________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
पर्यायहेतुत्वाद् द्रव्यजीवो, मृदादिद्रव्यमेव आदिष्टद्रव्यत्वानां घटादिपर्यायाणां हेतुत्वाद् द्रव्यमिति वक्तुं शक्यत्वादिति भावः ॥
२७१
तद् - एतन्मतं, चिन्त्यम्, यद् - यस्माद्, द्रव्यार्थिकस्य नयस्य मते, उपयोगो नाम न भवति, शाब्दबोधनजन काक्षरलिप्यादेरेव तेन नाम्नः स्वीकारादिति द्रव्यार्थिक विषयनिरूपणे केवलिज्ञानरूपं नामातिरिक्तं वाचादिष्टम्, ( अप्रज्ञाप्यवस्तुनि नाम न भवति ), जीवहेतुतया नरादेर्द्रव्यजीवत्वे चाभ्युपगम्यमाने सिद्धे भावजीवत्वं स्यात् तत्रादिष्टे द्रव्यद्देतुत्वाभावादिति संसारिजीवमात्रे भावजीवत्वाभिधायकसिद्धान्तव्याकोपः स्यात् ॥ आदिष्टद्रव्य हेतुत्वाद्धेतोः द्रव्यद्रव्यस्य प्रतिश्रुतौ स्वीकारे च भावद्रव्यं किमपि न स्यात् यदेव भावद्रव्यं स्वीक्रियतेऽन्त्यावयव्यादि, तत्रापि तद्गतगुणे द्रव्यतामर्पयि त्वादिष्टद्रव्यहेतुतया द्रव्यद्रव्यव्यपदेशस्य कर्तुं शक्यत्वात् । किञ्च, स्वसमभिव्याहृत पदार्थतावच्छेदकावच्छिन्नकर्मतानिरूपितकारणताबोधन एव द्रव्यस्य साकाङ्क्षत्वान्मनुष्यो द्रव्यजीव इत्यादि दुर्वचम्, अन्यथा
प्रथमपद्योपदिष्टमतदूषणपरं द्वितीयपद्यं विवृणोति तदिति-अस्य विवरणम् - एतन्मतमिति । एतन्मतस्य चिन्त्यत्वे हेतुमाह-यदिति तदर्थो यस्मादिति । नयस्य मते इति शेषः कृतः । द्रव्यार्थिकमते कुत उपयोगो नाम न भवतीत्याकाङ्क्षायामाह - शाब्दबोधेति - शाब्दबोधजनकं यदक्षरलिप्यादि तस्यैव नाम्नो नामरूपस्य तेन द्रव्यार्थिकनयेन स्वीकारादभ्युपगमादित्येतस्मात् कारणाद् द्रव्यार्थिकनयविषयस्य नाम्नो निरूपणे प्रक्रान्ते केवलिज्ञानं - केवलिसम्बन्धि ज्ञानरूपं नामातिरिक्तमपि वाचादिष्टं-वचनमात्रेणादिष्टं न तु युक्तयुपपन्नम्, कुत्र वाचादिष्टमित्याकाङ्क्षानिवृत्तये - अप्राप्यवस्तुनीति, तन्नाम नामनिक्षेपो न भवतीत्यर्थः । जीवद्देतुतया देवादिजीवकारणत्वेन नरादेर्नरादिपर्यायापन्नजीवस्य द्रव्यजीवत्वे स्वीक्रियमाणे पुनः सिद्धे सिद्धावस्थे जीवे, भावजीवत्वं स्यात् । कथं सिद्धजीवस्यापि भावजीवत्वमित्यपेक्षायामाह -तत्रेतिसिद्धे इत्यर्थः । " आदिष्टे द्रव्यहेतुत्वाभावादिति " अस्य स्थाने " आदिष्टद्रव्य हेतुत्वाभावादिति " इति पाठः समुचितः, आदिष्टद्रव्यस्य जीवत्वेनादिष्टस्य द्रव्यस्य जीवस्य हेतुत्वाभावात् नहि सिद्धपर्यायस्योत्तरं कोऽपि जीवपर्यांयो यत्कारणत्वं सिद्धस्य स्यादित्यर्थः । भवतु सिद्धमात्रस्यैव भावजीवत्वम्, संसारिजोवस्य तु द्रव्यजीवत्वमेव का नो हानिरित्यत आह- संसारिजीवमात्र इति " संसार्यसंसारिजीवमात्रे ” इति पाठः सम्यग् उपयोगलक्षणो जीवः स संसारी सिद्धश्चेत्यादिकस्य संसार्यसंसारिजीवमात्रे भावजीवत्वाभिधायकस्य सिद्धान्तस्य व्याकोपो व्याघातः स्यात् सिद्धमात्रस्य भावजीवत्वाभ्युपगम इत्यर्थः ॥
तृतीयपद्यं विवृणोति - आदिष्टद्रव्य हेतुत्वादिति । प्रतिश्रुतावित्यस्य विवरणं स्वीकारे चेति । नन्ववयवानात्मकावयविखरूपस्य घटादेर्न द्रव्यं प्रति कारणत्वमिति तस्य भावद्रव्यत्वं भविष्यत्यत आह-यदेवेति । अन्त्यावयवित्वमवयवानात्मकावयवित्वम् । तत्रापि अन्त्यावयव्यादिद्रव्येऽपि । तद्गतगुणे अन्त्यावयव्यादिगतगुणे । द्रव्यतामर्पयित्वा गुण-गुणिनोरभेद इत्यभ्युपगन्तृनये गुणिनो द्रव्यत्वे तदभिन्नस्य गुणस्यापि द्रव्यत्वमित्येवं द्रव्यतामर्पयित्वा । आदिष्टद्रव्यहेतुतया आदिष्टद्रव्यं यदवयवादिगतगुणस्तस्य कारणत्वेन । मनुष्यजीवस्य देवात्मकजीवकारणत्वाद् द्रव्यजीवत्वं प्रकारान्तरेण दूषयतिकिश्चेति । स्वमभिव्याहृतेति - " कर्मता " इत्यस्य स्थाने " कार्यता" इति पाठः सम्यग् मनुष्यो द्रव्यजीव इत्यत्र स्वं द्रव्यपदं तत्समभिव्याहृतं जीवपदं तदर्थावच्छेदकं जीवत्वं न तु देवत्वमिति जीवत्वावच्छिन्न कार्यताया अप्रसिद्धत्वाद् देवत्वावच्छिन्नकार्यताया ग्रहीतुमशक्यत्वान्मनुष्यो द्रव्यजीव इति वक्तुमशक्यम्, मृत्पिण्डो द्रव्यघट इति च वक्तुं शक्यते, तत्र स्वं द्रव्यपदं तत्समभिव्याहृतं घटपदं तदर्थतावच्छेदकं घटत्वं तदवच्छिन्न कार्यतानिरूपित कारणत्वस्य मृत्पिण्डे स्वत्वादित्यर्थः । अन्यथा स्वसमभिव्याहृतपदार्थतावच्छेदकावच्छिन्न कार्यतानिरूपित कारणताबोधन एव द्रव्यपदस्य साकाङ्क्षत्वमिति नियमस्या नभ्युपगमे । मृत्पिड इति यथा मृत्पिण्डो द्रव्यघट इति प्रयोगो भवति तथा मृत्पिण्डो द्रव्यपट इति प्रयोगस्यापि प्रसङ्गादित्यर्थः । ननु मृत्पिण्डो द्रव्यघट इत्यस्य घटकारणं मृत्पिण्ड इत्यर्थः, स च घटं प्रति मृत्पिण्डस्य कारणत्वात् सम्भवति, मृत्पिण्डो द्रव्यपट इत्यस्य तु पटकारणं मूत्पिण्ड इत्यर्थः स्यात्, न स सम्भवति, पटं प्रति