत्यक्षादिषु परस्परफलवलक्षण्यस्य सद्भावादिति व्यभिचार्येव परस्परफलवैलण्यलक्षणो हेतुरतो नैगमादीनां न विप्रतिपत्तित्वमितीष्टं निर्वहतीति निदर्शनत्रयोपादानं युक्तमेव, अयं च विवेको नान्येन परिभावितः किन्तु मया यशोविजयोपाध्यायेनैवेत्यावेदनायाह- इत्यस्मदीयो विवेक इति ॥८॥