________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । प्रागेवोपस्थितौ तहोषताया बाहुलेयत्वात् , तददोषत्वे प्रागनुपस्थितेरेव बीजत्वात् । अपि च मानसत्वादिव्याप्यजातिविशेषेणापेक्षाबुद्धेर्द्वित्वादिहेतुत्वे ईश्वरापेक्षाबुद्ध्या परमाणुद्वित्वाद्यजननापत्तिः, ईश्वरज्ञानसाधारणद्वित्वादिजनकतावच्छेदकजातिस्वीकारे च जन्यसाक्षात्कारत्वादिना सांकर्यम् , त्रित्वाद्युत्पत्तिकाले द्वित्वाद्युत्पत्त्यात्तिश्च दुर्निवारा । एतेन द्वित्वादिजनकतावच्छेदकतयाऽपेक्षाबुद्धिनिष्ठलौकिकविषयत्वस्वीकारोऽपि निरस्तः, परार्द्धादिसंख्यानुत्पत्तिप्रसक्तेश्च तदाश्रययावद्व्यवृत्तिलौकिकविषयताया असम्भवात् । ईश्वरीयापेक्षाबुद्ध्यैव तदुत्पत्त्यङ्गीकारे चान्यत्रापि कारणान्तरोच्छेद इति न किश्चिद् एतद् ” इत्याहुः।
केचित् तु-" द्वित्व-त्रित्वादिकं तुल्यव्यक्तिवृत्तिकमेव सामान्यम् , अनित्यस्य संयोगादेरिव नित्यस्यापि द्वित्वादेर्व्यासज्यवृत्तित्वे विरोधाभावात् । भिन्नेन्द्रियग्राह्याणां रूप-रसादीनामिव सामान्येन्द्रिय-- ग्राह्याणामपि सत्यप्येकावच्छेदेन समानदेशत्वे प्रतिनियतव्यञ्जकव्यङ्गयत्वे विरोधाभावात् , सहचारदर्शन
स्थितं तस्य फलमुखस्यादोषत्वेऽपि यच्च गौरवं पूर्वमेवोपस्थितं सत् कल्पनाप्रतिप्रन्थि तस्य फलमुखस्यापि दोषत्वमेवेति निषेधहेतुमुपदर्शयति-अस्यामिति । तदोषतायाः फलमुखगौरवदोषतायाः । तददोषत्वे फलमुखगौरवस्यादोषत्वे । यच्च, द्वित्वादिजनकतावच्छेदिकां मानसत्वव्याप्या या जातयः, तद्रूपेण चांपक्षाबुद्धर्द्वित्वादिकं प्रति कारणत्वम् , तदपि न समीचीनमित्याह-अपि चेति । मानसत्वव्याप्यजातिविशेषो मनोरूपेन्द्रियजन्यप्रत्यक्ष एवं स्यात्, ईश्वरपेक्षाबुद्धिस्तु नित्यत्वान्न मनोरूपेन्द्रियजन्येति न तत्र मानसत्वव्याप्यजातिरिति कारणतावच्छेदकधर्माऽनाक्रान्तत्वादन्यस्या अपेक्षाबुद्धेः परमाणुगतैकत्वविषयाया अभावात् परमाणुद्वित्वाद्युत्पत्तिर्न स्यात्, यदि चेश्वरज्ञान-तदन्यापेक्षबुद्धिगतमेकं सामान्यमुररीकृत्य तस्यैव द्वित्वादिजनकतावच्छेदकत्वं स्वीक्रियते तदा जन्यसाक्षात्कारत्वादिना तस्य सामान्यस्य साङ्कय दुष्परिहरमेव, जन्यसाक्षात्कारत्वाभाववतीश्वरज्ञाने तस्य सामान्यस्य तदभाववत्यपेक्षाबुद्धयनात्मके जन्यसाक्षात्कारे जन्यसाक्षात्कारत्वस्य तदुभयोश्च जन्यसाक्षात्कारात्मकापेक्षाबुद्धौ समावेशात् , एवमुक्तसामान्येनापेक्षाबुद्धित्विादिकं त्रित्वादिकं च प्रति कारणमित्येकेन केनचिदपेक्षात्मकज्ञानेन यदा त्रित्वादिकमुत्पद्यते तदा द्वित्वादिकमप्युत्पद्येत, तद्रूपकारणस्य सर्वान् प्रत्यविशिष्टत्वाद् विशिष्य कारणान्तरस्यानिरूक्तेरित्याह- ईश्वरापेक्षाबुद्धयेति । ___ 'एतेन इत्यस्य 'निरस्तः' इत्यनेनान्वयः एतेन-त्रित्वायत्पत्तिकाले द्वित्वाद्यत्पत्तिप्रसङ्गेन । निरासे हेत्वन्तरमाह-परा.
