________________
२७०
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
Nnnnnnw
तत्पाठात् यो धूमवान् सोऽग्निमानितीव व्याप्त्युपस्थितेरावश्यकत्वादिति भावः ॥ ८८-८९ ॥
एतच्च प्रायिकव्याप्त्यभिधानं तत्त्वार्थटीकाकृन्मतेन, तथा च ते आहुः-" यद्यकस्मिन्न सम्भवति नैतावता भवत्यव्यापिता" [ तत्त्वार्थ० अ० सू० ] इति, एतदेव च सम्प्रदायशुद्धमिति । अत्र मतद्वयमुपन्यस्य दूषयति
आदिष्टजीव-द्रव्याभ्यां, द्रव्यन्यासस्य सम्भवम् । अप्रज्ञाप्ये जिनप्रज्ञानाम्नश्च ब्रुवते परे ॥ ९० ॥ तच्चिन्त्यमुपयोगो यन्नाम द्रव्यार्थिकस्य न। नरादेव्यजीवत्वे, सिद्धे स्याद् भावजीवता ॥ ९१ ॥ आदिष्टद्रव्यहेतुत्वाद्, द्रव्यद्रव्यप्रतिश्रुतौ ।
भावद्रव्यं न किञ्चिद् स्याद, गुणेऽपि द्रव्यताऽर्पणात् ॥ ९२ ॥ नयामृत-आदिष्टेत्यादित्रयेण-परे-आचार्याः, अप्रज्ञाप्ये-वस्तुनि, जिनप्रज्ञारूपनामनिक्षेपस्य सम्भवं ब्रुवते, यत्र न शृङ्गग्राहिकया सङ्केतः कर्तुं शक्यस्तत्र केवलिप्रज्ञैव नाम तयैव तत्कार्यकरणात् , न च नाम शब्दरूपमेवेति, मौनिकृतलिप्यादौ व्यभिचारात्, मनुष्यादिजीव एव भाविदेवादिजीवव्याप्तियत्र न व्यभिचारावकाश इत्याशयः। उत्तरार्द्ध व्याख्यातुमवतारयति-नन्विति । तत्र सामान्यतो व्याप्तौ। अयं तत्तद्वयभिचारस्थानभेदनिवेशलक्षणः, तदेव सामान्यतो व्याप्तेहिकं प्रमाणमेव । उक्तव्याप्तौ प्रमाणभूतमनुयोगद्वारसूत्रमुल्लिखति-यत्थ य० इति-" यत्र च यं जानीयान्निक्षेपं निक्षिपेन्निरवशेषम् । यत्रापि च न जानीयाच्चतुष्टयं निक्षिपेत् तत्र ॥” इति संस्कृतम् । तत्पाठात् उक्तानुयोगद्वारसूत्रपाठात् ॥ ८॥ ८९ ॥ ___ नवतितमपद्यमवतारयति-पतञ्चेति । ते तत्त्वार्थटोकाकाराः । तत्पाठमुल्लिखति-योकस्मिन्निति । एतदेव तत्त्वार्थटीकाकृन्मतमेव । अत्र एतद्विचारे । मतद्वयमुपन्यस्यति-आदिष्टेत्यादिपद्यत्रयेणैकं मतम्, अन्ये स्वित्यायेकपद्येन द्वितीयं मतं चोपन्यासपुरस्सरं दूषणास्पदं विदधातीत्यर्थः । विवृणोति-आदिष्टेत्यादित्रयेणेति-प्रथममतं न्यस्य निरा. करोतीति दृश्यम् । तत्र नवतितमपद्यव्याख्यानं प्रथममधिकरोति-परे आचार्या इति। अत्र परे के ? इत्याकालानिवृत्तये आचार्या इति, अस्य 'ब्रवते' इत्यनेन सम्बन्धः । अप्रज्ञाप्यं किमित्याकालोपशान्तये वस्तुनीति । जिनप्रज्ञानाम्न इत्यस्य विवरणं-जिनप्रज्ञारूपनामनिक्षेपस्येति । जिनप्रज्ञायाः कथं नामत्वमित्यपेक्षायां नामकार्यकारित्वात् तस्या नामत्वमित्याह-योति-यस्मिन् प्रज्ञाप्ये वस्तुनीत्यर्थः । शृङ्गग्राहिकयेति-यथा कश्चिद् गोपो निजस्य गोविशेषस्य गवां समूहे स्थितस्य स्वसम्बन्धित्वावगतये शङ्ख हस्तेन गृहीत्वेयं गौर्मदीयेत्येवं सङ्केत ग्राहयति तथा यत्र वस्तुनि यस्य पदस्य सङ्केतः करणीयस्तद्वस्त्वसाधारणरूपेणोपादाय तत्र पदविशेषस्य सङ्केतकरणं शृङ्गग्राहिकान्यायस्तेनेत्यर्थः। तत्र शृङ्गमाहिकान्यायेन सङ्केतकरणायोग्ये वस्तुनि । केवलिप्रव केवलिनः सर्वज्ञस्य यत् तद् वस्तुविज्ञानं तदेव, एवकारेण तदन्यस्य तत्र नामत्वव्यवच्छेदः । नाम नामनिक्षेपः । तयैव केवलिप्रज्ञयैव । तत्कार्यकरणात् नामनिक्षेपकार्यस्य करणादुत्पादनात् । ननु नाम शब्दस्वरूपं प्रज्ञा तु शब्दानात्मिकेति कथं तस्या नामत्वमित्याशङ्का प्रतिक्षिपति-न चेति । निषेधे हेतुमाह-मौनिकते. ति-मौनव्रतधारिपुरुषकृतं यदक्षरविशेषसङ्केतितरेखाविशेषात्मकं लिप्यादि शब्दानात्मकेऽपि तत्र शाब्दबोधविशेषजनकत्वेन नामत्वस्य भावेन शब्दात्मकत्वस्य तत्राभावेन व्यभिवारान्नाम शब्दरूपमेवेति नियमासम्भवादित्यर्थः । निक्षेपेषु नाम्नः प्राथमिकत्वात् व्यापकत्वशङ्कापनोदकमेव प्रथमं व्याख्येयमित्याशयेनोत्तरार्द्धगतस्यापि तस्य पूर्व व्याख्यानमिति बोध्यम् । व्यनिक्षेपाब्यापकत्वाशङ्कापनोदकमादिष्टेत्यादिकं पर्यवसितभावार्थकथनेन विवृणोति-मनुष्यादिजीव एवेति-स्पष्टम् ।।