________________
२००
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
कार्य जनयेताम् १ न द्वितीयः-उपपद-धातु-प्रत्ययप्रत्येक सङ्केतप्रतिसन्धानजस्मरणानि(नां) समुदायार्थस्मृतिकालेऽसत्त्वादुत्तरोत्तरेण पूर्वपूर्वनाशात्, न च प्रत्येकस्मरणजन्यसंस्कारसमुदायात् पङ्क-जनिकर्तृत्वपद्मत्वानामेकमेव समूहालम्बनं स्मरणं कार्यदर्शनात् कल्प्यत इत्यपि युक्तम् , एवमपि हि पङ्कज-निकर्तृपद्मानयनान्वयः प्रत्येकं स्यात् , न तु विशिष्टवैशिष्ट्येन; किश्च, द्वयेनान्वये वाक्यभेदप्रसङ्गः कथकारं वारणीयः ? कथं वा न गवादिपदेऽपि योगरूढिः ? को हि " गमे?" [पा० उणा० २२५ ] " सप्तम्यां जनेर्ड:" [पा० ३. २. ९७. ] इत्यनयोर्विशेषः ? अनुशासनावधृतविभागप्रकृति-प्रत्ययशक्ति. भिरुभयत्र योगरूढेरेव सम्भवादिति, उ(अत्रो)च्यते-' पङ्कजमानय ' इति वाक्यात् पङ्कजनिकर्तारं पञ समानयेति प्रतीतेः पङ्कजपदेन प्रत्येक समुदायशक्तिप्रतिसन्धानसहकारिवशाद् मिलितगोचरमेकमेव पदरूपमेव, न तु वाक्यरूपमतः पङ्कजपदात् पद्मरूपयस्य स्मरणमेव, न त्वनुभव इति पद्माशे स्मरणसामग्रो, न त्वनुभवसामग्रीत्यर्थः । ते च निमतानुभवसामग्रीनिरुक्तस्मरणमामध्यौ च, अनुभवसामग्रो अनुभवं जनयति, स्मरणसामग्रो स्मरण जनयति; अनुभवत्वस्मरणत्वयोश्च विरोधानकं ज्ञानमनुभवस्मरणात्मकं संभवतीति निरुक्तसामाग्यौ मिलिते अपि नैकं कार्य कर्तुमर्हत इति कथमेकं ज्ञानं निरुक्तसामग्यौ जनयेतामित्यर्थः । पकजादेन 'पकजनिकर्तृ पद्मम्' इत्याकारकं ज्ञान स्मरणरूपमुपजायत इति द्वितीयपक्षोऽपि न समीचीन इत्याह-न, द्वितीय इति। निषेधे हेतुमाहउपपदेति-पकजशब्दे पङ्कपदमुपदं तस्य कर्दमरूपार्थे सङ्केतः, जन् वातुस्तस्योत्पत्तौ सङ्केतः, डप्रत्ययस्ता कर्तरि सङ्केत इति निरुक्तपदत्रयसङ्केतप्रतिसन्धानानि ऋमिकाणि, तभ्यो जायमानानि कर्दमादिरूपार्थस्मरणान्यपि क्रमिकाणि, तेषां चैकदा पकजनिकर्तृपद्मात्मकसमुदायार्थस्मृतिकालेऽसत्त्वाजन्धात्वर्थोत्पत्तिस्मरणसमये जन्धातुमकेतस्मरणेनोपपदपकार्थकर्दमस्मरणस्य डप्रत्ययार्थकर्तृस्मरणसमये डप्रत्ययसङ्केतप्रतिसन्धानेन धात्वर्थोत्पत्तिस्मरणस्य च विनाशान्न पङ्कजनिक पद्मरूपसमुदायार्थस्मरणं संभवतीत्यर्थः । ननु उपपदादिप्रत्येकादसकेतप्रतिसन्धानप्रभवक्रमिकस्मृतिभ्यः पङ्कजेत्यखण्डपद. समुदायसङ्केत प्रतिसन्धानप्रभवपद्मरूपार्थस्मृत्या च प्रत्येक क्रमिकाः स्वसमानविषयकाः संस्काराः