SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३१८ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । तेनान्योऽन्याध्यासाच्चिदचिदन्थिरूपोऽयमध्यासः समूहालम्बनभ्रमवदवश्यमत्रेतरेतराध्यासस्याभ्युपगन्तव्यत्वात् । अयमेव संसारो मायाशबलाच्चिदात्मना आकाशादिक्रमेण लिङ्गशरीरात्मकापञ्चीकृत त्वात् , यः परमानन्दरूपो न भवति नासौ परमप्रेमास्पदमपि, यथा घटः, तथा चायं परमप्रेमास्पदं न भवतीति न, तस्मात् परमानन्दरूपो न भवतीति न । नन्वात्मनि धिङ् मामिति द्वेषस्योपलभ्यमानत्वात् प्रेमास्पदत्वमेवासिद्धम् , कुतः परप्रेमास्पदत्वमित्याशा तस्य दुःखसम्बन्धनिमित्तकत्वेनान्यथासिद्धत्वात् प्रेम्णश्चात्मन्यनुभवसिद्धत्वान्मैवमिति परिहरतिमा न भूवमिति । हि- यस्मात् कारणादात्मनि विषये मा न भूवम्- अहं मा भूवमिति न, ममासत्त्वं कदापि मा भूत् , किन्तु भूयासमेव सदा सत्त्वमेव मम भूयादित्येवंविधं प्रेमेक्ष्यते- सर्वैरनुभूयते, अतो नासिद्धिरित्यर्थः । तत्प्रेम्णः परमत्वप्रतिपादनपरमिदं पद्यम् "तत् प्रेमात्मार्थमन्यत्र नैवमन्यार्थमात्मनि । अतस्तत्परमं तेन परमानन्दताऽऽत्मनः।" [ ] तद्वयाख्यानं यथा- ननु मा भूत् स्वरूपासिद्धिः प्रेम्णः, परत्वे भानाद् विशेषणासिद्धितोरित्याशयाह- तत्प्रेमेति, अन्यत्र- स्वातिरिक्त पुत्रादौ, यत् प्रेम तद् आत्मार्थम् , तेषामात्मशेषत्वनिमित्तकमेव न स्वाभाविकम् , एवमात्मनि विद्यमानं प्रेमान्यार्थं न, आत्मनोऽन्यशेषत्वनिमित्तकं न भवति, किन्त्वात्मत्वनिमित्तकमेव, अतो निरुपाधिकत्वात् तत् परमं निरतिशयम् । फलितमाह- तेनेति- तेन निरतिशयप्रेमास्पदत्वेनात्मनः परमानन्दता निरतिशयसुखस्वरूपत्वं सिद्धम् ॥ पति-जायादीनां सर्वेषामात्मभोगार्थत्वादात्मन एव परमप्रेमास्पदत्वमित्यत्रेदमपि तृप्तिदीपप्रकरणगतं पद्यं साक्षिभावमाश्रयतिपति-जायादिकं सर्व तत्तद्भोगाय नेच्छति । किन्त्वात्मभोगार्थमिति श्रुतावुद्घोषितं बहु ॥ १॥" एतद्व्याख्यानं यथा- नन्वात्मनो भोक्तत्वप्रतिषेधस्तत्प्रसक्तिपूर्वको वक्तव्यः, सा तु न विद्यत असङ्गत्वादात्मन इत्याशक्य तस्याः स्वानुभवसिद्धत्वान्मवमित्यभिप्रेत्य तदनुवादिकां श्रुतिमर्थतोऽनुक्रामति- पतिजायेति- " नवा पत्युः कामाय पतिः प्रियो भवति" इत्यारभ्य “आत्मनस्तु कामाय सर्व प्रियं भवति" इत्यन्तन [ ] वाक्यसन्दर्भेण पति-जायादिकस्य प्रपञ्चस्यात्मनो भोगायतनत्वं प्रतिपाद्यते, तत आत्मनो भोक्तत्वप्रसक्तिरित्यर्थः ॥ तेनेति- चैतन्येऽहकारादेः, अङ्कारादौ चैतन्यस्य चाध्यासेनेत्यर्थः। अन्योऽन्याध्यासात् परस्पराध्यासात् । चिदचिद्रन्थिरूपोऽयमध्यासः अयमनन्तराभिहितोऽन्योऽन्याध्यासः, आत्मा चित् , अहङ्कारादिकमचित् , तयोप्रन्थिरूपोऽतिकठिनबन्धरूपः, चैतन्येऽहङ्कारादेरध्यासो भ्रमोऽहङ्कारादौ चैतन्याध्यासोऽपि भ्रमः, सोऽयं भ्रमद्वयात्मकः समूहालम्बनभ्रमवदवश्यमेषितव्य इत्याह- समूहालम्बनेति। अयमेव संसार चिदचिदन्थिरूपो योऽयमध्यासोऽनन्तरमुपदर्शितः स एव संसारः, तत्र कस्य कुत उत्पत्तिर्यतोऽयं विस्तृतस्वरूपश्चकास्तीत्यपेक्षायामुत्पत्तिक्रममुपदर्शयति-मायाशबलादिति- मायासमन्वितादित्यर्थः । “चिदात्मना" इत्यस्य स्थाने “चिदात्मनो" इति पाठः समुचितः । आकाशादिक्रमेणेति- मायासंवलिताच्चिदात्मन आकाशः सम्भूतः, आकाशाद् वायुस्सम्भूतः, वायोस्तेजस्सञ्जातम् , तेजसो जलमुत्पन्नम् , जलात् पृथिवी समुत्पन्नेत्येवं क्रमेणेत्यर्थः । लिङ्गशरीरात्मकापञ्चीकृतभूतोत्पत्ताविति- एतत्तत्त्वावबोधनाय पञ्चदशीगततत्त्वविवेकप्रकरणस्थानि कानिचित् पद्यानि सव्याख्यानान्युपदर्यन्ते " तमःप्रधानप्रकृतेस्तद्भोगायेश्वराज्ञया । वियत् पवन-तेजो-ऽम्बु-भुवो भूतानि जज्ञिरे ॥" क्रमप्राप्त सूक्ष्मशरीरं तदुपाधिकं जीवं व्युत्पादयितुं तत्कारणाकाशादिसृष्टिमाह- तमःप्रधानेति- तेषां प्राज्ञानां भोगायसुख-दुःखसाक्षात्कारसिद्धये, तमःप्रधानप्रकृतेः- तमोगुणप्रधानायाः प्रकृतेः पूर्वोक्काया उपादानकारणभूतायाः सकाशादीश्वराज्ञया-ईशनादिशक्तियुक्तस्य जगदधिष्ठातुराज्ञया ईक्षापूर्वकसर्जनेच्छारूपया निमित्तकारणभूतया वियदादिपृथिव्यन्तानि पञ्च भूतानि जज्ञिरे- प्रादुर्भूतानि, उत्पन्नानीत्यर्थः । “सत्त्वांशः पञ्चभिस्तेषां क्रमादीन्द्रियपञ्चकम् । श्रोत्र-त्वगक्षि-रसन-घ्राणाख्यमुपजायते ॥" भूतसृष्टिमभिधाय भौक्तिकसृष्टिमभिदधान आदौ ज्ञानेन्द्रियसृष्टिमाह- सत्त्वांशैरिति- तेषां वियदादीनां पञ्चभिः सत्त्वांशःसत्त्वगुणभागैरुपादानभूतैः, श्रोत्र त्वगक्षि-रसन-प्राणाख्यधीन्द्रियाणि ज्ञानेन्द्रियाणि तेषां पञ्चकं क्रमादुपजायते, एकैकभूतसत्त्वांशादेकैकमिन्द्रियं जायत इत्यर्थः ।
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy