________________
३२०
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नबोपदेशः ।
(धानम् ), अथ कथमेतस्य निवृत्तिरिति चेत् ? शृणु- कश्चित् खलु पुरुषधुरन्धरो नित्याध्ययनविधिनाऽधीतवेदान्तः साङ्गाध्ययनबलाद् वेदान्तवाक्यानामापाततोऽर्थमधिगच्छति, काम्यत्वे सति कथम. ध्ययनविधेनित्यत्वमिति चेत ? काम्यत्वेऽपि धर्मा( अर्थावबोधफलकत्वेन फलतो नित्यत्वस्याबाधात. एतच्च मीमांसकमतेनोच्यते, स्वमते त्ववाप्तिफलकत्वेन फलतो नित्यत्वमध्ययनस्य, अहरहःकर्तव्यब्रह्मयज्ञाद्यर्थतयाऽवाप्तेरावश्यकत्वात् । अध्ययनविधेहि फलाकाङ्क्षायां निरतिशयसुखात्मकोऽपि स्वर्गो यथा न फलम् , अदृष्टत्वात , एवं दृष्टोऽप्यर्थावबोधो न फलम् , अनन्तरादृष्टत्वादश्रुतत्वाञ्च, अवाप्तिस्त्वनन्तर. दृष्टा श्रुता च फलत्वेन संबध्येत्, यथाहि- फलाकाङ्क्षायां दृष्टे सति नादृष्टं कल्प्यम् , एवमनन्तरदृष्टे सति न व्यवहितदृष्टं कल्प्यम् , श्रुते च सति नाश्रुतं कल्प्यम् , अर्थावबोधवादिनाप्यवाप्रङ्गीकारात्,
एवं पञ्चीकरणमभिधाय तैर्भूतैरुत्पाद्यं कार्यवर्ग दर्शयति- तेरण्ड इति - तैः पञ्चीकृतैर्भूतैरुपादानकारणभूतैः, अण्डोब्रह्माण्ड उत्पद्यते, तत्र ब्रह्माण्डान्तर्भुवनान्युपरिभागे वर्तमाना भूम्यादयः सप्त लोकाः, भूमेरधः स्थितान्यतलादीनि सप्त पातालान्तानि, तेषु च भुवनेषु तेस्तैः प्राणिभिर्मोक्तुं योग्यान्यन्नादीनि तत्तल्लोकोचितशरीराणि च तैरेव पञ्चीकृतभूतैरीश्वराज्ञया जायन्ते, एवं स्थूलशरीरमभिधाय तेषु स्थूलशरीरेषु अभिमानवतो हिरण्यगर्भस्य समष्टिरूपस्य वैश्वानरसंज्ञकत्वम् , एकैकस्थूलशरीराभिमानवतां व्यष्टिरूपाणां तैजसानां विश्वसंज्ञकत्वं च भवतीत्याह-हिरण्यगर्भ इति- अस्मिन् स्थूल शरीरे वर्तमानो हिरण्यगर्भो वैश्वानरो भवेदिति ॥
अत एव अन्योऽन्याध्यासाच्चिदचिदन्थिरूपस्याध्यासस्य संसारस्वरूपत्वादेव । सिद्धाभिधानमित्यत्र ब्रह्माण्डेत्यादिषष्ट्यन्तस्यान्वयः, अत एवेत्यस्य च हेतुतयाऽन्वयः, सिद्धाभिधानमित्यस्य सिद्धवदभिधानमित्यर्थः, यत एव संसारो निरुकाध्यासस्वरूपस्तत एव तदन्तर्वर्तिनां ब्रह्माण्डादीनामुत्पतेरभिधानं सिद्धवदेव, न तत्र कोशाद्यभिहिते कथमित्थमित्याद्याकाजोत्थानम् , अन्योऽन्याध्यासात्मके संसारे सुव्यवस्थिते तदन्तर्गतस्याशेषस्याप्यन्योऽन्याध्यासरूपस्य सुव्यवस्थितत्वमेवेत्याशयः, इत्यमपञ्चीकृतपञ्चीकृतभूतादिमयचिदचिदन्थिस्वरूपान्योऽन्याध्यासलक्षणसंसारस्य