________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलड़तो नयोपदेशः । ग्रपदेनापि ' पचति' इत्यस्य समभिव्याहारप्रतिसन्धानेन पुरुषैः खण्डने क्रियमाणे श्लोक इवान्वय. बोधदर्शनाद् वाक्यार्थानुभवे समभिव्याहारप्रतिसन्धानस्यैव हेतुत्वात् ; अर्थाध्याहारपक्षोऽप्ययुक्त एव, 'विमतो द्वारान्वयबोधो द्वारोपस्थापकपदजन्यः शब्दद्वारान्वयबोधत्वात् सम्प्रतिपन्नवत्' इत्यनुमानात् 'पिधेहि ' इत्यत्र ' द्वारम् ' इति शब्दाध्याहारस्यैव सिद्धेः, किञ्च, विभकिविशेषसमभिव्याहारमासाथैव पदानामर्थानुभावकत्वम् , तथैवाकाङ्कादर्शनादिति एव पदार्थो न शाब्दः, तदंश एवाकालाऽसम्भवेनान्वयबोधानुपपत्तेः, गौरवस्य प्रामाणिकत्वे यावदन्वयप्रतियोग्युपस्थितेः शाब्दत्वस्य शाब्दबोधे तन्त्रत्वाविति दिक् । स्यादेतत्, ' पङ्कजमानय' इत्यत्र पङ्कजशब्देन वाक्यार्थज्ञानानुकूलं कीहक् पदार्थज्ञानं जन्यते १ 'पनं पङ्कजनिकर्तृ ' इत्याकारमिति चेत् ? तत् किम् अनुभवरूपं स्मरणरूपं वा ? नाद्य:सामग्रीविरोधात्, पङ्कजनिकर्तृत्वांशे झनुभवसामग्री, पद्मांशे स्मरणसामग्री, ते च मिलित्वा कथमेकं पुरुषान्तरोदीरित' इति स्थाने 'न च पुरुषान्तरोदीरित' इति पाठो युक्तः। तद्धेतुत्वं तात्पर्यग्रहस्य कारणत्वम् । निषेधे हेतुमुपदर्शयति-आसत्तिसत्त्वाऽसत्वाभ्यामेवेति । ती अन्वयबोधाऽन्वयाबोधौ, पुरुषान्तरेण 'कलायम् इत्युको 'कलायं पति' इत्येवं 'कलायम्' इत्यस्य ‘पचति' इत्यनेन सहाव्यवहितपूर्वापरीभावलक्षणासत्तिसत्वे कलायकर्मकपाकान्वयबोधो भवति, निरुता सत्यभावे च निरुतवाक्यार्थबोधो न भवतीत्यन्वय-व्यतिरेकाभ्यामासत्तेरेव वाक्यार्थबोधं प्रति कारणत्वं न तु तात्पर्यग्रहस्य । 'पुरुषैः खण्डने क्रियमाणे' इत्यस्य स्थाने 'पुरुषैरन्वये क्रियमाणे ' इति पाठ युकः । श्लोक इवेति-यत्पदद्वयार्थयोरन्वयबोधोऽपेक्षितस्तयोः पदयोः श्लोके समभिव्याहृतयोरभावे यथाश्रतश्लोकवाक्यात् तत्पदद्वयार्थान्वयबोधाभावेऽपि तत्पदयोरासत्तिकल्पनया यद् वाक्यान्तरं तत एव पदव्यासत्तिसहकारादन्वयबोधो यथा. दृश्यते तथाऽन्यत्राप्यासत्तित एवान्वयबोधभावेन वाक्यार्यानुभवे समभिव्याहारलक्षणासत्तिप्रतिसन्धानस्यैव हेतुत्वादि. त्यर्थः । यदपि 'अत एव तात्पर्यविषयान्वयप्रतियोगिवाचकपदाध्याहारापेक्षयाऽर्थाध्याहार एव लाघवमामनन्ति' इति प्रन्थेन समभिरूढनयमतेऽर्थाध्याहारस्यैव