________________
१३६
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
यो भावो विनाशशब्देनोच्यते, अयं च भावरूपत्वात् तात्त्विकः साधनस्वभाव एव विनाशः कार्योत्पत्तिकाले च निवर्तत इति, कार्यभिन्नकालभावेन च सर्वकालमस्य सद्भावो भावस्यासत्त्वात् , यद्वा विनाशोऽस्य ( स्यास्तीति ) विनाशीति व्युत्पत्तेरविनाशिव्यावृत्तो भाव एव नाश उच्यत इति न दोषः । तदेवं क्षणिकाः सर्वे स्वपर्यायाः, त एवार्थक्रियाकारित्वेन सत्या इति निर्मूढम् ॥ १६ ॥ ___ नन्वस्मिन्नेवायं घट इति प्रत्यभिज्ञाऽनुपपत्तिः, भिन्नेषु घटक्षणेष्वेकत्वस्य प्रतिसन्धातुमशक्यत्वात्, न च प्रत्यभिज्ञान प्रमाणम् ,
"तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्जितम् । अदुष्टकारणारब्धं प्रमाणं लोकसम्मतम् " ॥ १ ॥ इति प्रमाणलक्षणयोगात्, ___ न च स्मृतिपूर्वकत्वात् स एवायमिति प्रत्यभिज्ञानस्य प्रत्यक्षत्वमयुक्तमिति शङ्कनीयम् , सत्संप्रयोगजत्वेन स्मरणपश्चाद्भाविनोऽप्यक्षजप्रत्ययस्य लोके प्रत्यक्षेण प्रसिद्धत्वात् , न च पूर्वापरकाल सम्बन्धिद्रव्यस्यैकत्वात् कालस्य चाऽतीन्द्रियत्वात् प्रमेयानतिरेकादस्याप्रामाण्यमिति वाच्यम् , तथापि सोऽयं 'अपास्तम्' इत्यनेनान्वयः। तेन ध्वंसस्य भावव्यतिरिक्तत्वस्याविधानेन, सांव्यवहारिककारणनिवृत्तिरूपत्वस्याभ्युपगमेन च। तेन द्वितीयक्षणोत्पत्तिकाले प्रथमक्षणनिवृत्तिभावेन । अयं च विनाशशब्दवाच्य एकक्षणस्थो भावश्च । साधन स्वभाव एवं कारणस्वभाव एव, कारणात्मैवेति यावत् । यदा च कारणस्वरूपोऽयं तात्त्विक्तो विनाश एकक्षणस्थ एव, कार्यकाले च नश्यति तदाऽस्य नाशस्य कार्यभिन्नकाल एव भावेन कार्यकालेऽसत्त्वान्न सर्वकाले सद्भावः, कारणस्वरूपस्यास्य कारणस्य सर्वदाऽभावेऽस्यापि सर्वदाऽभावादित्याह-कार्यभिन्नकालभावेन चेति । 'सर्वकालमस्य' इति स्थाने 'न सर्वकालमस्य' इति पाठो युक्तः । अस्य साधनस्वभावस्य विनाशस्य । भावस्यासत्त्वात् साधनस्य सर्वकालमसत्त्वात् । भावस्यैव विनाशशब्दवाच्यत्वमतव्यावृत्तिमुखेन दर्शयति - यद्वेति- यथा घटत्ववत्त्वं घटत्वमेव तथा विनाशित्वं विनाश एव, घटत्वादीनां यथाऽघटव्यावृत्त्यादिरूपत्वं तथा विनाशस्याप्यविनाशिव्यावृत्तिरूपत्वम् , पर्यायनये च भावा विनाशिन एवेति भवन्त्यविनाशिव्यावृत्ताः, तत्त्वादेव च नाशरूपत्वमेषां न तु नाशो नामातिरिक्तो भावेभ्य इति हृदयम् । पर्यायार्थिकमते द्रव्यं नास्त्येव, पर्याया एव तु सत्या अर्थक्रियाकारित्वलक्षणसत्त्वयोगादित्युपसंहरति-तदेवमिति। त एव पर्याया एव । नियूढं सुव्यवस्थितम् ॥ १६ ॥ ____ सप्तदशपद्यमवतारयति- नन्विति । 'नन्वस्मिन्नेवायं' इत्यस्य स्थाने 'नन्वस्मिन् नये स एवायं' इति पाठो युक्तः । अस्मिन् नये पर्यायार्थिकनये । प्रत्यभिज्ञानुपपत्तौ हेतुमुपदर्शयति-भिन्नेष्विति- एकसन्तानगता ये पूर्वोत्तरकालवर्तिनो घटक्षणास्तेऽन्योऽन्यं भिन्ना एव, तेष्वेकत्वस्यासतः प्रतिसन्धातुमशक्यत्वादित्यर्थः । ननु प्रत्यभिज्ञा न प्रमारूपेति तस्या अनुपपत्तिर्न दोषावहेत्याशय प्रतिक्षिपति-न चेति । प्रमाणस्य यलक्षणमन्यत्र क्लुप्तं तस्य प्रत्यभिज्ञायामपि सत्त्वेन प्रमाणलक्षणयोगात् प्रत्यभिज्ञायाः प्रामाण्यस्यावश्यं स्वीकरणीयत्वादिति निषेधहेतुमुपदर्शयति-तत्रेति । अधिगतार्थाधिगन्तृ. ज्ञानेऽतिव्याप्तिवारणाय 'अपूर्वार्थविज्ञानम्' इति । संशयेऽतिव्याप्तिवारणाय 'निश्चितम्' इति । बाधितार्थविषयके विभ्रमेऽतिव्याप्तिवारणाय 'बाधवर्जितम्' इति । यश्च विपर्ययोऽसदर्थविषयकोऽपि स्वविषयेऽजातबाधः स बाधवर्जितो भवत्येवेति तत्रातिव्याप्तिवारणाय 'अदुष्टकारणारब्धम्' इति । प्रत्यभिज्ञायाः प्रत्यक्षरूपत्वेन प्रामाण्यं मीमांसका अभ्युपगच्छन्ति, तत्र प्रत्यक्षत्वमसहमानस्य वादिन आशङ्कामुद्भाव्य प्रतिक्षिपति-न चेतेि- अस्य 'शङ्कनीयम्' इत्यनेनान्वयः । निषेधे हेतुमाह-सत्संप्रयोगजत्वेनेति- सता वर्तमानेनार्थेन सहेन्द्रियस्य यः संप्रयोग, सन्निकर्षस्तजन्यत्वेनेत्यर्थः, इन्द्रियार्थसंप्रयोगजन्यज्ञानत्वं प्रत्यक्षस्य लक्षणम् , तच्च प्रत्यभिज्ञानेऽपि समस्तीति स्मरणपृष्ठभाविनोऽप्यस्य लोके प्रत्यक्षेण प्रसिद्धत्वात् प्रत्यक्षत्वं स्त्रीकरणीयमित्यर्थः । पूर्वज्ञानेनोत्तरज्ञानेन च यदेव द्रव्यं विषयीक्रियते तदेव प्रत्यभिज्ञानेनापि विषयीक्रियते, कालस्त्वतीन्द्रियत्वादेव न प्रत्यभिज्ञाप्रत्यक्षविषय इति यदेव प्रमाणान्तरस्य प्रमेयं तदेवास्यापि प्रमेयमिति प्रमेयानतिरेकात् प्रत्यभिज्ञानस्य न प्रामाण्यामित्याशय प्रतिक्षिपति-न चेति- अस्य वाच्यम्' इत्यनेनान्वयः। अस्य प्रत्यभिज्ञानस्य । प्रमेयानतिरेकेऽपि मानान्तरानिवर्त्यसंशयनिवर्तकत्वेन प्रत्यभिज्ञानस्य प्रामाण्यमिति निषेधहेतुमुप