________________
४८
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । इति वचनं ज्ञानाकार विशेषोपलक्षकमेव ३ । युगपद्विधि-निषेधात्मनाऽवक्तव्यत्व मुख्यविषयताकश्चतुर्थस्य, तादृशो बोधोऽवक्तव्यपदस्य खण्डशः शक्त्या कारितो विशेषशक्त्या वेत्यन्यदेतत् । न चानुभयवचनेनैवास्य गतार्थताऽऽशङ्कनीया, अनुभयस्यैकतर प्राधान्यपर्यवसायित्वेनाद्यमङ्गद्वयान्तर्भावानतिक्रमात्। न च, उभयपदेन युगपदुभयप्राधान्यबोधसम्भवादवक्तव्यत्वभङ्गोऽनुत्थानोपहत एव, यथा पुष्पदन्तपदाच्चन्द्रत्व-सूर्यत्वाभ्यां चन्द्र-सूर्ययोर्युगपदेव बोधस्तथोभयपदेन सत्त्वाऽसत्त्वाभ्यां युगपदेकोभयात्मकवस्तुबोधसम्भवाद्, अत एव “पुष्पदन्तौ पुष्पदन्तावेकोक्त्या शशि-भास्करौ” [
] इत्युक्तेः 'एकोक्त्या' इत्यस्य 'एकया शक्त्या' इत्यर्थः, पुष्पदन्तस्य हि चन्द्र-सूर्ययोरेका शक्तिः, शक्यतावच्छेदकत्वं तु चन्द्रत्व-सूर्यत्वयोर्व्यासज्जवृत्तीत्युपगमः, तद्वदुभयपदस्यापि प्रकृते शबलवस्तुन्येका शक्तिः, शक्यतावच्छेदकत्वं तु सत्त्वाऽसत्त्वयोर्व्यासज्जवृत्तीति किं न स्यादिति वाच्यम् , पुष्पदन्तपदवदुभयपदस्यासाधारणत्वाभावात् , बुद्धिविषयतावच्छेदकत्वादस्त्यादिधर्मद्वयावच्छिन्नबोधकत्वे च प्राधान्येनोभयाकारबोधासिद्धः। किञ्च, व्यासज्जवृत्तिशक्यतावच्छेदकताकस्य पदस्य द्विवचनान्तस्यैव साधुत्वेन न पुष्पदन्तपदवदनोभयपदस्य तादृश इति-- अवक्तव्यपदस्य युगपद्विधि-निषेधरूपेऽर्थेऽवक्तव्यत्वरूपे च पृथगेव शक्तिः, तादृशशक्तितस्तादृशो बोधः कारितःजनितः, वा- अथवा, युगपद्विधिनिषेधात्मनाऽवक्तव्यत्वरूपेऽर्थेऽवक्तव्यपदस्य शक्तिविशेषः, तेन तादृशो बोधो जायत इति वादान्तरम् , सर्वथा तथाबोधश्चतुर्थभङ्गाद् भवतीति । ननु 'स्यादवक्तव्यः' इति स्थाने 'स्यादनुभयम्' इत्येव प्रयुज्यताम् , क्रमेण यदुभयं तन्नेत्यर्थतो युगपदुभयप्राधान्यप्रतीतिसम्भवादित्याशङ्कय प्रतिक्षिपति-न चेति- अनुभयवचनेनैवाऽस्य गतार्थता न चाऽऽशङ्कनीयेत्यन्वयः । क्रमेण यदुभयप्राधान्यं तत्प्रतिक्षेपकस्यानुभयस्यैकतरप्राधान्येनाप्युपपत्तेः, एकतरप्राधान्यप्रतिपादनं च प्रथम-द्वितीयभङ्गाभ्यामेव क्रियत इति 'स्यादनुभयम्' इत्यस्याद्यभङ्गद्वय एवान्तर्भावात् 'स्यादवक्तव्यः' इति चतुर्थभङ्गो युगपद्विधि-निषेधात्मनाऽवक्तव्यत्वमुख्यविषयताकबोधजनक आवश्यक इति निषेधहेतुमुपदर्शयति-अनुभयस्यैकतरेति । ननु 'स्यादुभयम्' इत्यनेन