युक्तत्वमावेदितं तदपि न युक्तमित्याह- अर्थाध्याहारपक्षोऽप्ययुक्त एवेति । कथमयुक्त इत्यपेक्षायां तत्र हेतुमुपदर्शयति-विमत-इति- 'द्वारकर्मकपिधानक्रियाकर्तृविषयकशाब्दबोधः पदजन्यद्वारकर्मत्वोपस्थितिजन्य एव, पदाजन्यद्वारकर्मत्वोपस्थितिजन्योऽपि' इत्येवं विप्रतिपत्तिविषयः, द्वारकर्मकपिधानक्रियाकर्तृविषयकः शान्दबोध इत्यर्थः । सम्प्रतिपन्नवदिति- यथा वादि-प्रतिवाद्युभयसम्मतो 'द्वारं पिधेहि ' इति वाक्यजन्यो द्वारकर्मकपिधानक्रियाकर्तृगोषस्तथेत्यर्थः । पिधेहीत्यत्रेति- यत्र 'पिधेहि ' इत्येतावन्मात्रमुकं न तु द्वारं तत्रेत्यर्थः । पदाध्याहारस्यावश्यकत्वे युच्यन्तरमाह-किश्चेति । तथैव विभक्तिविशेषसमभिव्याहारत एव । 'एव' इत्यस्य स्थाने 'पद एवाकाङ्क्षा, ' इति पाठः सम्यग्, 'पदार्थो न शादः' इत्यस्य स्थाने 'पदार्थो न शब्दः' इति पाठो युक्तः । तदंश एव पदार्थांश एव, एवं च पदाध्याहारपक्षे प्रथमं पदज्ञानं ततः पदार्थोपस्थितिस्ततः शाब्दबोधः, अर्थाध्याहारपक्षे तु प्रथमत एवपदार्थोपस्थितिस्ततः शान्दबोध इत्यर्थाध्याहारापेक्षया पदाध्याहारे गौरवनिति यत् पराभिप्रेतं तत्राह- गौरवस्येति-अप्रामाणिकमेव गौरवं दोषाय न तु प्रामाणिकम् , प्रकृते तु पदाध्याहाराभाव अर्थे आकाक्षाऽभावादेव न ततः शाब्दबोध इति शाब्दबोधानुरोधेन पदाध्याहार आवश्यक इति पदाध्याहारे गौरवस्य प्रामाणिकत्वे सुव्यवस्थिते यावदन्वयप्रतियोगिनामुपस्थितेः शब्दजन्यत्वस्य शाब्दबोधे प्रयोजकत्वादित्यर्थः । पङ्कजपदस्थ समुदायशक्तिमसहमानः परः शङ्कते-स्यादेतदिति । पङ्कजशब्दन पदार्थज्ञानं कीदृशं जायते इति पृच्छायामुत्तरमाशङ्कते- पद्ममिति । आशङ्कितमुत्तरं विकल्प्यापहस्तयतितदिति-'पमं पङ्कजनिक' इत्याकारकं ज्ञानमित्यर्थः । नाद्य इति- 'पङ्कजनिकर्तृ पद्मम्' इत्याकारकमनुभवरूपं ज्ञानं पङ्कजपदेन जायत इति प्रथमकल्पो न समीचीन इत्यर्थः । निषेधहेतुं सामप्रीविरोधादित्युपपादयति-पङ्कजनीति-पङ्कजनिकर्तृत्वं पक्कजशब्देनावयवशक्त्या प्रतिपाद्यते, तत्र पङ्कपदेन पकरूपार्थस्योपस्थितिः, जपदेन जनिकर्तुरुपस्थितिरित्युपस्थितिद्वयेन पङ्कजनिकर्तुरवगतिरिति पकजशब्दो वाक्यावधयेव पङ्कजनिकर्तुरवबोधक इति पकजनिकर्तृज्ञानं शाब्दबोधात्मकानुभव एव, न तु स्मरणमिति पङ्कजनिकर्तृत्वांशेऽनुभवसामग्रीत्यर्थः । पद्मांश इति- पद्म पङ्कजपदं रूढत्वात्