________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। २९७ तथा पूर्वकमनुभवाभावात् , प्रमेयत्वादिना दशरथत्वादिप्रकारकोपस्थितौ च ततः प्रमेयवानित्याकारक. बोधस्यैव सम्भवात् , न च, प्रमेयवानित्याकारकसंस्कारात् प्रमेयत्वांशे उद्बोधकरहिता(तत्वा)च्छुद्धदशरथत्वादिप्रकारकस्मरणोपपत्तिः, तत्प्रकारकस्मृतौ तत्प्रकारकानुभवत्वेनैव हेतुत्वादिति वाच्यम् , अन्वयव्यतिरेकाभ्यां शुद्धतत्प्रकारकस्मृति प्रति शुद्धतत्प्रकारकानुभवत्वेनैव हेतुत्वसिद्धेः, न च प्रमेयाभाववदित्यादिज्ञानात् संसर्गविधया शुद्धदशरथत्वादिस्वरूपप्रतियोगित्वलक्षणसम्बन्धविषयकात् ज्ञानलक्षणप्रत्यासत्तेः शुद्धदशरथत्वादिप्रकारको मानसानुभवः सुलभः, सर्वज्ञापत्तिभिया सांसर्गिकज्ञानस्यानुपनायकत्वस्वीकारात् । तस्मादत्र दशरथपदवाच्यत्ववति दशरथपदवृत्तिप्रकारकज्ञानाद् यथा दशरथपदवाच्यत्वेन
शकमिति शक्तिग्रहः प्रमेयत्वेन रूपेण दशरथत्वादिप्रकारकानुभवतः सम्भवति, तेन च शक्तिप्रहेण प्रमेयत्वादिना दशरथत्वादिप्रकारकोपस्थितिरपि दशरथादिपदाद् भवितुमर्हति तथापि तथोपस्थितितः प्रमेयवानित्याकारक एव शाब्दबोधः प्रमेयत्वेन दशरथत्वादिप्रकारको भवेन्न तु दशरथादिरित्याकारकः शुद्धदशरथत्वादिप्रकारकः शान्दबोध इत्याह-प्रमेयत्वादिनेति। ततः प्रमेयत्वादिना दशरथत्वादिप्रकारकोपस्थितिद्वारा दशरथादिपदात् । ननु प्रमेयत्वादिना दशरथत्वादविशिष्टेऽनुभूते दशरथादिपदानां शक्तिग्रहेऽपि तदनुभवाहितात् प्रमेयवानित्याकारकसंस्कारात् प्रमेयत्वांशे उद्बोधकरहितात् प्रमेयत्वं परित्यज्य शुद्धदशरथत्वादिप्रकारकस्मरणं सम्भवति, तदात्मकोपस्थितिद्वारा दशरथादिपदाच्छुद्धदशरथत्वादिप्रकारकशाब्द. बोधोऽपि सम्भवत्येव, अनुभव-स्मरणयोः समानप्रकारकत्वेनैव कार्यकारणभाव उपेयत इति दशरथत्वादिप्रकारकस्मरणं प्रति दशरथत्वादिप्रकारकोऽनुभवः कारणम् , न तु शुद्धदशरथत्वादिप्रकारकस्मरणं प्रति शुद्धदशरथत्वादिप्रकारकोऽनुभवः कारणमित्येवं प्रकारांशे शुद्धत्वादिकमपिं निवेश्यते, एवं च प्रमेवत्वेन दशरथादिविशिष्टानुभवोऽपि दशरथत्वादिप्रकारकानुभवो भवत्येवेति ततः शुद्धदशरथत्वादिप्रकारकस्मरणस्य दशरथत्वादिप्रकारकस्मरणलक्षणोक्तानुभवकार्यतावच्छेदकधर्माकान्तस्योदयः सम्भवतीत्युक्तस्मरणलक्षणोपस्थितिद्वारा दशरथादिपदाच्छुद्धदशरथत्वादिप्रकारकः शाब्दबोधः