समुत्पन्नास्तेषां च युगपत् सद्भावात् तत्समुदायनककालवतिना पङकजनिकर्तृपद्मरूपार्थस्मरणं समूहालम्बन भविष्यतीत्याशय प्रतिक्षिपति-न चेतिअस्य ‘युक्तम् ' इत्यनेनान्वयः । कार्यदर्शनादिति-यदि तत्तदर्थस्मरणप्रभवसंस्कारसमुदायो न भवेन्न पङ्कजनिकर्तृपद्मानां समूहालम्बनात्मकस्मरणमुपलभ्येतेति तादृशसमूहालम्बनस्मरणरूपकार्यदर्शनादेवं कल्प्यत इत्यर्थः । भवतूकदिशा पक-जनिकर्तृ-पद्मत्वानां सम्हालम्बनस्मरणं तथाप्यानयनरूपपदार्थान्तरेण समं स्मृतानां तेषां प्रत्येकमेवान्वयः, यपेणैकपदार्थस्मरणं तद्रपेणैव तस्यापरपदार्थेन सममन्वय इति नियमात्, पङ्कपदार्थस्य कर्दमस्य धात्वर्थ जनने तस्य च प्रत्ययार्थकर्तरि तस्य च समुदायार्थपोऽन्वयतो नियमतो निष्पन्नस्य पकजनिकर्तपद्मरूपार्थस्य विशिष्टस्यानयनरूपपदार्थान्तरेण सममन्वयः स्यात् , पङ्कजनिकर्तृपद्मत्वेन रूपेण निरुक्तविशिष्टरूपार्थस्य पदादनुपस्थितेरिति निषेधहेतुमुपदर्शयति-एवमपीति-निरुक्तसंस्कारसमुदायान्निरुक्तार्थानां समूहालम्बनैकस्मरणसम्भवेऽपोत्यर्थः । पङ्कजपदस्यावयवशक्ति समुदायशक्त्योरुपगमे दोषान्तरमुपदर्शयतिकिश्चेति । द्वयेनेति-पङ्कजमानय' इत्यत्रानयनरूपपदान्तरार्थस्य पङ्कजानि यवार्थेन पद्मरूपसमुदायार्थेन च सममन्वये द्वितीयाविभक्त्यर्थकर्मत्वं मध्ये सन्निवेश्य तद्वारा स्वीक्रियमाणे पङ्कजनिकर्तृकर्मकानयनबोधः पद्मकर्मकानयनबोधश्च ततो भवेदिति साक्षात् परम्परया परस्परानन्वितविभिन्नार्थबोधकत्वलक्षणवाक्यभेदात्मकदोषोऽत्र भवन् कवकार वारणीयः? न कथञ्चित् स वारयितुं शक्य इत्यर्थः । यथा च पङकजपरेऽवयवशक्ति-समुदायशक्त्योः सद्भावाद् योगरूढिस्तथा गवादिपदेऽपि तयोः सद्भावाद् योगरूढिः किं न भवद्भिरुपेयते ? इत्याह -कथं वेति-गममार्थकगमिधातो?प्रत्यये सति गौरिति पदं निष्पद्यते, तत्र गमिधातोर्गमनमर्थः, डोप्रत्ययस्य च कर्ताऽर्थः, तथा च गमनकर्ताऽवयवशक्त्याऽर्थः समुदायशक्त्या गोत्ववानर्थः, एवं च गमनकर्ता गौरिति गोशब्दार्थः पङ्कजपदेऽपि पङ्कपदार्थः कर्दमः जनिधातोर्जननमर्थः, डप्रत्ययस्य कर्ताऽर्थः, समुदायशक्त्या च पद्ममर्थ इति पकजनिकर्तृ पद्ममित्यर्थः पङ्कजपदस्य, इत्थं चानयोर्न कश्चिद् विशेष इति गवादिपदं रूढमेव पङकजादिदं योगरूढमिति विभागकल्पना नैयायिकानां दुष्कल्पनैवेत्याह-को हीति । अनयोः डोविधायक-डविधायकयोः । अत्र उक्ताशङकायाम्। उच्य ने प्रतिविधानं कथ्यते । मिलितगोवरं पकजनिकर्तृ