SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । "वंजणनयामृत० - एवम्भूतस्त्विति । सर्वत्र व्यञ्जनं- शब्दस्तेनार्थं विशेषयति यः स एवम्भूतः, अत्थ तदुभयं एवंभूओ विसेसेइ" [ विशेषावश्यक निर्युक्तिगाथा - २१८५ ] इति नियुक्तिकारः, व्यञ्जनार्थयोरेवम्भूतः” [ तत्त्वार्थसूत्रे, अ० १ सू० ३५ ] इति तत्त्वार्थभाष्यम्, पदानां व्युत्पत्त्यर्थान्वयनियतार्थबोधकत्वाभ्युपगन्तृत्वमेवम्भूतत्वमिति निष्कर्षः, नियमश्च कालतो देशतश्चेति न समभिरूढातिव्याप्तिः । अयं चास्याभिमानः- यदि घटपदव्युत्पत्त्यर्थाभावात् कुटपदार्थोऽपि न घटपदार्थस्तदा जलाहरणादिक्रियाविरहकालेऽपि घटो न घटपदार्थो धात्वर्थविरहाविशेषादिति । व्यञ्जनार्थविशेषकत्वमस्य यदुक्तं तदुदाहरति- राजचिह्नः - छत्रचामरादिभिः, यथा राजन् - शोभमानः, सभायामुपविष्टो राजोच्यते, अन्यदा - छत्रचामरादिशोभा विरहकाले, राजशब्दभाग्- राजशब्दवाच्यो न भवति, राजपदव्युत्पत्तिनिमित्ताभावादित्यर्थः । १८५ नन्वेतन्मते व्युत्पत्तिनिमित्तमेव प्रवृत्तिनिनित्तमिति केनचिद्रूपेण तदतिप्रसक्तं वाच्यम्, अन्यथा तु गच्छतीति 'गौः' इति व्युत्पत्त्या गच्छन्नश्वादिरपि गौः स्यात्, तथा च छत्र-चामरादिविरहकाले तत्प्रयुक्तराजनाभावेऽपीतरातिशायिपुण्यादिप्रयुक्त राजनस्यानतिप्रसक्तस्याव्याहतत्वात् कथं न राजशब्दवाच्यत्वमिति यस्य स व्यञ्जनार्थविशेषण इति बहुव्रीहिरत्र समासः तमवलम्भ्य फलितमर्थमुपदर्शयितुमाह- सर्वत्रेति - शब्दमात्रे इत्यर्थः । तेन शब्देन । एवम्भूतनयो व्यञ्जनेनार्थं विशेषयतीति नियुक्ति तत्त्वार्थ भाष्यसम्मतमित्युपदर्शयितुं निर्युक्तित्र चनं तत्वार्थभाष्यवचनं चोल्लिखति- वंजणत्ति, व्यञ्जनेति च - " व्यञ्जनमर्थं तदुभयमेवम्भूतो विशेषयति" इति संस्कृतम् । ततश्चैवम्भूतस्य निष्कृष्टलक्षणं दर्शयति- पदानामिति बहुवचनेन पदत्वव्यापकत्वं व्युत्पत्स्यर्थान्वयनियतार्थबोधकत्वे लभ्यते, तथा च. पदत्वव्यापकं यद् व्युत्पत्त्यर्थान्वयनियतार्थबोधकत्वं तदभ्युपगन्तृत्वमेवम्भूतत्वमित्यर्थः यदा यस्मिन् देशे गमनक्रियावत्यां गवि गोपदं प्रयुज्यते तत्र पदत्वं गोपदे वर्तते, तत्र गच्छतीति गौरिति व्युत्पत्त्यर्थो गमनक्रिया, तदन्वयेन कालतो देशतश्च नियसोऽर्थो गमनंक्रियावान् गोरूपार्थः, तद्बोधकत्वं समस्तीति तदभ्युपगन्तृत्वमेवम्भूतनये समस्तीति लक्षणसमन्वयः । यदा यदा यत्र यत्र देशे विद्यमानायां गवि गोशब्दः प्रयुज्यते तदा तदा तस्मिँस्तस्मिन् देशे गमनक्रिया भवतु मा वा कदाचित् कस्मिन् देशे गवि गमनक्रियासत्त्वमात्रेणापि गोशब्दः प्रवर्तत इत्यभ्युपगच्छतः समभिरूडस्यैतल्ल गातिप्रसङ्गवारणाय कालतो देशतश्व व्युपस्वर्थान्वयनियमोऽत्र प्रविष्ट इत्याह- नियमश्चेति । समभिरूढनयशिक्षणार्थमेतन्नयाभिप्रायमुपदर्शयति- अयं चेतिअनन्तरमेव निरूप्यमाण इत्यर्थः । अस्य एवम्भूतनयस्य । यदीत्यादिना तदेंभिमानोङ्कनम्, “कुट कौटिल्ये " इत्यनुसारात कुटपदार्थः कौटिल्यक्रियालिङ्गितोऽर्थो यदि " घर चेष्टायाम्" इत्यनुसाराद् घटपदव्युत्पत्त्यर्थ जला हरणादिक्रियालक्षणचेष्टाभावान्न घटपदार्थ इत्येवं समभिरूढनयेन स्वीक्रियते तदा घटो यदा जलाहरणादिक्रियां न करोति तदानीं किमिति समभिरूढेन घटो घटपदार्थोऽनुमतः ? प्रत्युत धात्वर्थजलाहरणादिक्रियालक्षणचेष्टाभावात् तदानी घटो न घटपदार्थ इत्येव स्त्रीकर्तुमुचितमित्यर्थः । उत्तरार्धमुदाहरणोपदर्शनपरतयाऽवतारयति - व्यञ्जनार्थेति । अस्य एवम्भूतनयस्य । राजन् राजा इत्येव राजपदव्युत्पत्तिः परं गुणान्तरैरन्योऽपि शोभमानो दृश्यत इति तत्र राजपदप्रवृत्तिर्मा प्रसाङ्गीदिति राजचिद्वैरिति । असाधारणस्यैव लक्षणत्वं सम्भवतीत्यभिसन्धानेन तस्य विवरणम् - छत्र - वामरादिभिरिति । एकैकस्य च्छत्रादेरन्यत्रापि सम्भवान्नासाधारणत्वमतो यादृशस्य च्छादनन्यित्र सद्भावश्चामराद्युपेतस्य च्छत्रादेश्छत्राद्युपेतस्य चामरादेस्तादृशस्य प्रहणार्थं छत्रादिभिरित्यनुक्त्वा छत्र- चामरादिभिरित्युक्तम्, छत्रचामरादिभिरसौ न सर्वदाऽऽलिङ्गितो भवतीत्यत उक्तम्- सभाया.. मुपविष्ट इति तथा च सभोपविष्टत्वे सति च्छत्रचामरादिप्रयुक्त राजनवत्त्वमेव राजशब्दव्युत्पत्तिनिमित्तम्, तद्वानेव राजेति व्यपदिश्यते एवम्भूतनये इत्यर्थः । अत्र शङ्कते - नन्विति । एतन्मते एवम्भूतनये । ' तदतिप्रसक्तम् इत्यस्य स्थाने ' तदनतिप्रसक्तम्' इति पाठो युक्तः, तत् व्युत्पत्तिनिमित्तम् अनतिप्रसकं तत्तच्छब्दशक्येतरावृत्ति । ૨૪
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy