________________
२९८
नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः।
वाच्यतासम्बन्धेन दशरथपदत्वेन वा शाब्दबोधः स्वीकर्तव्यः, तथा तुल्यन्यायात् सर्वत्रापीति शब्दानु. भवोऽप्यर्थस्य शब्दात्मकत्व एव साक्षीति । न चानवगतचित्तोऽपि रूपं चक्षुषा वीक्षमाणोऽभिलापासंसृष्टमेव विषयीकरोतीति नीलादेरशब्दात्मकत्वसिद्धिः. शब्दासंसृष्टार्थानुभवस्य ज्ञानवादिना ज्ञानाभावकाल इव शब्दवादिना शब्दाभावकाले बाह्यार्थस्यैवानुभ्युपगमेन शब्दातिरिक्तबाह्यासिद्धेः, बाह्यत्वनियतदेशवृत्तित्वादि च घटादावविद्यावशादेव भासत इति न तत्तदाकारैः शब्दब्रह्मभेदसिद्धिः, तदुक्तम्" यथा विशुद्धाकाशं तिमिरोपप्लुतो जनः । संकीर्णमिव मात्राभिश्चित्राभिरभिमन्यते ॥ १ ॥ तथैदममलं ब्रह्म निर्विकल्पमविद्यया । कलुषत्वमिवापन्नं भेदरूपं विवर्तते ॥ २॥"
इति । यदि वा प्रामा-ऽऽरामादिप्रपञ्चो व्यवहारसत्यः स्वीक्रियते, ताहग्वैलक्षण्यानुभावात् , तदाऽविद्या
प्रतियोगिकशक्तिलक्षणान्यतरसम्बन्धनिष्टप्रकारतानिरूपकज्ञानाद् दशरथपदाद् दशरथपदवाच्यत्वेन रूपेण वाच्यतासम्बन्धेन दशरथपदवत्त्वेन रूपेण वा दशरथस्य बोधो यथा स्वीकर्तव्यो भवति तथा तुल्यन्यायात् सर्वत्र घट-पटादिस्थलेऽपि घटादिपदवाच्यत्ववति घटादिपदवृत्तिप्रकारकज्ञानाद् घटादिपदवाच्यत्वेन रूपेण वाच्यतासम्बन्धेन घटादिपदवत्त्वेन घटादेः शाब्दबोधो घटादिपदादभ्युपगन्तव्य इत्येवं शाब्दबोधः शन्दानुभवरूपः सन्नर्थस्य शब्दात्मकत्वे साक्षी भवत्येवेत्यर्थः, दशरथपदत्वेनेत्यस्य स्थाने दशरथपदवत्त्वेनेति पाठो युक्तः। अत्र पराशङ्कामुत्थाप्यापहस्तयति-न चेति । अनवगतचित्तोऽपीति-चक्षुषा नीलादिरूपसाक्षात्कारे ज्ञानस्य भानं ज्ञानलक्षणालौकिकप्रत्यासत्त्यैवेति ज्ञानस्य ज्ञाने सत्येव चक्षुषा नीलादिज्ञाने तद्भानं भवितुमर्हति, यश्च प्रमाताऽनवगतचित्तोऽज्ञातज्ञान:- नीलादिवीक्षणाव्यवहितपूर्वसमये ज्ञानज्ञानशून्यः सोऽपि, रूपं चक्षुषा वीक्षमाणः पश्यन् सन् । अभिलापासंसृष्टमेव नीलं विषयीकरोति अभिलापासंसृष्टनीलादिविषयकदर्शनवानेव सः, इति एतस्मात् कारणान्नीलादेरशब्दात्मकत्वसिद्धिरिति न चेत्यर्थः । अत्र हेतुमुपदर्शयति-शब्दासंसृष्टार्थानुभवस्येति- अस्य 'अनभ्युपगमेन' इत्यनेन सम्बन्धः, ज्ञानवादिना