SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । विरुद्धोभयधर्मप्रकारकज्ञानस्वरूपत्वात्, संशये प्रकारताद्वयनिरूपिता एका विशेष्यता, समुच्चये तु विशेष्यताभेद इत्यन्ये, तदपि भेदा-ऽभेदवादे कथञ्चित् सङ्गच्छते, नैकान्तवादे, विषये तद्वति तत्प्रकारकत्वनिरपेक्ष विशेष्यताभेदेऽभ्युपगम्यमाने साकारवादप्रसङ्गात्, यथार्थत्वात् विभ्रमो न, अवगाहते हि रताया निषेध एव सत्त्वादिति तन्नोपादातुं शक्यमिति बोध्यम् । एकप्रकारतामात्रनिरूपकत्वस्य संशयत्वासामानाधिकरण्येन संशयत्वाभावव्याप्यत्वं भावयितुमाह-संशयस्य चेति । एकत्रेति- एकधर्मावच्छिन्नविशेषतानिरूपितविरुद्धधर्मनिष्ठप्रकारताद्वयनिरूपकज्ञानस्वरूत्वादित्यर्थः । अत एव नयस्यैकप्रकारतामात्रनिरूपकत्वादेव, प्रकारता चात्र मुख्या ग्राह्या, मुख्यप्रकारतात्वं चावच्छेदकतानात्मकप्रकारतात्वम् , तेन नयात्मकज्ञाने विशेष्यतावच्छेदकस्य निरवच्छिन्नविशेष्यतानिरूपितप्रकारतावत्वेऽपि न क्षतिः, विशेष्यतावच्छेदकनिष्टप्रकारताया अवच्छेदकतात्मकत्मकत्वात् , जात्यखण्डोपाध्यतिरिक्तस्य यत्र नये प्रकारत्वं तत्र प्रकारताया विशेष्यतात्मकत्वस्य सम्भवेन विशेष्यतानात्मकप्रकारतात्वं तत्र न सम्भवतीत्यतो विशेष्यतानात्मकत्वं परित्यज्यावच्छेदकतानात्मकत्वमुक्तम् । चोऽप्यर्थः मूले न च इत्यत्र चकारोऽप्यर्थकः, तस्य ‘समुच्चयः' इत्यनेन सम्बन्धात् समुच्चयोऽपि नेति लभ्यते। एकप्रकारतामात्रनिरूपकत्वस्य नयगतस्य समुच्चयत्वासामानाधिकरण्येन समुच्चयत्वाभावव्याप्यत्वं भावयितुमाह-तस्येति- समुच्चयस्येत्यर्थः । निरूपकीभूतप्रकारताभेदेन संशये समुच्चये च विशेष्यस्यैकत्वेऽपि तनिष्ठाया विशेष्यताया भेदः, इयाँस्तु विशेषः संशये प्रकारगततया विरोधस्य भानं समुच्चये तु प्रकारगततयाऽविरोधस्य भानं विरोधस्याभानं वेत्यभिप्रायण संशयस्वरूपोपदर्शने प्रकारविशेषणतया विरोधस्य समुच्चयस्वरूपो पदर्शने च प्रकारविशेषणतयाऽविरोधस्योपादानमिति । संशये विरोधस्य समुच्चयेऽविरोधस्य च न भानं किन्तु संशये प्रकारताद्वयनिरूपितका विशेष्यता समुच्चये तु प्रकारताद्वयनिरूपिता विशेष्यताद्वयी, तत एव च संशयात् समुच्चयस्य भेद इत्यन्येषां मतमुपदर्शयति-संशय इति । तदपि संशये विशेष्यतैक्यं समुच्चये विशेष्यताभेद इत्यन्येषां मननमपि । भेदा-ऽभेदवादे एकस्यापि वस्तुनः किञ्चिदपेक्षया भेदः किश्चिदपेक्षयाऽभेद इत्यभ्युपगन्तृस्याद्वाद्यभिमतभेदाभेदवादे । कथञ्चिदिति- एकविशेष्यलक्षणाधाराभेदात् तदपेक्षया समुच्चयज्ञानीयविशेष्यताया अभेदेऽपि पर्वतो वह्निमान् वह्नयभाववॉश्चेति समुच्चयस्य वह्निमति वह्निप्रकारत्वेन पर्वतो वह्निमानितिज्ञानसमानविषयताशालिनो वह्नित्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यताकत्वमित्यत एका वह्नित्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यता, वह्नयभाववति वह्नयभावप्रकारकत्वेन पर्वतो वहयभाववानिति ज्ञानसमानविषयताशालिनो वह्नयभावत्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेध्यताकत्वमित्यतस्तदन्या वह्नयभावत्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यतेति समुच्चयज्ञानस्यांशभेदतो विषयभेद इत्यतोऽपेक्षाभेदेन तत्र विशेष्यताभेदो युज्यतेऽशभेदनिबन्धनविषयभेदप्रयुक्तविशेष्यताख्यविषयताभेदस्य युक्तत्वात् , संशये तु कोटिद्वयेऽपि दोलायमानरूपत्वेन ज्ञानान्तरस्य चैकैकप्रकारकत्येनादोलायमानरूपस्यैव सम्भवेन न तेन सह समानविषयत्वम् , दोलायमानरूपस्यादोलायमानरूपेण सह समानविषयत्वासम्भवात् , तयोः समानविषयत्वे वा दोलायमानस्वरूपमप्यदोलाय. मानस्वरूपं स्याददोलायमानस्वरूपमपि वा दोलायमानस्वरूपं स्यादतो विलक्षणमेव संशयस्वरूपम् , यत्र सदपि तद्वति तत्प्रकारत्वमनिर्णीतस्वरूपमेवेति सत्यपि प्रकारताभेदे तद्भेदप्रयुक्तभेदमप्रधानीकृत्याधारीभूतविशेष्यखरूपाभेदप्रयुक्ताभेदमेव प्रधानीकृत्य तत्स्वरूपसंवेदनं भवति शमुषीविशेषशालिनामिति सूक्ष्मदृष्ट्यरेक्षया विशेष्यताऽभेदः सुदृढनिरूढ इत्येवं भेदाऽभेदवादे स्याद्वादे अन्येषां मन्नमपि साधु सङ्गच्छत इत्याशयः। विषयभेदप्रयुक्तभेदमनादृत्यैकान्ततः समुच्चये विशेष्यताभेदोपगमस्स्वेकान्तवादिनो न युक्त इत्याह-नैकान्तवाद इति- एकान्तवादेऽन्येषामुक्तदिशा मननं न सङ्गच्छत इत्यर्थः । विषय इति-विषयावच्छेदेन यत् तद्वति तत्प्रकारकत्वम्, अत्र तत्पदेन समुच्चये प्रकारतयाऽभिमतयोरुभयोरपि प्रत्येक ग्रहणम् , तन्निरपेक्षो यो विशेष्यताभेदो ज्ञानस्यैव विलक्षणाकारानुरोधेन विशेष्यताभेदो विशेष्यतावैलक्षण्यं संशये विशेष्यताया अभेदः समुच्चये तस्या भेदस्तस्मिन्नभ्युपगम्यमाने सति साकारवादप्रसङ्गात्, विषयवैलक्षण्यनिबन्धनं न संशये विशे. ध्यताऽभेदः समुच्चये विशेष्यताभेदः किन्तु ज्ञानाकारभेदप्रयुक्तः संशयस्य दोलायमानकारता, समुच्चये तद्विलक्षणाकारता, तनिबन्धस्य विशेष्यताऽभेदस्य तद्भेदस्य चोत्पत्तिस्तदा स्याद् यदि साकार ज्ञानं भवेदित्येवं साकारवादप्रसङ्गात् । तद्वति तत्प्रकारकत्वं ज्ञानस्य यथार्थत्वम् , तथा चास्ति घट इति द्रव्यार्थिकनयोऽस्तित्ववति घटेऽस्तित्वमवगाहते, नास्ति घट इति पर्यायास्तिकनयो नास्तित्ववति घटे नास्तित्वमवगाहते. इति तद्वति तत्प्रकारकत्वलक्षणयथार्थत्वान्नयो द्रव्यार्थिकादिन
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy