________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
५९
बोधकत्वमिति दिक, ४ । विध्यात्मना मुख्यविषयतावच्छिन्ना या उभयात्मना युगपदवक्तव्यत्वमुख्यविषयता तद्वान् बोधः पश्चमस्य भङ्गस्य फलम् , ५ । निषेधात्मना मुख्यविषयतावच्छिन्ना या उभयास्मना युगपदवक्तव्यत्वविषयता तद्वान् षष्ठस्य,६। क्रमादुभयमुख्यविषयताद्वयावच्छिन्नाऽवर विषयताकः सप्तमस्य, ७ ।
अत्र सप्तभङ्गयामित्थं नयविभागमुपदिशन्ति श्रीसिद्धसेनदिवाकरपादाः"एवं सत्तविअप्पो वयणपहो होइ अत्थपज्जाए । वंजणपज्जाए पुण सविअप्पो णिव्विअप्पो अ" ॥
-[सम्मतिप्रथमकाण्डे गाथा-४१ ] एवम्- अनन्तरोक्तप्रकारेण, सप्तविकल्पः- सप्तभेदः, वचनपथो भवति, अर्थपर्याये- अर्थनये सङ्ग्रहव्यवहारर्जुसूत्रलक्षणे, तत्र प्रथमो भङ्गः सङ्ग्रहे सामान्यग्राहिणि, द्वितीयस्तु 'नास्ति' इत्ययं व्यवहारे विशेषग्राहिणि, ऋजुसूत्रे तृतीयः, चतुर्थः सव-ह-व्यवहारयोः, पञ्चमः सङ्घहर्जुसूत्रयोः, षष्ठो व्यवहारर्जुसूत्रयोः, सप्तमः सङ्ग्रह-व्यवहारर्जुसूत्रेष्विति । प्रयोगश्चैतैश्चतुर्थ-तृतीययोर्व्यत्ययेनेष्यत इति न तृतीये दर्शयति-विध्यात्मनेति-स्पष्टम् । षष्ठभङ्गस्य फलमुपदर्शयति-निषेधात्मनेति- व्यक्तमदः । सप्तमभङ्गस्य फलमुपदर्शयतिक्रमादिति । उभयेति- अस्तित्व-नास्तित्वोभयेत्यर्थः । सप्तभङ्गीवाक्यं कुत्र नये सम्पूर्ण प्रवर्तते, कुत्र नयेऽन्यथेत्यत्र सिद्धसेनदिवाकरपादैरुपदर्शितो नयविभाग एव कान्त इत्याकलयन् ग्रन्थकार आह अत्रेति । इत्थम् एवं सत्तविअप्पो' इतिगाथयाऽनन्तरमभिधीयमानप्रकारेण । एवं सत्त० इति- “एवं सप्तविकल्पो वचनपथो भवत्यर्थपर्याये व्यञ्जनपर्याय पुनः सविकल्पो निर्विकल्पश्च" ॥ १ ॥ इति संस्कृतम् । विवृणोति- एवमिति । नैगमस्य सङ्ग्रह-व्यवहारयोरेवान्तर्भावः श्रीसिद्धसेनदिवाकरपादानां मते ततोऽर्थनयास्त्रय एव सङ्ग्रह -व्यवहारर्जुसूत्राः, तत्र को भङ्गः कस्मिन्नर्थनये ? इत्यपेक्षायामाह-तत्रेति- समह-व्यवहारर्जुसूत्रलक्षणेष्वित्यर्थः । 'स्यादस्त्येव' इत्येवंस्वरूपः प्रथमो भङ्गः सामान्यपाहिणि सङ्ग्रहनये भवतीत्याह-प्रथम इति । 'स्यान्नास्त्येव' इत्येवंस्वरूपो द्वितीयो भङ्गो विशेषग्राहिणि व्यवहारे प्रवर्तत इत्याह-द्वितीयस्विति । 