युगपदुभयप्राधान्यबोधसम्भदेन 'स्यादवक्तव्यः' इति चतुर्थभङ्गः प्रयोजनान्तराभावादनुत्थानोपहत इत्याशङ्कय प्रतिक्षिपति-न चेति- अस्य 'वाच्यम्' इत्युत्तरेण सम्बन्धः । पुष्पदन्तपदेन यथा युगपदेव चन्द्रत्वसूर्यत्वाभ्यां चन्द्र-सूर्ययोर्बोधस्तथैवोभयपदेन युगपदेव सत्त्वा-ऽसत्त्वाभ्यामुभयात्मकवस्तुनो बोध इति दृष्टान्तावष्टम्भेन समर्थयति-यथेति । अत एव पुष्पदन्तपदस्य युगपदेव चन्द्रत्व-सूर्यत्वाभ्यां चन्द्र-सूर्योभयबोधकत्वादेव । 'पुष्पदन्ती' इत्येकस्य स्थाने 'पुष्पवन्तौ' इति पाठो युक्तः । दृष्टान्त दार्शन्तिकयोः साम्यं भावयति-पुष्पदन्तपदस्य हीति । 'व्यासजवृत्ति' इति स्थाने 'व्यासज्यवृत्ति' इति पाठो युक्तः, एवमग्रेऽपि, व्यासज्यवृत्तित्वं चैकत्वानवच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वम् , तथा च पुष्पदन्तपदशक्यतावच्छेदकत्वं चन्द्रत्व-सूर्यत्वयोस्तद्गतद्वित्वावच्छेदेन पर्याप्तम् , एवमुभयपदशक्यतावच्छेदकत्वं सत्त्वाऽसत्त्वयोस्तद्गतद्वित्वावच्छेदेन पर्याप्तमित्यर्थः । पुष्पदन्तपदं नियमतश्चन्द्र-सूर्योभयप्रतिपादकत्वादसाधारणम् , नैवमुभयपदम् , पदान्तरासमभिव्याहृतस्य तस्य सामान्यत उभयमात्रप्रतिपादकत्वेन प्राधान्येनाऽस्तित्व-नास्तित्वोभयाप्रतिपादकत्वात् , प्रतिपाद्यस्य विशिष्यार्थावगतये हि वाक्यं प्रयुज्यते, न च 'स्यादुभयम्' इत्यतो विशिष्यार्थावगतिः, अत एव विशिष्यार्थावगतये पदान्तरसमभिव्याहृतमेवोभयपदं प्रयुज्यत इति निषेधहेतुमुपदर्शयति-पुष्पदन्तपदवदिति । ननु ‘स्यादस्त्येव' इत्यनेनाऽस्तित्वस्य 'स्यान्नास्त्येव' इत्यनेन नास्तित्वस्य 'स्यादस्त्येव, स्यान्नास्त्येव' इत्यनेन क्रमेणाऽस्तित्व-नास्तित्वोभयस्य च प्रतिपत्तौ बुद्धिविषयतावच्छेदकमस्तित्व-नास्तित्वोभयमिति तदनन्तरं प्रयुज्यमानेन ‘स्यादुभयम्' इत्यनेन बुद्धिविषयतावच्छेदकत्वादस्तित्वनास्तित्वधर्मद्वयावच्छिन्नावबोधो भविष्यतीत्यत आह- बुद्धिविषयतेति- उभयत्न रूपणोभयपदादस्तित्व-नास्तित्वधर्मद्वयावच्छिन्नबोधस्य सम्भवेऽपि ताशबोधाकारः 'उभयम्' इत्येव स्यान्न तु प्राधान्येनास्तित्व-नास्तित्वोभयाकार इति तादृशबोधस्याभिलषितस्यासिद्धेर्न ‘स्यादुभयम्' इति चतुर्थभङ्गस्थानेऽभिषेकमहतीति । पुष्पदन्तपदस्य व्यासज्यवृत्तिशक्यता. वच्छेदकताकस्य द्विवचनान्तत्वनियमादुभयपदस्य तत्त्वाभावेन न तथाऽवबोधकत्वमित्याह-किश्चेति । पञ्चमभङ्गस्य फलमुप