________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलईतो नयोपदेशः।
२३३
विवेचितः प्रस्थकदृष्टान्तोऽथ वसतिदृष्टान्तं विवेचयति लोके चेत्यादिना
लोके च तिर्यग्लोके च, जम्बुद्वीपे च भारते ।
क्षेत्रे तद्दक्षिणार्धे च, पाटलीपुरपत्तने ॥ ६७ ॥ नयामृत-लोक इति । कुत्र भवान् वसतीति पृष्टेऽशुद्धनैगम-व्यवहारवादी लोके वसामीति ब्रूते, जीवद्रव्यस्थितिपर्यायविशेषरूपाया वसतेरधर्मास्तिकायव्याप्ताकाशत्वरूपलोकत्वस्यैव निरूपकता. वच्छेदकत्वाद्, अत एवाकाशे वसामीति तस्य न प्राथमिकः प्रयोगः, शुद्धाकाशत्वस्यातथात्वात् , ततः शुद्धस्तु नैगमो व्यवहारो [बोधि]स्तिर्यग्लोकभेदभिन्ने सर्वत्रापि किं भवान् वसतीति प्रश्ने तिर्यग्लोके वसामीत्युत्तरयति, एवं यथोत्तरप्रश्नेषु यथोत्तरशुद्धा जम्बूदीपादि(वादिनः) ॥ ६७ ॥
गृहे च वसतेः कोणं, नैगम-व्यवहारयोः ।
अतिशुद्धौ तु निवसन्, वसतीत्याहतुः स्म तौ ॥ ६८॥ तु एकशब्दप्रतिपाद्यत्वेन तेषामन्योऽन्यं तदात्म्यं तदा तत्प्रतिपादिका संज्ञाऽप्यभिन्नेति तेषां तुल्यनामधेयत्वमुपपद्यते, सर्वथाऽर्थानामर्था-ऽभिधान-प्रत्ययानामभेदे 'अयमर्थ इदमभिधानमयं च प्रत्ययः' इति व्यवहारवैचित्र्यं नोपपद्येतातः कथञ्चित् तेषां भेदे तत्प्रतिपादकत्त्य समानानुपूर्वी कस्यापि कथञ्चिद्भेद इत्याशयेनैकनामधेया इत्यनभिधाय तुल्यनामधेया इत्येवमुक्तिः। ज्ञानाज्ञानात्मकत्वोभयेत्यादिप्रन्थरहस्योपवर्णनं नयरहस्यव्याख्यायामस्माभिः कृतमिति विशेषजिज्ञासुभिरवलोकयीयं तदिति ॥६६॥
सप्तषष्टितमपद्यमवतारयति-विवेचित इति । अथ प्रस्थकदृष्टान्तविवेचनानन्तरम् । विवृणोति-लोक इतीति । लोके वसामीत्यत्र सप्तम्या लोकस्य वसतिनिरूपकाधारत्वं प्रतीयते, तत्र का नाम वसतिः ? तन्निरूपकतावच्छेदकं लोकत्वं किमित्याकालानिवृत्तये त्वाह-जीवद्रव्येति-जीवात्मकद्रव्यस्य यः स्थित्यात्मकः पर्यायविशेषस्तद्रूपाया वसतेरित्यर्थः । गत्युपष्टम्भको धर्मास्तिकाय इति धर्मास्तिकायव्याप्ताकाश एव गतिमतां जीव पुद्गलानां गतिर्भवृति, तथा स्थित्युपष्टम्भकोऽधर्मास्तिकाय इत्यधर्मास्तिकायव्याप्ताकाश एव स्थितिमतां जीव-पुदलानां स्थितिर्भवति, तथा च लोकत्वं धर्मास्तिकायव्याप्ताकाशस्वरूपमधर्मास्तिकायव्याप्ताकाशत्वरूपं चेत्येवं निर्वक्तुं शक्यम् , परं तत्र स्थितिविशेषरूपाया वसतेर्निरूपकता विशिष्टे आकाशस्वरूपेऽधर्मास्तिकायव्याप्ताकाशत्वेनैवावच्छिद्यते, न तु धर्मास्तिकायव्याप्ताकाशत्वेनेत्याशयेन 'अधर्मास्तिकाय. व्याप्ताकाशत्वरूपलोकत्वस्यैव' इत्युक्तम् । अत एव स्थितिविशेषलक्षणवसतेर्निरूपकतावच्छेदकत्वस्याधर्मास्तिकाय. व्याप्ताकाशत्वस्यैव भावादेव । तस्य अशुदनैगम-व्यवहारवादिनः। अशुद्धनगम- व्यवहारवादी कुत्र भवान् वसतीत्येवं परेण पृष्टः प्रथमत आकाशे वसामीत्येवं न प्रयुक्रे इत्यत्र हेतुं दर्शयति-शद्धाकाशत्वस्येति-लोकालोकसाधारणाकाशत्वस्थत्यर्थः । अतथात्वात जीवद्रव्यस्थितिपर्यायविशेषरूपाया वसतेर्निरूपकतानवच्छेदकत्वात् । ततः शुद्धस्तु प्राथमिकाशद्धनैगम-व्यवहारवादिनोऽपेक्षया शुद्धः पुनः । नैगमो नैगमनयवादी, व्यवहारो व्यवहारनयवादी वा, अस्य 'तिर्यग्लोके वसामीत्युत्तरयति' इत्यनेन सम्बन्धः। ऊ ति- लोक ऊर्ध्वलोकोऽधोलोकस्तिर्यग्लोक इत्येवं त्रिप्रकारकः, भवता तु लोके वसामीति सामान्येनोकं ततो न ज्ञायते किमूर्ध्वलोके भवान् वसति ? अधोलोके वा भवान् वसति ? तिर्यग्लोके वा भवान् वसति? किं वा सर्वस्मिन्नपि लोके भवान् वसतीत्येवं प्रश्न परेण कृते सतीत्यर्थः । एवं यथोत्तरप्रश्नेषु उक्तप्रकारेण किं तियग्लोके सर्वत्र भवान् वसति ? किं जम्बूद्वीपे सर्वत्र भवान् वसति ? किं भारते क्षेत्रे सर्वत्र भवान् वसति ! कि भारतक्षेत्रदक्षिणा भवान् वसति ? किं तत्र पाटलीपुरपत्तने भवान् वसतीत्येवमुत्तरोत्तरप्रश्नेषु । यथोत्तरशुद्धा इति-पूर्वपूर्वनैगम-व्यवहारवादिनोऽपेक्षयोत्तरोत्तरशुद्धा इत्यर्थः । जम्बूद्वीपादिवादिनः जम्बूद्वीपे वसामि, भारतक्षेत्रे वसामि, तद्दक्षिणार्द्ध वसामि, पाटलीपुरपत्तने वसामीत्युत्तरवादिनः, नैगम-व्यवहारनययोः शुद्धितारतम्यातू तद्वादिनोरपि शुद्धितारतम्यमिति बोध्यम् ॥६॥