________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
३१९
भूतोत्पत्तौ केषाश्चिन्मते तेभ्य एव पञ्चीकृतभूतोत्पत्तौ संप्रदायमते च तेषामेव संयोगविशेषावस्थानां तत्त्वस्वीकारे तेभ्यो ब्रह्माण्डभूवरादिचतुर्दशभुवनचतुर्विधस्थूलशरीरोत्पत्तेः, अत एव सिद्धाभिधानात्.
___ " तैरन्तःकरणं सर्वैर्वृत्तिभेदेन तद् द्विधा । मनो विमर्शरूपं स्याद् बुद्धिः स्यान्निश्चयात्मिका ॥"
सत्त्वांशानां प्रत्येकमसाधारणकार्याण्यभिधाय सर्वेषां साधारणं कार्यमाह- तैरिति-तैः सह- सत्त्वांशः सर्वैः सम्भूय वर्तमानरन्तःकरणबुद्धयुपादानभूतं द्रव्यमुपजायत इत्यनुषङ्गः, तस्यावान्तरभेदं सनिमित्तमाह- वृत्तीति- तदन्तःकरणं वृत्तिभेदेन-परिणामभेदेन, द्विधा - द्विप्रकारं भवति, वृत्तिभेदमेव दर्शयति- मन इति-विमर्शरूपं-विमर्शः संशयात्मिका वृत्तिः सा स्वरूपं यस्य तत् तथा, तन्मनः स्यात् , निश्चयात्मिका - निश्चयोऽध्यवसायः स आत्मा स्वरूपं यस्याः सा निश्चयात्मिका वृत्तिबुद्धिः स्यात् ॥
" रजों शैः पञ्चभिस्तेषां क्रमात् कर्मेन्द्रियाणि तु । वाक्-पाणि-पाद-पायूपस्थाभिधानानि जज्ञिरे ॥" क्रमप्राप्तानां रजोंऽशानां प्रत्येकमसाधारणकार्याण्याह- रजोशैरिति - तेषां-वियदादीनामेव, पञ्चभी रजोशः- रजोभागस्तूपादानभूतः, वाक्-पाणि पाद पायूपस्थाभिधानानि- एतन्नामकानि, कर्मेन्द्रियाणि- क्रियाजनकानि इन्द्रियाणि जज्ञिरे ॥
" तैः सर्वैः सहितैः प्राणो वृत्तिभेदात् स पञ्चधा । प्राणोऽपानः समानश्चोदान-व्यानौ च ते पुनः ॥" रजोशानामेवं साधारणं कार्यमाह- तैः सर्वैरिति - सहितैः-सम्भूय कारणतां गतः, प्राणो जायत इति शेषः, तस्यावान्तरभेदमाह-वृत्तिभदादिति- स प्राणो वृत्तिभेदात् प्रागादिव्यापारभेदात् पञ्चधा-पञ्चप्रकारको भवति, वृत्तिभेदानेव दर्शयतिप्राण इति, ते पुनः- ते तु भेदाः प्राणादिशब्दवाच्या इत्यर्थः ॥
“बुद्धि-कर्मेन्द्रिय-प्राणपञ्चकर्मनसा धिया । शरीरं सप्तदशभिः सूक्ष्म तल्लिङ्गमुच्यते ॥" यदर्थमाकाशादिप्राणान्तानां सृष्टिरुक्ता तदिदानी दर्शयति-बुद्धीति- बुद्धयो ज्ञानानि कर्माणि व्यापारास्तजनकानीन्द्रियाणि, बुद्धीन्द्रियाणि कर्मेन्द्रियाणि चेत्यर्थः, बुद्धिकर्मेन्द्रियाणि च प्राणश्च बुद्धिकर्मेन्द्रियप्राणास्तेषां पञ्चकानि तैः, मनसाविमर्शात्मकेन, धिया-निश्चयरूपया बुद्धया च सह, सप्तदशभिः-सप्तदशसंख्यकैः, सूक्ष्मशरीरं भवति, तस्यैव संज्ञान्तरमाहतल्लिङ्गमिति, उच्यते- वेदान्तेष्वित्यर्थः ॥
