________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
व्यभिचारात , तस्मान्नानार्थस्थले शब्दाभेदाद् भेदाभावेऽपि लक्षण-स्वरूपादिभेदाद् भेदो भविष्यति, नार्थभेद एकमेव प्रतिनियतं प्रयोजकम् , भिन्नशब्दवाच्यतया तु भिन्नकालवृत्तितये(ये)वार्थभेदो ध्रुवः, इति सर्वमनाविलम् ॥ ३७॥
ननु यद्येवं समभिरूढनयमते शब्दभेदादेवार्थभेदस्तदा शब्दानां व्युत्पत्तिनिमित्तं प्रवृत्तिनिमित्तमित्यागतम् , तथाच 'डित्था, डवित्थः' इत्यादिपारिभाषिकी सज़ा नः छिद्येत, तत्रेच्छामात्रस्योपाधित्वेन यथास्थित-व्युत्पत्तिनिमित्ताभावादिति चेत् ? अष्टापत्तिरित्यभिप्रायवानाह
संज्ञाऽर्थतत्वं न ब्रूते, त्वन्मते पारिभाषिकी ।
अनादिसिद्धः शब्दार्थो, नेच्छा तत्र निबन्धनम् ॥ ३८॥ नयामृत०-संज्ञेति। त्वन्मते-समभिरूढनयमते, पारिभाषिकी संज्ञा-डित्थ-डवित्थादिका, अर्थतत्त्वं न ब्रूते-पदार्थानुभवं न जनयति, यतः शब्दार्थोऽनादिसिद्धः-स्वाभाविकधर्मनिबन्धनः, तत्र-शब्दार्थे, इच्छा न निबन्धनमतिप्रसङ्गात् , इतीच्छाविशिष्टशक्त्यभावात्तस्याऽबोधकत्वमिति भावः । तदिदमुकं तत्त्वार्थभाष्ये- तत्र पारिभाषिकी नार्थतत्त्वं ब्रवीति ' [ तत्त्वार्थसूत्रे, अ० सू० ] इति ॥ ३८ ॥ एवम्भूतं लक्षयति
एवम्भूतस्तु सर्वत्र, व्यञ्जनार्थविशेषणः ।
राजचिलैर्यथा राजा, नान्यदा राजशब्दभाक् ॥ ३९ ॥ लक्षण-स्वरूपादिभेदान्नानार्थकहर्यादिशब्दवाच्यानां सिंहादीनां भेदो भविष्यतीत्यर्थः । यदि विभिन्नशब्दवाच्यत्वमेकमैवार्थभेदे प्रयोजक स्यात् तर्हि नानार्थस्थले तदभावादर्थभेदो न स्यान्न चैवमित्याह - नहीति। एवं च शब्दनयशिक्षणार्थ यत् समभिरूढस्याभिमतं तदुपदर्शयति-भिन्नशब्दवाच्यतयेति, यथा ऋजुसूत्रेण विभिन्नकालवृत्तितयाऽर्थभेदोऽभ्युपगतः शब्दनयेनापीष्टः सः, तथा भिन्नशब्दवाच्यतयाऽर्थभेदोऽवश्यमुपेयो नात्र कश्चिद्दोष इत्येवं समभिरूढनयाभिमतं सकलमनाविलं दोषासम्पृक्तमित्यर्थः ॥ ३ ॥
अष्टात्रिंशत्तमपद्यमवतारयति-नन्वित्यादिना । 'शब्दभेदादेव' इत्येवकारेण लिङ्ग-वचनादिभेदानां व्यवच्छेदः, तेन लक्षणस्वरूपादिभेदतोऽर्थभेदेऽपि न क्षतिः । तथा च व्युत्पत्तिनिमित्तस्यैव प्रवृत्तिनिमित्तत्वे च । 'नः छिद्येत' इत्यस्य स्थाने 'उच्छिद्येत' इति पाठो युक्तः । तत्र डित्थ-डवित्थादिसंज्ञायाम् । इच्छामात्रस्येति- “डित्थः काष्ठमयो हस्ती" इत्यादिवचनेन काष्टनिर्मितहस्त्यादिषु कस्यचिदिच्छया सङ्केतितो डित्यादिशब्द इतीच्छामात्रस्यैव तत्प्रवृत्तौ निमितत्वं न तु डित्यादिपदस्य किञ्चिद् व्युत्पत्तिनिमित्तमिति व्युत्पत्तिनिमित्तात्मकस्य प्रवृत्तिनिमित्तस्याभावात् पारिभाषिकी डित्यादिसंज्ञा न कस्यचिदर्थस्य बोधिका, न चार्थशून्या संज्ञा भवतीति समभिरूढमते तदुच्छेदः प्रसज्येतेत्यर्थः। अत्र आशङ्किते पारिभाषिकसंज्ञोच्छेदप्रसङ्गे । इष्टापत्तिः समभिरूढनयस्येष्टापादनम् ।
विवृणोति-संझतीति । 'त्वन्मते पारिभाषिकी' इति मूले 'तन्मते पारिभाषिकी ' इति पाठ एव युक्तः, टीकाया. मपि त्वन्मते' इति स्थाने 'तन्मते' इत्येव प.ठो युक्तः। उत्तरार्धस्य निषेधहेतुप्रतिपादकत्वं स्पष्टयितुं यतः' इति हेतुवचनपूरणम् । तस्याऽबोधकत्व' इति स्थाने 'तस्या अबोधकत्व' इति पाठो युक्तः, तस्याः-पारिभाषिकसंज्ञायाः। पारिभाषिकसंज्ञायाः समभिरूढमते नार्थतत्त्वबोधकत्वमित्यत्र तत्त्वार्थभाष्यसम्मतिमुपदर्शयति-तदिदमुक्तमिति । तत्र समभिरूढमते ॥ ३८॥
एकोनचत्वारिंशत्तमपद्यमवतारयति- एवम्भूतं लक्षयतीति। विवृणोति- एवंभूतस्त्वितीति । व्यञ्जनमर्थविशेषणं