ज्ञानाभावकाले इव बाह्यार्थस्येव शब्दवादिना शब्दाभावकाले शब्दासंसृष्टार्थानुभवस्यानभ्युपगमेन शब्दातिरिक्तग्राह्यार्थासिद्धरित्यन्वयः, "बाह्यार्थस्यैवानभ्युपगमेन" इत्यस्य स्थाने "बाह्यार्थस्येवाभ्युपगमेन" इति पाठः सम्यक्, ज्ञानाद्वैतवादिना यथा ज्ञानाभावकाले बाह्यार्थो नाभ्युपगम्यते बाह्यार्थस्य ज्ञानाकारव्यतिरिक्तस्याभावेन ज्ञानाभावकाले तदभावस्य न्यायप्राप्तत्वात् तथा शब्दाद्वैतवादिना शब्दाभावकाले शब्दासंसृष्टार्थानुभवो नाभ्युपगम्यते, सर्वस्यार्थस्य शब्दात्मकतया शब्दतत्त्वव्यतिरिकस्यार्थ. स्याभावेन शब्दाभावकाले तदनुभवाभावस्यापि न्यायप्राप्तत्वात् , एवं च नीलादिशब्दासंसृष्टस्य नीलाद्यर्थस्याभावेन ज्ञानेन तद्विषयीकरणस्याप्यसम्भवेन ततो नीलादेरशब्दात्मकत्वसिद्धयसम्भवादित्यर्थः । ननु यदि ज्ञान-शब्दव्यतिरिक्तो बाह्यार्थो नास्ति तर्हि बाह्यत्वप्रतिनियतदेशवृत्तित्वादिकं धर्म्यभावात् कथं भासेतेत्याकाङ्क्षायामाह-बाह्यत्वेति । तत्तदाकारैः घटपटादिप्रतिनियतबाह्याकारैः। उक्तार्थे ब्रह्मवादिवचनसंवादमाह-तदुक्तमिति । यथेत्यादिपद्यद्वयं स्पष्टार्थम् । वा अथवा, सत्त्वं द्विविधं- व्यावहारिकसत्त्वं पारमार्थिकसत्त्वं च, तत्र पारमार्थिकसत्त्वं शब्दब्रह्मणः, तस्य त्रिकालाबाध्यत्वात् , व्यावहारिकसत्त्वं शब्दब्रह्मातिरिक्तस्याशेषस्यैव जगतः, तस्य व्यवहारकाले बाधाभावेऽप्युत्तरकाले शब्दब्रह्मसाक्षात्कारेण बाध्यमानत्वात् , प्रातीतिकसत्त्वस्याप्यतिरिक्तस्य शुक्तिरजतादौ कस्यचिदभ्युपगमस्तन्मते- ब्रह्मज्ञानातिरिकज्ञानाबाध्यत्वं व्यावहारिकसत्त्वम्, ब्रह्मज्ञानातिरिक्तज्ञानबाध्यत्वे सति प्रतीयमानत्वं प्रातीतिकसत्त्वमिति व्यावहारिक-प्रातीतिकसत्त्वयोविवेकः, तयोर्न मेद इति पक्षे तु बाध्यत्वे सति प्रतीयमानत्वमेव व्यावहारिकसत्त्वमित्याशयेनाह-ग्रामा-ऽऽरामादि. प्रपञ्च इति । कथं प्रामारामादिप्रपञ्चो व्यवहारसत्य उपेयत इत्यपेक्षायामाह- ताहर ण्यानुभवादिति- सर्वथाऽसत्यत्वे यद् प्रामारामादीनां वैलक्षण्यमनुभूयते तन्न स्यात्, निरुपाख्यस्य- सकलधर्मविनिर्मुक्तस्य किञ्चिद्धर्मविशिष्टतया प्रतीयमानत्वस्यैवासम्भवेन परस्परवैलक्षण्यानुभवस्य सम्भावयितुमप्यशक्यत्वादित्याशयः। तदा तदानीम् । अविद्या