________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
११७
उक्तमेवार्थ लौकिकदृष्टान्तेन समर्थयति
न समुद्रोऽसमुद्रो वा समुद्रांशो यथोच्यते ।
नाप्रमाणं प्रमाणं वा प्रमाणांशस्तथा नयः ॥९॥ नयामृत-'न समुद्रः-स्पष्टः। पर्याप्ति-तदन्यसम्बन्धाभ्यां समुद्रत्व-तदभाववत्तया प्रमाणाऽप्रमाणोभयवैलक्षण्यम् , अन्यत्र तु तज्जातीयतयेति फलितार्थः ॥ ९॥
स्वार्थनिश्चायकत्वरूपं नयप्रामाण्यसंशयेन विषयसंशयात् निश्चयस्यानिश्चयपरिणत्या न कथश्चिदित्यत्रापि नयानामनेकान्त एवेति शिक्षयति
स्वार्थे सत्या परैना असत्या निखिला नयाः।
विदुषां तत्र नैकान्त इति दृष्टं हि सम्मतौ ॥ १०॥ नयामृत०-स्वार्थ इति-स्वार्थे स्वविषये, सत्याः निश्चायकाः, परैः नयैः, नूना अप्रामाण्याः शङ्काविषयीकृताः, असत्याः अनिश्चायकाः, निखिला नयाः नैगमादयः, विदुषां सिद्धान्तव्युत्पन्नानाम् , तत्र नयप्रामाण्या ऽप्रामाण्ययोः, नैकान्तः, वक्तुं युक्त इति शेषः, इति दृष्टं परीक्षिनम्, हि सम्मती, अभियुक्तवचनसंवादप्रदर्शनमेतत् , तद्वचनं च- नवमं पद्यमवतारयति- उत्कमेवेति- नयस्य प्रमाणा-ऽप्रमाणैवलक्षण्यमेवय॑थः । “न समुद्र०" इत्यादि पद्यं स्पष्टार्थत्वान्न विवरणार्हमतो नतझ्याख्या वितन्यत इत्यावेदनायाह-शष्ट इति-श्लोकोऽयं स्पष्टार्थ इत्यर्थः । यथाश्रुतार्थस्य स्पष्टत्वेऽपि फलितार्थस्य स्थूलमत्यगोचरत्वात् तमुपदर्शयति- पर्याप्तीति- अत्र 'पर्याप्ति-तदन्यसम्बन्धाभ्यां समुद्रत्व तदभाववत्तया' इत्यस्य स्थाने 'समुद्रांशे वैलक्षण्यं पर्याप्ति-तदन्यसम्बन्धाभ्यां समुद्रत्व तदभाववद्भधाम् ' इति पाठो युक्तः, तथा च समुद्रांशे समुद्रत्वं पर्याप्तिसम्बन्धेन न वर्तते, समुद्रांशे पर्याप्तिसम्बन्धेन समुद्रत्वस्य सत्त्वे तस्मिन्नेकस्मिन्नेवांशे समुद्रत्वस्य परिसमाप्तत्वात् सम्पूर्णः समुद्रः समुद्रो न भवेत् , तथा समुद्रांशे समुद्रत्वाभावोऽपि स्वरूपसम्बन्धेन न वर्तते, समुद्रांशे स्वरूपसम्बन्धेन समुद्रत्वाभावस्य सत्त्वे एकस्मिन्नेवान्यास्मन्नपि समुद्रांशे विनिगमनाविरहेण समुद्रत्वाभावस्य सत्त्वमित्यशेषाणामेव समुद्रांशानां समुद्रत्वाभाववत्तयांऽशेषांशभिन्नस्यांशिनः समुद्रस्याभावेन न कोऽपि समुद्रः स्यादिति पर्याप्तिसम्बन्धेन यत् समुद्रत्ववत् , यच्च-तदन्यसम्बन्धेन पर्याप्तिभिन्नसम्बन्धेन स्वरूपसम्बन्धेनेति यावत् , तदभाववत् समुद्रत्वाभाववत् , ताभ्यां समुद्रांशे वैलक्षण्यमित्यर्थः । प्रमाणेति। तु पुनः । अन्यत्र नयरूपे प्रमाणांशे, प्रमाणा-ऽप्रमाणोभयवैलक्षण्यं प्रमाणाप्रमाणाभ्यां वैलक्षण्यम् । तज्जातीयतया प्रमाणजातीयतया अप्रमाणजातीयतया च, अर्थान्नयः सप्तभङ्गपरिकरितवस्त्ववगाहितावद् यत् प्रमाणं तब तीयत्वाभावान्न प्रमाणमिति प्रमाणविधर्मा, तदभाववति तत्प्रकारकत्ववद् यदप्रमाणं तजातीयत्वाभावान्नाप्रमाणमित्यप्रमाणविधर्मेत्यर्थः ॥९॥ . दशमं पद्यमवतारयति-स्वार्थनिश्वायकत्वरूपमिति-अत्र 'स्वार्थनिश्चायकत्वरूपं नयप्रामाण्यसंशयने' इत्यस्य स्थाने 'स्वार्थनिश्चायकत्वरूपं प्रामाण्यमपि परनयप्रयुक्तप्रामाण्यसंशयेन' इति पाठो युक्तः, अयमर्थः- स्वार्थनिश्चायकत्वरूपं यन्नयगतं प्रामाण्यं तदपि- स्वप्रतिपक्षभूतनय प्रयुक्तो यः स्वस्मिन् प्रामाण्यसंशयस्तेन, स्वविषये संशयानिश्चयात्मकस्यापि स्वस्यानिश्चयपरिणत्या अनिश्चयात्मना परिणामेन न कथञ्चित् कथञ्चिन्न भवत्यपि। इति एतस्मात् कारणात् । अत्रापि स्वगतप्रामाण्येऽपि । नयानामनेकान्त एव नयाः कथञ्चित् प्रमाणं कथञ्चिदप्रमाणमित्येवमनेकान्त एव । इति शिक्षयति एवं निरूपयति । 'स्वार्थ सत्या परैना' इत्यस्य स्थाने 'स्वार्थे सत्याः परैर्नुन्ना' इति पाठो युक्तः, टीकायामपि नूनेति स्थाने नुन्नेति पाठो बोध्यः। 'परैः' इत्यस्य विवरणम्- 'नयैः' इति, तस्य परनयैः स्वविपक्षनयैरित्यर्थः, 'नूना अप्रामाण्याः शङ्काविषयीकृताः' इत्यस्य स्थाने 'नुन्ना अप्रामाण्याशङ्काविषयीकृताः' इति पाठः