दिीति। तदाश्रयेति-परार्द्धसङ्ख्याश्रयेत्यर्थः, परार्द्धसङ्खयाश्रयाणां यावतां द्रव्याणां लौकिकप्रत्यक्षस्यास्मदादीनामसम्भवेन तवृत्तिलौकिकप्रत्यक्षविषयताया असम्भवादित्यर्थः । ईश्वरीयेति-ईश्वरस्य सर्वविषयको लौकिक एव साक्षात्कारः, तदात्मकापेक्षाबुद्धिनिरूपितलौकिकविषयतायाः परार्धादिसङ्ख्याश्रययावद्रव्य वृत्तित्वेन तथाभूतलौकिकविषयताश्रयेश्वरीयापेक्षाबुद्धथैव परार्धादिसङ्खयोत्पत्तिस्वीकारे त्वन्यत्रापीश्वरीयापेक्षाबुद्धिरेव कारणमित्यस्मदाद्यपेक्षाबुद्धेर्द्वित्वादिकारणत्वमुच्छ्येित, अतो द्वित्वादिजनकतावच्छेदकतयाऽपेक्षाबुद्धिनिष्ठलौकिकविषयत्वस्वीकारोऽपि न समीचीन इत्येवं प्रभाकरानुसारिण आहुरित्यर्थः ॥
अन्येषां मतमुपदर्शयति-केचित् त्विति- अस्य 'आहुः' इत्यनेन सम्बन्धः । समानव्यक्तिवृत्तिकं द्वित्वमेकमेव, एवं त्रित्वादिकमपि, तच सामान्यमेवेत्यर्थः। ननु द्वित्वादिकं व्यासज्यवृत्ति, सामान्यं च व्यासज्यवृत्ति न भवतीति कथं द्वित्वादेः सामान्यरूपत्वमत आह-अनित्यस्येति । यदा च द्वित्व-त्रित्वादिकं तुल्यव्यक्तिवृत्तिकं सामान्यरूपं तदा तेषां समानेन्द्रियग्राह्याणां कथं नैकव्यञ्जकव्यजयत्वम् ? कुतः प्रतिनियतव्यञ्जकव्यङ्गयत्वमित्पेक्षायामाह-भिन्नेन्द्रियग्राह्याणामिति । 'सामान्येन्द्रियग्राह्याणामपि' इति स्थाने 'समानेन्द्रियग्राह्याणाम्' इति पाठो युक्तः। ननु समानेन्द्रियप्राह्याणां घट पटादीना प्रतिनियतव्यञ्जकव्यङ्गयत्वं न, किन्त्वेकव्यञ्जकव्यङ्गयत्वमेवेति कथं प्रकृते प्रतिनियतव्यजकव्यङ्गयत्वमित्यन आह- सहचारेति- केषाश्चित् समानेन्द्रियग्राह्याणामेकव्यञ्जकव्यङ्गयत्वदर्शनेन यत्र समानेन्द्रियग्राह्यत्वं तत्रैकव्यजक