एवं च पञ्चज्ञानेन्द्रिय पञ्चकर्मेन्द्रिय पञ्चप्राण-मनो-बुद्धयेतत्सप्तदशसमष्टयात्मकलिङ्गशरीरात्मकापञ्चीकृतभूतोत्पत्तावित्यर्थः । केषाश्चिन्मते केषाञ्चिद् वेदान्तिप्रकाण्डानामाचार्याणां मते, एभ्य एव आकाशादिपञ्चपूक्ष्मभूतेभ्य एव, पञ्चीकृतभूतो. त्पत्ताविति - एतत्तत्त्वप्रतिपादकं तत्त्वविवेकप्रकरणस्थं पद्यद्वयं क्रमेण वृत्तिसनाथमुपदर्यते
" तद्भोगाय पुनर्नोग्यभोगायतनजन्मने । पञ्चीकरोति भगवान् प्रत्येक वियदादिकम् ॥ १॥" एवं लिङ्गशरीरं तदुपाधिको तैजस-हिरण्यगर्भी च दर्शयित्वा स्थूलशरीराद्युत्पत्तिसिद्धये पञ्चीकरणं निरूपयितुमाहतद्भोगायेति- भगवान् - ऐश्वर्यादिगुणषट्कसम्पन्नः परमेश्वरः, पुनः-पुनरपि, तद्भोगाय-तेषां जीवानां भोगायैव, भोग्यभोगायतनजन्मने - भोग्यस्यान्न पानादेः, भोगायतनस्य जरायुजादिचतुर्विधशरीरजातस्य च जन्मने उत्पत्तये वियदादिकमाकाशादिभूतपञ्चकं प्रत्येकमेकैकं पञ्चीकरोति अपञ्चात्मकं पञ्चात्मकं संपद्यमानं करोति ॥
द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः । स्वस्वेतरद्वितीयांशैर्योजनात् पञ्च पञ्च ते ॥" कथमेकैकस्य पञ्चपञ्चाकत्वमित्यत आह-द्विधेति-वियदादिकमेकै द्विधा द्विधा, तन्त्रेणोच्चारितो द्विधाशब्दः, विधायकृत्वा, भागद्वयोपेतं कृत्वेत्यर्थः पुनश्च-पुनरपि. प्रथमं -प्रथमभागम् , चतुर्धा-भागचतुष्टयोपेतं विधायेत्यनुषज्यते. स्वस्वेतरद्वितीयांशैः- स्वस्मात् स्वस्मादितरेषां चतुर्णा चतुर्णा भूतानां यो यो द्वितीयः स्थूलो भागस्तेन तेन सह प्रथमप्रथमभागांशानां चतुर्णा चतुर्णा मध्ये एकैकस्य योजनात् ते वियदादयः प्रत्येकं पञ्च पञ्चात्मका भवन्तीति ॥ ____ इत्थं पञ्चीकृतभूतोत्पत्तावित्यर्थः । संप्रदायमते च प्राचीनवेदान्तिमते पुनः । तेषामेव अपञ्चीकृतानामाकाशादिपञ्च. भूतानामेव । संयोगविशेषावस्थानां संयोगविशेषान्वितानाम् । तत्त्वस्वीकारे पञ्चमहाभूतत्वस्वीकारे । तेभ्यः पञ्चमहाभूतेभ्यः । ब्रह्माण्डेति- एतत्प्रतिपादकं तत्त्वविवेकगतपद्यं सविवरणं यथा
" तैरण्डस्तत्र भुवनं भोग्यभोगाश्रयोद्भवः । हिरण्यगर्भः स्थूलेऽस्मिन् देहे वैश्वानरो भवेत् ॥"