'स्यादवक्तव्य एव' इति तृतीयो भङ्ग ऋजुसूत्रनये प्रवर्तत इत्याह-ऋजुसूत्रे तृतीय इति । यथा च तृतीयभङ्गस्य ऋजुसूत्रनय एव प्रवृत्तिर्न सङ्ग्रह व्यवहारयोस्तथाऽत्रैव ग्रन्थकारो दर्शयिष्यतीति । 'स्यादस्त्येव स्यानास्त्येव च' इति चतुर्थभङ्गः सङ्ग्रह व्यवहारयोः प्रवर्तत इत्याह-चतुर्थः सङ्गह-व्यवहारयोरिति । 'स्यादस्ति स्यादवक्तव्यश्च' इति पञ्चमो भङ्गः सङ्ग्रहणुसूत्राभ्यामुपजायत इत्याह-पञ्चमः सङ्ग्रहर्जुसूत्रयोरिति । 'स्यान्नास्ति स्यादवक्तव्थश्च' इति षष्ठो भङ्गो व्यवहारर्जुसूत्राभ्यामात्मलाभमासादयतीत्याह-षष्ठो व्यवहार सूत्रयोरिति । 'स्यादस्ति स्यान्नास्ति स्यादवक्तव्यश्च' इति सप्तमो भङ्गः सङ्ग्रहव्यवहारर्जुसूत्रैरुपजायत इत्याह - सप्तमः सङ्ग्रह व्यवहारर्जुसूत्रेष्विति । इतिशब्दः सप्तभङ्गथामर्थनययोजनोपवर्णनसमास्यर्थः । ननु 'स्यादस्त्येव स्यान्नास्त्येव' इति तृतीयो भङ्गः प्रथमं भवता दर्शितः, सच सङ्ग्रह-व्यवहाराभ्यामुपजायत इति, इदानीं तत्स्थाने 'स्यादवक्तव्यः' इति तृतीयो भङ्ग ऋजुसूत्रनयप्रवर्तितो दर्शित इति तत् कथं सङ्गतिमङ्गतीत्यत आह-प्रयोगश्चैतैरिति- श्रीसिद्धसेनदिवाकरपादैः स्यादवक्तव्यः' इतिचतुर्थभङ्ग-'स्यादस्ति स्यान्नास्ति' इतितृतीयभङ्गयोर्व्यत्ययेन तृतीयस्थाने 'स्यादवक्तव्यम्' इति, चतुर्थस्थाने 'स्यादस्ति स्यान्नास्ति' इत्येवं प्रकारेण व्यत्यासेन प्रयोग इष्यत इत्यर्थः । ये च श्रीमद्देवसूरिप्रभृतयः सप्तभङ्गी सम्पूर्णैव सकलादेशस्वभावा विकलादेशस्वभावा चेत्येवमामनन्ति तेषां मते सङ्ग्रह-व्यवहारयोः प्रथम-द्वितीयभङ्गमूलयोः संयोगस्यैव प्रथममुपस्थिततया ततो जायमानस्य 'स्यादस्ति स्यान्नास्ति' इति भङ्गस्यैवोपस्थितिरिति तस्य तृतीयस्थानेऽभिषेकः, ततो विधि-निषेधयोयुगपत्प्राधान्यविवक्षयाऽऽविर्भवनस्वभावस्य 'स्यादवक्तव्यः' इत्यस्य चतुर्थस्थानेऽभिषेक इति । श्रीसिद्धसेनदिवाकरपादानां मते अखण्डार्थत्वात् सप्तभङ्गयां त्रयः सकलादेशाः, सखण्डार्थत्वाच्चत्वारो विकलादेशा अभिमता इत्यखण्डार्थानां 'स्यादत्येव' इति 'स्यान्नास्त्येव' इति 'स्यादवक्तव्य एव' इति भङ्गानां क्रमेण सन्निवेशः, ततो विकलादेशानां चतुर्णा भनानामिति, तथा च तृतीयस्थानेऽभिषिक्ते 'स्यादवक्तव्य एव' इति भङ्गे ऋजुसूत्रनययोजना सम्भवत्येवेत्याह-इति न