________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
३१७
व्यवह्रियते, इदमेवात्मतादात्म्येनाध्यस्यमानमात्मनि सुखदुःखादिस्वधर्माध्यासे उपाधिः, स्फटिके जपाकुसुममिव लौहित्यावभासे । एवं प्राणादयस्तद्धर्माश्चाशनीयाः पिपासादयः तथा, श्रोत्रादयो वागा. दयश्च तद्धर्माश्च बधिरत्वा-ऽन्धत्वादयोऽध्यस्यन्ते, तथा देहस्तद्धर्माश्च स्थूलत्वादय आत्मन्यध्यस्यन्ते । तत्रेन्द्रियादीनां न तादात्म्याध्यासः, अहं श्रोत्रमित्यप्रतीतेः, देहस्तु मनुष्योऽहमितिप्रतीतेस्तादात्म्येनाध्यस्यते, एवं चैतन्यस्याप्यहङ्कारादिषु देहपर्यन्तेष्वध्यासः स्वीकार्यः, अध्यासव्यवधानतारतम्याच्च प्रमेय. तारतम्यम्, तदुक्कं वार्तिकामृते
" वित्तात् पुत्रः प्रियः पुत्रात् , पिण्डः पिण्डात् तथेन्द्रियम् ।
इन्द्रियेभ्यः परः प्राणः, प्राणादात्मा परः प्रियः ॥" सङ्कल्पाध्यवसायादिलक्षणा विषय स्त्वमी ॥१॥" [ इति । चैतन्येऽन्तःकरणाहकारादेरध्यासस्य निरुपाधिकत्वमुपदर्य आत्मनि सुख-दुःखादिधर्माध्यासस्य सोपाधिकत्वमुपदर्शयति- इदमेवेति-निरुक्तस्वरूपमन्तःकरणमेवेत्यर्थः । आत्मतादात्म्येनाध्यस्यमानम् आत्मनि तादात्म्येनाध्यस्यमानं सत्, अस्योपाधिरित्यनेनान्वयः । स्वधर्मेतिअन्तःकरणधर्मेत्यर्थः । स्वधर्माध्यासे खस्योपाधित्वे दृष्टान्तमाह- स्फटिक इति-जपाकुसुमं यथा खगतलौहित्यधर्मस्य स्फटिकेऽवभासे उपाधिस्तथेत्यर्थः। यथाऽन्तःकरण-तद्धर्मसुख-दुःखादीनामात्मन्यध्यासस्तथा प्राणादीनां तद्धर्माणामशनीयादीनामात्मन्यध्यासः, एवं श्रोत्रादीनां ज्ञानेन्द्रियाणां वागादीनां कर्मेन्द्रियाणां तद्धर्माणां बधिरत्वादीनां चात्मन्यध्यास इत्याहएवमिति । तद्धर्माश्च प्राणादिधर्माश्च । “श्चाशनीयाः पिपासादयः तथा," इत्यस्य स्थाने 'श्वाशनीयापिपासादयः, तथा' इति पाठः समीचीनः । तद्धर्माश्च श्रोत्रादिधर्माश्च । अन्धत्वादय इत्यत्रादिपदात् कुष्ठादीनां त्वगादिधर्माणां मूकत्वादीनां वागादिधर्माणामुपग्रहः। देह-तद्धर्माणामप्यात्मन्यध्यास इत्याह- तथा देह इति । तद्धर्माश्च देहधर्माश्च । इन्द्रियादीनां तादाम्यातिरिक्तसम्बन्धेनैवाध्यासो न तादात्म्यसम्बन्धेनेत्याह-तत्रेति- आत्मनीत्यर्थः । आत्मनीन्द्रियस्य तादात्म्याध्यासाभावे हेतुमुपदर्शयति- अहं श्रोत्रमित्यप्रतीतेरिति- एतच्च 'अहं चक्षुः, अहं घ्राणम्' इत्याद्यप्रतीतेरिति हेतोरप्युपलक्षणम् । देहस्तु तादात्म्येनात्मन्यध्यस्यत इति सहेतुकमुपदर्शयति-देहस्त्विति । यथा चैतन्येऽहङ्कारादीना. मध्यासस्तथा चैतन्यस्याप्यहंकारादिष्वध्यासः, सोऽयमन्योऽन्याध्यास इत्याह- एवमिति । चैतन्यमात्मस्वरूपं परमप्रेमास्पदम् , तत्र यस्याभेदाद्यध्यासस्तस्य वा यत्राभेदाद्यध्यासस्तत्रापि प्रेम भवति, किन्तु साक्षादव्यवधानेनाध्यासे उत्कृष्टं प्रेम, ततो व्यवधानतरतमभावाभ्यासिताध्यासतस्तदपकृष्टतरतमभावापन्नं प्रेम भवतीत्याह- अध्यासतारतम्यभावाच्चेति । “प्रेमयतारतम्यम्" इत्यस्य स्थाने "प्रेम्णस्तारतम्यम्" इति पाठो युक्तः । उक्कार्थे वार्तिकामृतसम्मतिमुपदर्शयति- तदुक्तं वार्तिकामृत इति । वित्तादिति-वित्तं-धनं सर्वस्यात्मनः प्रियं भवति, परमप्रेमास्पदस्यात्मनो वित्ते स्वस्वत्वसम्बन्धाध्यासात् , ततोऽप्युत्कृष्टस्वत्वाध्यासादुत्कृष्टप्रियः पुत्रो भवति, पुत्रादपि पिण्डः शरीरं स्वतादात्म्यापन्नाहङ्कारतादात्म्याध्यासादुत्कृष्टतरप्रियं भवति, तथा उक्तप्रकारेण पिण्डादप्युत्कृष्टतमप्रियमिन्द्रियं भवति, इन्द्रियेभ्योऽपि पर:- अत्यन्तोत्कृष्ट. प्रियाः प्राणा भवन्ति, उक्तेभ्यः सर्वेभ्योऽनन्तरनिर्दिष्टप्राणेभ्यः परो निरतिशयः प्रिय आत्मा भवतीत्यर्थः । आत्मनः परमप्रेमास्पदत्वं च पञ्चदश्यां तत्त्वविवेकप्रकरणेऽप्युक्तम्
" इयमात्मा परानन्दः परमप्रेमास्पदं यतः । मा न भूवं हि भूयासमिति प्रेमात्मनीक्ष्यते ॥" [
इदं च पद्यमित्थं व्याख्यातम्- भवत्येवं संविदो नित्यत्वं स्वप्रकाशत्वं च ततः किमित्यत आह- इयमिति-अनार्य प्रयोगः- 'इयमात्मा संविद् भवितुमर्हति, नित्यत्वे सति स्वप्रकाशत्वाद्, यन्नैवं न तदेवं यथा घटः' इत्यात्मनो नित्यसंविद्रूपत्वप्रसाधनेन सत्यत्वमपि साधितं भवति, नित्यत्वातिरिक्तसत्यत्वाभावान्नित्यत्वं सत्यत्वं तद् यस्यास्ति तन्नित्यं सत्यमिति वाचस्पतिमित्रैरुतत्वादिति भावः । आत्मन आनन्दरूपत्वं साधयति- परानन्द इति- आत्मेत्यनुषज्यते, परश्चासावानन्दश्चेति परानन्दो निरतिशयसुखस्वरूप इत्यर्थः, तत्र हेतुमाह- परेति- यतो यस्मात् कारणात् परस्य- निरुपाधि. कत्वेन निरतिशयस्य, प्रेम्णः- स्नेहस्य, आस्पदं- विषयस्तस्मात् , अत्रेदमनुमानम्- आत्मा परमानन्दरूपः परमप्रेमास्पद