क्रमिकोत्पत्तिमभिधाय निवृत्तिमभिधातुकामस्तत्र परपृच्छामुपन्यस्यति- अथेति - अस्य संसारोत्पत्तिनिरूपणानन्तरमित्यर्थः । एतस्य अनन्तराभिहितस्वरूपस्य संसारस्य । कथमित्याक्षेपे, प्रवाहतोऽनादिभूतस्य संसारस्य सहसैव निवृत्तिने सम्भावनापथमुपयातीति प्रष्टुरभिसन्धिः। उत्तरयति- शुण्विति । मुक्तिकारणब्रह्मतत्त्वसाक्षात्कारेच्छया मुमुक्षुरध्ययनमनुतिष्ठतीत्यध्ययनविधेः काम्यत्वे सति कथं नित्यत्वं नित्यत्व-काम्यत्वयोर्विरोधादिति नित्याध्ययनविधिनत्युक्तिर्न सङ्गतिमङ्गतीति शङ्कते-काम्यत्वे सतीति । " स्वाध्यायोऽध्येतव्यः" [ ] इत्यध्ययनविधिरध्ययनस्यैव कर्तव्यत्वमनुशास्तीति शब्दात्मकवेदस्वरूपाभ्यसनलक्षणाध्ययनेच्छया स्वाध्यायाध्ययनकरणे तस्य काम्यत्वेऽपि ततोऽर्थावबोधोऽवश्यम्भावीति तदात्मकफलापेक्षया स्वाध्यायाध्ययनविधेर्नित्यस्यापि सम्भवादपेक्षाभेदेन काम्यत्व नित्यत्वयोर्विरोधाभावादित्याशयेनोत्तरयति-काम्यत्वेऽपीति । अर्थावबोधफलकत्वेन फलतो नित्यत्वमध्ययनविधेः पूर्वमीमांसामतेनोक्तमित्याह- एतच्चेति। मीमांसकमतेन पूर्वमीमांसाभ्युपगन्तृमतेन । स्वमते उत्तरमीमांसाभ्युपगन्तृवेदान्तिमते, तु पुनः, अवाप्तिफलकत्वेनेति- अवाप्तिस्वरूपमप्रे व्यक्तीभविष्यति । अध्ययनविधेरवाप्तिफलकत्वं तदा स्याद् यद्यध्यनादवाप्तिः स्यात् , तस्यास्त्वनर्थिकाया अनावश्यकत्वमेवेत्यत आह- अहरहाकर्तव्येति- अहरहः कर्तव्यं यद् ब्रह्मयज्ञादि तदर्थतया तत्प्रयोजनकत्वेन अवाप्तेर्वक्ष्यमाणस्वरूपायाः आवश्यकत्वात्- अवश्यमभ्युपगन्तव्यत्वादित्यर्थः । अवाप्तेरध्ययनविधिफलत्वं व्यवस्थापयति- अध्ययनविधेीति । फलाकालायां किमर्थमध्ययनं कर्तव्यमित्याकाङ्खायाम् । स्वर्गस्याध्ययनफलत्वाभावे हेतुमाह- अदृष्टत्वादिति । अर्थावबोधस्याध्ययनविधिफलत्वाभावे हेतुद्वयमुपदर्शयति- अनन्तराष्टत्वादश्रुतत्वाञ्चेति । अनन्तरदृष्टत्वाच्छ्रुतत्वाचावाप्तेरध्ययनविधिफलत्वं निगमयति- अवाप्तिस्त्विति । निरतिशयसुखात्मकत्वेन फलान्तरतो वैशिष्ट्यमनुभवतोऽपि स्वर्गस्य कथमदृष्टवान्न फलत्वं, कथं वा दृष्टस्याप्यर्थावबोधस्यानन्तरादृष्टत्वादश्रुतत्वाच्च न फलत्वमित्याकाङ्क्षानिवृत्तये त्वाह- यथा हीति । मीमांसकेनाप्यवाप्तिः स्वीकरणीयेत्याह-अर्थावबोधवादिनाऽपीति- अध्ययनविधेरर्थावबोधः फलमित्यभ्युपगन्त्रा मीमांसके