SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । न्यायः, संयोगो विधिस्तत्पृथक्त्वमे कस्यो भयरूपत्वे हेतुरिति तदर्थः, त[द्व]दिह तत्तत्फलार्थान्यपि कर्माणि तमेतमित्यादिवचनाद् विविदिषार्थानि वेदनार्थानि वा दृष्टव्यानीति । कथं पुनरत्र प्रकरणान्तरन्यायेन न कर्मान्तरत्वम्, प्रकरणान्तरे 'प्रयोजनान्यत्वम्' इत्यत्र ह्येतत् सिद्धम्, यत्र प्रकरणान्तरमनुपादेयगुणश्च तत्र कर्मान्तरत्वम्, ‘सायं प्रातर्जुहोति [ ] इत्यादौ ' यदाहवनीये जुहोति ' [ कठश्रु - ४ ] इत्यादौ [च] कर्मान्तरविधिवारणाय विशेषणद्वयम् तदिह 'मासमग्निहोत्रं जुहोति ' ] इत्यत्रेवोभयसत्त्वात् कर्मान्तरत्वं दुर्वारमिति चेत् ?, उच्यते- न तावदत्र यज्ञादिसंबन्धो विधिः ' जुहोति ' इतिबच्छूयते येनापूर्वं यज्ञादिर्विधीयते, कल्पनायां तु लाघवम् । 'जीवातुः' [ ३२५ , कर्मादेरेकस्य । उभयरूपत्वे विभिन्नफलजनकतयोभयस्वरूपत्वे । हेतुः एकमपि कर्म यद् विभिन्नफलजनकत्वेनोभयरूपं तद्विभिन्नफलविधायकविधिद्वैविध्यादेव । इति एवंस्वरूपः । तदर्थः संयोग-पृथक्त्वमिति न्यायस्यार्थः । उपसंहरति-तदिति - तस्मात् एकस्य कर्मणो विधि पृथक्त्वतो विभिन्नफलजनकत्वेनोभयरूपत्वात् । इद्द प्रकृते । तत्तत्फलार्थान्यपि प्रतिनियतस्वस्वफलार्थान्यपि । कर्माणि यज्ञादीनि कर्माणि । तमेतमित्यादिवचनात् तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन तपसा कर्मणा नाशकेनेत्यादिवचनात् । ननु दर्श- पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यादीनि प्रतिनियत फल सम्बन्धबोधकप्रकरणगतानि, तमेतमित्यादिवचनानि तु ब्रह्ममात्रतत्त्वावबोधक प्रकरणगतानि, तथा च विभिन्नप्रकरणपठितत्वेन दर्श- पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यादिविधिविहितदर्शादिकर्मभ्यो भिन्नान्येव तमेतमित्यादिविधिविहितकर्माणि विविदिषाद्यर्था नीति नैकस्योभयरूपत्वं संयोग-पृथक्तत्वन्यायेनेति शङ्कते - कथं पुनरिति अस्य न कर्मान्तरत्वमित्यनेनान्वयः तथा च प्रकृते कर्मान्तरत्वं स्यादेवेत्यर्थः । प्रकरणान्तरन्यायेन कर्मान्तरत्वं कुत्र व्यवस्थापितमित्यपेक्षायामाह - प्रकरणान्तर इतिप्रकरणान्तरे 'प्रयोजनान्यत्वम्' इत्यस्य प्रकरणान्तरे प्रयोजनान्यत्वम्, इत्येवं चिह्नित उल्लेखः कर्तव्यः । इत्यत्र एवं स्वरूपमीमांसाधिकरणे । एतत् कर्मान्तरत्वम्, सिद्धं व्यवस्थापितम् । निरुक्ताधिकरणविचारमेव वेदयति-यत्रेति । प्रकरणान्तरमिति