________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नबोपदेशः ।
५- ११ ] इत्यादिशास्त्राश्च । यद्वा " तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन " [ बृहदारण्यकोपनिषद्, ४.४.२२. ] इत्यादिश्रुत्या तत्तत्फलसंयुक्तानामपि कर्मणां संयोग- पृथक्त्वन्यायेन विविदिषासंयोगस्य ज्ञानसंयोगस्य वा विधानात्, तत्रान्तःकरणशुद्धिद्वारम् एकस्य तूभयत्वे संयोग-पृथक्त्वमिति
३२४
न तु स्वर्गादिकम्, येऽपि नित्यकर्मणां स्वर्गादिफलमुपयन्ति तेऽपि नित्यकर्मभ्यः पापक्षयस्ततः स्वर्गादिरिति रीत्या यतस्तत्र प्रमाणयन्तीदं वचनम् - " सन्ध्यामुपासते ये तु सततं शंसितव्रताः ॥ विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम् ॥ १॥ [ ] इति, एवं च पापस्य कस्यचित् स्वर्गादिप्रतिबन्धकत्वमपि संभवतीति तत्क्षयस्य प्रतिबन्धकाभावविधया स्वर्गादिकं प्रति कारणत्वस्य क्लृप्तत्वेन तेनान्यथासिद्धत्वान्न स्वर्गादिकं प्रति नित्यकर्मणां कारणत्वम्, न च पापक्षयस्य स्वर्गादिफलजनने नित्यकर्मणां व्यापारतया व्यापारेण तेन व्यापारिणां नित्यकर्मणां नान्यथासिद्धिरिति वाच्यम्, यत्र व्यापारिणः प्रमाणान्तरावगतं कारणत्वान्यथानुपपत्त्या व्यापारस्य कल्पनं तत्रैव व्यापारेण व्यापारिणो नान्यथासिद्धिः, यत्र तु व्यापारिणः कारणत्वमन्तराऽपि व्यापारस्य कारणत्वं क्लृप्तं तत्र व्यापारेण व्यापारिणोऽन्यथासिद्धत्वं भवत्येव यथा काशी मरणान्मुक्तिः [ ] इत्यत्र " तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय " [ वा. सं. ३१. १८. ] इत्यादिश्रुत्या क्लृप्तकारणताकेन तत्त्वज्ञानेन व्यापारभूतेनापि काशीमरणस्यान्यथासिद्धत्वमिति पञ्चम्याः प्रयोजकत्वमेवार्थ इत्यन्यत्र चिन्तितम् । नन्वेवमपि प्रत्यवायप्रागभावस्य पापक्षयवद् नियतोपस्थितिकत्वात् प्रतिबन्धका भावविधया तस्यापि स्वर्गादिकं प्रति कारणत्वस्य क्लृप्तत्वादेकेनापरस्यान्यथासिद्धत्वस्य वक्तुमशक्यत्वात् प्रत्यवाय प्रागभावोऽस्तु नित्यकर्मणां फलमित्यतस्तस्य फलत्वाभावे हेतूपदर्शनायोक्तम् प्रत्यवायप्रागभावस्य चाऽसाध्यत्वादिति - असाध्यत्वादित्यस्यानुत्पाद्यत्वादित्यर्थः, आद्यक्षणसम्बन्धश्चोत्पत्तिः, साऽनादिकाली ने प्रस्यवायप्रागभावे नास्ति, नित्ये कर्मणि कृते प्रत्यवायप्रागभावस्तिष्ठति, अकृते च तस्मिन् न तिष्ठतीत्येवं क्षैमिकजन्यत्वं यद्यपि असाध्येऽपि प्रत्यवायप्रागभावे सम्भवति तथापि यौगिकजन्ये पापक्षये नित्यकर्मफलत्वे सम्भवति क्षैमिकजन्यत्वमुपादाय प्रत्यवायप्रागभावस्य तत्फलत्वकल्पनमन्याय्यमेवेत्याशयः । धर्मेण अनुष्ठितनित्यादिकर्मणा । पापमपनुदति पापं विनाशयति नित्यादिकर्मानुष्ठाता पुरुषः । पापक्षयरूपात्मशुद्धिकारणत्वे कर्मणः शास्त्रं प्रमाणयति - योगिन इति-योगिन इत्युक्तया योगिनां मुक्यर्थिनां स्वर्गादिफलाकाङ्क्षाऽभावात् तत्कृतकर्मणां पापक्षयलक्षणात्मशुद्ध्यर्थत्वमेवेत्यावेदितम् । तेषां स्वर्गादिफलाकाङ्क्षाऽभावावगतये उक्तम्-सङ्गं त्यक्तवेति- स्त्री-पुत्र- धनादिविषयसम्बन्धं त्यक्त्वेति तदर्थः, यदि स्वर्गादिफलाकाङ्क्षणं तेषां स्यात् तदा रागादिलक्षणसम्बन्धस्यावश्यंभावात् तस्याग एव नोपपद्येतेति न स्वर्गादिफलाकाङ्क्षा तेषामित्यभिसन्धिः । प्रकारान्तरेणानुष्ठितकर्मणां पापक्षयसाधनत्वं व्यवस्थापयति-यद्वेति । तमेतमिति - एतम् - अनन्तरपूर्व श्रुति दर्शितस्वरूपम्, तमात्मानम्, वेदानुवचनेन निरन्तराभ्यस्तवेदवाक्येन ब्राह्मणाः ब्रह्मज्ञानपरायणाः, विविदिषन्ति वेत्तुमिच्छन्ति, विविदिषानन्तरं जानन्त्यपि, यज्ञेन यज्ञादिकर्मणा, अत्रापि तमेतं विविदिषन्तीत्यस्यान्वयः । श्रुत्येत्यस्य विधानादित्यनेनान्वयः । तत्तत्फलसंयुक्तानामपि प्रतिनियतस्वर्गादिफलेन सह जनकतया सम्बद्धानामपि । कर्मणां यज्ञादिकर्मणाम् । संयोगपृथक्त्वन्यायेनेति यत्र संयोग - पृथक्त्वन्यायः प्रवर्तते यच्चास्य स्वरूपं तदुभयमत्रैवानन्तरं स्पष्टीकृतम् । विविदिषासंयोगस्य विविदिषया समं जनकतालक्षणसम्बन्धस्य । ज्ञानसंयोगस्य ज्ञानेन समं जनकतालक्षणसम्बन्धस्य । कर्मभिरनुष्ठितैर्विविदिषा ज्ञानं वा कथं स्यादित्यपेक्षायामाद-तत्रेति कर्मभिर्विविदिषाजनने ज्ञानजनने वेत्यर्थः "6 1 अन्तःकरणशुद्धिद्वारम् ” इत्यस्य स्थाने " अन्तःकरणशुद्धिर्द्वारम् " इति पाठो युक्तः, वेदान्तिमते आत्मनो निर्लिप्तत्वादन्तःकरणोपाधिक एव पुण्य-पापसम्बन्धो न तु स्वत इति पापसम्बन्धलक्षणाऽशुद्धिरन्तःकरणस्य तत्तादात्म्याभ्यासादात्माऽप्यशुद्ध इत्युपचर्यते, अनुष्ठितकर्मभिः पापविगमे पापापगमनलक्षणा शुद्धिरन्तःकरणस्यैव तत्तादात्म्याच्या सादात्मनोऽपि शुद्धिरिति तथा चान्तःकरणशुद्धिर्विविदिषाजनने ज्ञानजनने वा द्वारं व्यापारो भवति, पापविगमद्वारा कर्माणि विविदिषां ज्ञानं वा जनयन्तीत्यर्थः एवं च अनुष्ठितकर्मभिर्विशुद्धान्तःकरण इति यदुक्तं तद् युक्तमेवेत्याशयः । कुत्र संयोग- पृथक्त्वन्यायः प्रवर्तत इत्यपेक्षायामाद- एकस्येति - एकस्य कर्मणः पृथग्विधिभ्यामुभयत्वे फलद्वयसम्बन्धविधानत उभयरूपत्वे संयोग- पृथक्त्वमिति न्याय: प्रवर्तत इत्यर्थः । संयोगपृथक्त्वं किमित्यपेक्षायामाह-संयोग इति । तत्पृथक्त्वं विधिभिन्नत्वम् । एकस्य