स्यादेवेत्याशय प्रतिक्षिपतिन चेति-अस्य वाच्यमित्यनेनान्वयः। निषेधे हेतुमाह- अन्वय-व्यतिरेकाभ्यामिति-शुद्धतत्प्रकारकानुभवसत्त्वे शुद्धतत्प्रकारकस्मरणं शुद्धतत्प्रकारकानुभवाभावे शुद्धतत्प्रकारकस्मरणाभाव इत्यन्वय-व्यतिरेकाभ्यामित्यर्थः, एवं च शुद्धदशरथत्वादिप्रकारकानुभवाभावाच्छुद्धदशरथत्वादिप्रकारकस्मरणलक्षोपस्थित्यनुत्पत्त्या न दशरथादिपदाच्छुद्धदशरथत्वादिप्रकारकशाब्दबोधो भवेदित्यर्थः । ननु प्रमेयाभाववदित्यादिज्ञानं शुद्धदशरथत्वाद्यवच्छिन्न प्रतियोगितासम्बन्धेन प्रमेयप्रकारकाभावविशेष्यकज्ञानरूपमपि सम्भवति, तस्मादेव च ज्ञानलक्षणप्रत्यासत्तिलक्षणालौकिकसन्निकर्षान्मनोरूपेन्द्रियेणेदानीन्तनानामपि शुद्धदशरथत्वादिप्रकारकालौकिकप्रत्यक्षात्मकानुभवो भविष्यति, तदनुभवतश्च शुद्धदशरथत्वादिप्रकारकस्मरणमपि भवितुमर्हति, तदात्मकोपस्थितिद्वारा दशरथादिपदाच्छुद्धदशरथत्वादिप्रकारकशाब्दबोधोऽपि भविष्यतीत्याशङ्कां प्रतिक्षिपति-न चेति । यदि चान्वयितावच्छेदकावच्छिन्न प्रतियोगितैव संसर्गविधया भासत इति दशरथत्वादिकं नान्वयितावच्छेदकमिति न तदवच्छिन्नप्रतियोगितायाः संसर्गविधया भानमिति विभाव्यते तदापि प्रमेयत्वेन दशरथादेरप्यभावेऽन्वय इति प्रतियोगिनो दशरथादेदशरथत्वादिस्वरूपमेव प्रतियोगित्वं संसर्ग इत्येतावताऽपि संसर्गविधया दशरथत्वादिखरूपप्रतियोगितालक्षणसंसर्गज्ञानरूपं तज्ज्ञानलक्षणविधया दशरथत्वाद्यलौकिकमानसप्रत्यक्षकारणं भविष्यतीति बोध्यम् , एवं सति प्रमेयाभाववदित्यादिज्ञाने धर्ममात्रखरूपप्रतियोगित्वस्य संसर्गविधया भानसम्भवेन तज्ज्ञानस्य ज्ञानलक्षणप्रत्यासत्तिविधया निरवच्छिन्नधर्ममात्रप्रकारकालौकिकमानसप्रत्यक्षकारणत्वसम्भवेन ततः सर्वज्ञानसम्भवतः सर्वज्ञत्वापत्तिरेव प्रसज्यत इति तद्भिया संसर्गविधया ज्ञानस्य न ज्ञानलक्षणप्रत्यासत्तिविधया कारणत्वमित्येव स्वीकरणीयमिति निषेधहेतुमुपदर्शयति-सर्वज्ञापत्तिभियेति-अत्र सार्वक्यापत्तिभियेति पाठो युक्तः। अनुपनायकत्वं ज्ञानलक्षणप्रत्यासत्तिविधया भानाप्रयोजकत्वम् । शब्दा-ऽर्थयोस्तादात्म्ये सत्येव सम्बन्ध इति प्रतिज्ञातमुपसंहरति - तस्मादिति। अत्र दशरथादिपदस्थले। दशरथपदवाच्यत्ववतीत्यत्र सप्तम्यर्थो विशेष्यत्वम् , तस्य निरूपकतासम्बन्धेन ज्ञानेऽन्वयः, तथा च दशरथपदवाच्यत्ववनिष्ठविशेष्यतानिरूपकदशरथपद
३८