अनुपादेयगुणश्चेति विशेषणद्वयव्यावृत्तिमुपदर्शयति - सायमिति - " सायं प्रातर्जुहोति " इत्यस्य स्थाने " सायं जुहोति प्रातर्जुहोति " इति पाठो युक्तः । एकस्मिन्नेव प्रकरणे सायं जुहोतीति प्रातर्जुहोतीति च पठितमस्ति, तत्र सन्ध्याकालीनहवनतः प्रातः कालीनहवने न कश्चिद् गुणोऽधिकोऽस्ति येन यदेव प्रातःकाले क्रियते हवनं तत्रैव गुणान्तर विधायकं विध्यन्तरं स्यादतोऽनुपादेयगुणत्वात् प्रातः कालीनहवनतोऽन्यदेव सायंकालीनं हवनमित्येवं कर्मान्तरत्वं मा प्रसाक्षीदित्येतदर्थं प्रकरणान्तरमिति - " सायं प्रातर्जुहोति " इत्यस्य स्थाने " सायं जुहोति प्रातर्जुहोति " इति - पाठो युक्तः, एवं च प्रकरणान्तराभावादेकमेव हवनकालविकल्पस्तत्रेत्याशयः । सायं जुहोतीत्यादि यत्प्रकरणे पठितं तदन्यप्रकरण एव यदाहवनीये जुहोतीति पठितम् तथा च प्रकरणान्तरत्वात् सायंकालीन हवनत आहवनीयाग्न्यधिकरणकहवनस्य कर्मान्तरत्वं प्रसक्तमिति तद्वारणाय अनुपादेयगुणश्चेति द्वितीयं विशेषणम् एवं चाहवनीयाग्न्यधिकरणकत्वलक्षणो गुणोऽत्रोपादेय इत्यनुपादेयगुणत्वाभावान्न कर्मान्तरत्वम्, किन्तु यदेव हवनं सन्ध्याकालादौ क्रियते तत्रैवाहवनीयाधिकरणकत्वलक्षणो गुणो विधीयत इति । प्रष्टा स्वाभिप्रेतमुपसंहरति- तदिति तत् तस्मात् प्रकरणान्तरपठितत्वादनुपादेयगुणत्वाच्च । इह प्रकृते, अस्य उभयसश्वादित्यनेनान्वयः । मासमग्निहोत्रं जुहोतीत्यत्रैवेति- सायं जुहोतीत्यादि यत्प्रकरणे पठितं तदन्यप्रकरणे मासमग्निहोत्रं जुहोतीति प्रकरणान्तरमस्ति, गुणान्तरं च न किञ्चिदुपादेयमित्यनुपादेय गुणश्चास्तीत्येवमुभयसत्त्वाद् यथा तस्य कर्मान्तरत्वं तथा दर्श- पूर्णमासप्रकर णभिन्न प्रकरणगतत्वादनुपादेयगुणत्वाच्च तमेतमित्यादिवचनविहितस्य यज्ञादिकर्मणः कर्मान्तरत्वं वारयितुमशक्यमित्यर्थः । समाधत्ते - उच्यत इति । नञः श्रूयत इत्यनेनान्वयः । " यज्ञादिसंबन्धो " इत्यस्य स्थाने " यज्ञादिसम्बद्धो ' इति पाठो युक्तः । जुहोतीतिवदितिजुहोतीत्यत्र हुधात्वर्थहवनक्रियासंबद्ध आख्यातार्थविधिर्यथा वचनेन प्रतिपाद्यते न तथा तमेतमित्यत्र यज्ञादिसंबद्धो विधिवचनेन प्रतिपाद्यत इत्यर्थः । तर्हि वचनान्तरप्राप्तयज्ञादेर्विविदिषा दिसंयोगमात्रविधिकल्पना कुतः समागतेत्यत आहकल्पनायां त्विति - " कल्पनायां तु लाघवम् । 'जीवातु:' इत्यस्य स्थाने " कल्पनायां तु लाघवं जीवातुः " >>
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy