________________
मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो मयोपदेशः ।
चेत् ? सत्यम्- प्रसिद्धार्थपुरस्कारेण प्रवृत्तस्यैवम्भूतनयस्य स्वार्थातिपसङ्गो न दूषणम् , किन्तु तन्निवारकनयान्तरोपायकत्वेन भूषणमेव; एतदुपजीवी व्यवहारस्तु यथावृत्ति, हरिपदे तु पशुत्वं प्रयोगोपाधिर्यथा वा धेन्वादिपदे गोत्वं शक्युपाधिस्तथा गवादिपदे घटादिपदे च गोव-घटत्वादेस्तथात्वेनातिप्रसङ्गभङ्गमाह; न चैवं घटादिपदात् निर्विकल्पकापत्तिः, क्रियाशब्दमात्रवादिन एतस्य मते क्रियोपरागेणैव पदार्थोपस्थिति. अन्यथा तु अतिप्रसक्तस्यापि व्युत्पत्तिनिमित्तस्य प्रवृत्तिनिमित्तत्वाभ्युपगमे पुनः । तथा च केनचिद् रूपेणानतिप्रसक्तस्य व्युत्गत्तनिमित्तस्य प्रवृत्तिनिमित्तत्वव्यवस्थितौ च । तत्प्रयुकेति- छत्र-चामरादिप्रयुक्तत्यर्थः । इतरातिशायीति- राज. व्यतिरिक्तजनवृत्तिपुण्याद्यवधिकातिशयवदित्यर्थः। अनतिप्रसकस्य राजेतरावृत्तेः । अव्याहतत्वात् छत्र-चामरादिविरहकालेऽपि राजनि पुरुषविशेषेऽस्खलदूपतया सत्त्वात् । समाधते-सत्यमिति । तत् किं छत्र-चामरादिविरहकालेऽपि राजशब्दवाच्यत्वं पुरुषविशेरे एवम्भूतनयस्येष्टमेवेत्यत आह- प्रसिद्धार्थपुरस्कारेणेति - गच्छतीति गौरिति व्युत्पत्तेर्गम्धातोः प्रसिद्धो यो गमनरूपोऽस्तित्पुरस्कारेण- तदाश्रयेण, गमनवति गोशब्दवाच्यत्वे प्रवृत्तस्य स्वीकृतिपरायणस्यैवम्भूतनयस्य, स्वार्थातिप्रसङ्गः स्वविषयातिप्रसङ्गो गमनति गोभिनेऽश्वादावपि गोशब्दवाच्यत्वप्रसङ्गः, न दूषणं न दोषावहं तत्प्रसङ्गस्ये टारतिरूपत्वात् । तर्हि गनन प्रत्यश्वेऽयं गौरिति व्यवहारस्तन्मते कथं न भातीति पृच्छति-किन्विति । उत्तरयतितन्निवारकेति - उकातिप्रपङ्गनिवारकं यनयान्तरं व्यवहाराख्यं तदुपायको गौरिति व्यवहारस्तत्त्वेन अतिप्रसजनलक्षणं दूषणं भूषणमेव, व्यवहारो हि व्यवहर्तृजनावितव्यवहारपरतन्त्रो न वस्तुपरतन्त्रः, यथा यथा लोके यद् यद् व्यवह्रियते तथैव व्यवहारनयस्तदुदायभूनमतिप्रसङ्गनिवारकमुत्प्रेक्ष्य तत्र सङ्घटयति, ततो वस्तुस्थित्याऽतिप्रसङ्गो नास्त्येव, नहि लक्ष्ये समन्त्रयोऽतिप्रसङ्गः, किन्तु तथाऽव्यवह्रियमाणत्वाद् व्यवहारदृश्यैवातिप्रपजायाऽऽभातीति यावन्न व्यवहारनयः सम्मुखीनो भवति तावन्नातिप्रसङ्गः, सम्मुखीनश्च स स्ववश एव व्यवहृति स्थापयतीति अतिप्रसङ्गनिवारकवर्मसमर्पणेनातिप्रसङ्गं वारयतीत्येवमतिप्रपङ्गस्य भूषणत्वम् , 'तनिधारकनयान्तरोपायकत्वेन' इत्यस्य स्थाने 'तन्निवारकनयान्तरोपस्थापकत्वेन' इंति पाठो युक्तः, परेणोकातिप्रसङझे दते सति ततो व्यवहारनयः समुपतिष्ठत एव, स चोपस्थितो व्युत्पत्तिनिमित्ते उपाधिविशेषवशिष्ट्या धानेनातिप्रसङ्ग वारयतीति भावः । व्यवहारो यथोक्तातिप्रसङ्गं वारयति तथोपदर्शयति- एतदुपजीवोति- 'एवम्भूननयोपजीवी यर्थः। 'व्यवहारस्तु' इत्यस्य 'आह' इत्यनेन सम्बन्धः । 'यथावृत्ति, हरिपदे तु' इत्यस्य स्थाने 'यथाऽने कार्यवृत्तहरिपदे' इति पाठो युकः, अयमर्थः-यथा सिंह-सूर्येन्द्रोपेन्द्रादिनानार्थशकहरिपदे हरतीति हरिरिति व्युसत्यर्थस्य सर्वत्राविशेषेऽपि पशुत्वमुपाधि समाश्रित्य सिंहे हरिशब्दप्रयोग इति पशुत्वं सिंहे हरिशब्दप्रयोगस्य हरणाक्रमानिमित्त त्यो राषिः, यथा वा धेनुपदव्युत्पत्तिनिमित्तस्य धानकर्मत्वस्य महिध्यादौ सत्त्वेऽपि धेनुपदं न महिध्यादौ शक मति गोवं धेन्वादिादे शक्त्युमाधिः, तथा गवादिपदे गच्छ नीति गौरिति व्युत्पत्ति नमित्तस्य गमनक्रियावत्तस्याश्वदौ सत्त्वेऽपि गोत्वस्य शक्तयुगवित्वेन तस्याश्वादावभविन नाश्वादौ गोशब्दवाच्यत्वप्रसङ्गः, एवं घटते चेष्टते इति घट इति व्युत्पत्ति. निमित्तस्य क्रियाविशेषलक्षगचेष्टावत्त्वस्य घटभिन्ने सत्त्वेऽपि घटपदे घटत्वस्य शक्युपाधित्वेन तस्य घटभिन्नेऽभावान्न घटपदवाच्यत्वप्रसङ्ग इयेवमतिप्रसाभगमाह व्यवहार इत्यर्थः। ननु घटपदाद् घटत्वलक्षणशक्त्युपाधिपुरस्कारेण घटस्य निकलको स्थितिरपि सादिया राय प्रतिक्षिपति - न चेति। एवं घटादिपदे घटत्वादेः शक्त्युपाधित्वाभ्युपगमे । निवेचे हेतुमाह-क्रियेति । एतस्य एवम्भूतस्य तदुरजीवितो व्यवहारस्य च, सर्वे शब्दाः क्रियाप्रवृत्तिनिमित्तकत्वात् क्रियाशब्दा एवेतिवादिन एवम्भूतस्य तदुरजीविनो व्यवहारस्थ मते सर्वैरपि शब्दैः क्रियोपरागेणैव क्रियाविशिष्ट. तयैव पदार्थानामुपस्थितिरिति क्रियाप्रकारकपदार्थविशेष्यकोपस्थितेः सविकल्पिचया एव भावाद् घटादिसदानिर्विकल्पकबोधापत्त्यसम्भवादित्यर्थः । अत्रैव प्रसङ्गाच्छिष्यमतिविस्तारणार्थमेवम्भूतनयावलम्बनमन्यनयानुसारिणोऽपि कृतवन्त इत्युपदर्शयति-सर्वे शब्दा इति- अत्र “एतस्मादेव सर्वे शब्दा व्युत्पन्ना एवेति वैयाकरणकदेशिनों पक्ष उद्गतः" इति पाठः समुचितः। 'पतन्मतेनेव' इत्यस्य 'पङ्कजादिपदे योगमात्रमेवाहुः' इत्यनेनान्वयः, 'पतन्मतेनैव' स्थैवम्भूतनयमतसमाश्रयणेनैवेत्यर्थः, जाति-गुण-क्रिया-यदृच्छाशब्दवादिनः शब्दनयानुसारिण एतन्मतेनैव पङ्कजादिपदे योगमात्रमेवाहुरित्यन्वयः, एवं यदृच्छावर्जशब्दत्रयवादिनः समभिरूढनयानुसारिण एतन्मतेनैव पङ्कजादिपदे योगमात्रमेवाहुरित्यत्वयः, जातिशब्दो जातिप्रवृत्तिनिमित्तको घट-पटादिशब्दः, गुणशब्दो गुणप्रवृत्तिनिमित्तकः शुक्ल-नीलादिशब्दः, क्रियाशब्दः