________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
सूत्राणि ] इति, एते च विधि-निषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुनि सनैव भङ्गाः, धर्मभेदेनानन्तसप्तभङ्गीसम्भवेऽपि प्रतिधर्म सप्तानामेव भावात् , अयं च नियमः प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव सम्भवात् , तेषामपि सप्तत्वं सप्तविधतजिज्ञासानियमात् , तस्या अपि सप्तविधत्वं सप्तधैव तत्सन्देहसमुत्पादात्, तस्याऽपि सप्तप्रकारत्वनियमः स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेरिति । अत्र विधिमुख्य विषयताकः [ बोधः ] प्रथमस्य [ भङ्गस्य फलम् ], निषेधमुख्यविषयताको द्वितीयस्य, क्रमादु
ख्यविषयताकस्तृतीयस्य । न च क्रमबलादेव तत्र ज्ञानद्वयमर्थसिद्धमित्याद्यभङ्गद्वयानतिरेकः, क्रमगर्भोभयप्राधान्यबोधकत्वाभिप्रायेणोभयपदप्रयोगात् तत्र 'एकत्र द्वयम्' इति विषयशालिनो बोधान्तरस्यानुभविकत्वात्। न च तत्र शब्दयोः क्रमव्यापारेऽप्यर्थस्य विशिष्टस्य क्रमाघटितत्वात् क्रमाद्यनतिप्रयोजनम् ।
"न सोऽस्ति प्रत्ययो लोके, यः शब्दानुगमाहते। अनुविद्धमिव ज्ञानं, सर्व शब्देन भाषते" ॥१॥ [ वाक्यपदीये० ] इति नयाश्रयणाच्छब्दगतस्याऽपि क्रमस्यार्थेऽध्यारोपणात् । अस्तु वा 'क्रमाद्'
भङ्गानां भावान्नाऽटभङ्गादिप्रसङ्ग इत्याह-धर्मभेदेनेति । प्रतिधर्म सप्तानामेव भङ्गानां सम्भव इति नियम एवं कथमत आई- अयं च नियम इति । प्रतिपाद्यपर्यनुयोगानामिति- यस्य पुंसस्तत्त्वप्रतिपत्त्यर्थं महावाक्यं प्रयुज्यते स प्रतिपाद्यः पुरुषः, तस्य ये पर्यनुयोगा:- प्रश्नाः, तेषामित्यर्थः । सप्तैव प्रतिपाद्यपर्यनुयोगा इति नियम एव कुत इत्यत आहतेषामपीति- प्रतिपाद्यपर्यनुयोगानामपीत्यर्थः । तजिज्ञासेति- प्रतिपाद्यजिज्ञासेत्यर्थः । तस्या अपि प्रतिपाद्यजिज्ञासाया अपि । तत्सन्देहेति-प्रतिपाद्यसन्देहेत्यर्थः । तस्यापि सन्देहस्यापि । स्वगोचरेति-सन्देहगोचरेत्यर्थः। तथा च प्रतिपर्यायं वस्तुनि विधि-निषेधकल्पनया सप्तैव धर्माः, अतस्तद्विषयाः सप्तैव सन्देहाः, ततः सन्देहजनिताः सप्तव जिज्ञासाः, ततस्तन्मूलकाः प्रतिपाद्यप्रश्नाः सप्तैव, ततस्तत्प्रतिविधानस्वरूपा भङ्गा अपि सप्तैवेत्यतः प्रतिपर्यायं वस्तुनि सप्तभङ्गयात्मकमहावाक्यमेव सप्तविधजिज्ञासानिवर्तकशाब्दबोधजनकतापर्याप्तिमत्त्वात् प्रमाणमिति । सप्तानामपि भङ्गानां प्रत्येकं क्रमेण विविक्तं फलमुपदर्शयति- अत्रेति- सप्तभङ्गयात्मकमहावाक्य इत्यर्थः, विधिमुख्य विषयताको बोधः प्रथमभङ्गस्य फलमित्यर्थः । निषेधेति-निषेधमुरयविषयताको बोधो द्वितीयभङ्गस्य फलमित्यर्थः। क्रमादिति- क्रमाद् विधि-निषेधोभयमुख्यविषयताको बोधस्तृतीयस्य भङ्गस्य फलमित्यर्थः । ननु प्रथमभङ्गेन विधिमुख्यविषयताको बोधो द्वितीयभङ्गेन निषेधमुख्यविषयताको बोधः क्रमेण भवत्येव तथैव च तृतीयभङ्गेनापि क्रमबलान्निरुक्तबोधद्वयमुपजायत इति तृतीयभङ्गस्य प्रथमद्वितीयभङ्गाभ्यामभेद एवेत्याशङ्कय प्रतिक्षिपति-न चेति । तत्र तृतीयभङ्गे । तत्र क्रमिकोभयधर्मस्य प्राधान्यबोधकत्वमित्यभिप्रायेण विधिप्रतिपादकपदं निषेधप्रतिपादकपदं च प्रयुज्यत इति 'एकत्र द्वयम्' इति रीत्यैक एव बोधो विधिनिष्ठप्रकारतानिरूपितत्वे सति निषेधनिष्टप्रकारतानिरूपितवस्तुनिष्ठविशेष्यताको भवति, न चेदृशो बोधः प्रथम-द्वितीयभङ्गाभ्यां भवतीति बोधान्तररूपफलजनकत्वात् प्रथम-द्वितीयाभ्यामस्य भेद इति निषेधहेतुमुपदर्शयति-क्रमग भयप्राधान्येति । तत्र तृतीयभङ्गे । ननु क्रमो नामैकानन्तरमपरस्य भावः, स च शब्दगतो विधिबोधकपदप्रयोगानन्तरं निषेधबोधकपदप्रयोगात्, न तु विधि-निषेधरूपधर्मद्वयगतः, तयोः समकालमेवैकत्र वस्तुनि भावादिति शब्दस्य क्रमव्यापारेऽपि नार्थे क्रम इति क्रमाऽघटितस्यैव विधि-निषेधविशिष्टस्यार्थस्य तृतीयभङ्गजन्यबोधेऽवभासनात् 'कमगर्भ.' इत्याद्यभिधानमनतिप्रयोजनकमित्याशङ्कय प्रतिक्षिपति-न चेति । शन्दगतस्य न.मस्यार्थेऽध्यारोपणात् तृतीयभङ्गेऽर्थगततया क्रमाऽवभासनं समस्त्येव, शब्दविशिटस्यैवार्थस्य ज्ञानमात्रेऽवभासनमिति भर्तृहरिमतावलम्बनेन क्रमावभासनं तथा सङ्गतिमङ्गतीति निषेधहेतुमुपदर्शयति-न सोऽस्तीति- यः प्रत्ययः शब्दानुगमाइते-शब्दानुगमनं शब्दप्रतिभासनमन्तरेणेति यावद् भवेत् , स प्रत्ययो लोके नास्ति, सर्व ज्ञानं शब्देनानुविद्धमिद- व्याप्तमिवाभासत इत्यर्थः । अथवा शब्दगतोऽथंगतो वा क्रमो नावभासत एव, किन्तु 'एकत्र द्वयम्' इति रीत्या तत्र ज्ञानमुपजायते, तदाकार विशेषोपलक्षकमेव 'क्रमाद्' इत्यभिधानमित्याह- अस्तु वेति । 'स्यादवक्तव्य एव' इति चतुर्थभास्य फलमुपदर्शयति- युगपदिति- युगपद्विधिनिषेधात्मनाऽवक्तव्यत्वमुख्यविषयताको बोधश्चतुर्थभङ्गस्य फलमित्यर्थः ।