________________
૨૭૮
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
विवक्षितमेकेन केनापि भङ्गकेन विशेषिततरमसौ शब्दनयः प्रतिपद्यते, नयत्वा हजुसूत्राद् विशेषिततरवस्तुग्राहित्वाच; स्याद्वादिनस्तु सम्पूर्ण सप्तभङ्गयात्मकमपि प्रतिपद्यन्ते " इति विशेषावश्यकवृत्चावुक्तम् ।
तत्रायं विचारावकाशः-किमियं सप्तभङ्गी अर्थनयाश्रिता ? उत शब्दनयाश्रिता ? आये तदेकतरभङ्ग विशेषणे कथमृजुसूत्राच्छब्दस्य विशेषिततरत्वम् , अर्थनयाश्रितभङ्गस्य शब्दनयाविशेषकत्वात् , उभयेषां विषयविभागस्य दूरान्तरत्वात् , द्वितीयविकल्पे ऋजुसूत्राभिमतार्थपर्यायाविषयत्वेनाशुद्धव्यञ्जनपर्यायप्राहिणः कुतः शब्दस्य विशेषिततरार्थत्वम् ? नहि तदविषयविषयकत्वं विशेषितशब्दार्थः, किन्तु तद्विषयताव्याप्यविषयताकत्वमिति, न चर्जुसूत्राभिमतसत्त्वमुपमृद्यासत्त्वाख्यद्वितीयभङ्गोत्थापनाच्छब्दस्य विषयीभूतधर्माकलितं घटादिकमृजुसूत्रोऽभ्युपगच्छति तदन्यधर्माकलितं घटादिकं भङ्गान्तरेण प्रतिपादयितुं प्रभवति शब्दनय इति सप्तमत्यर्पणं समनुगतमेवमपीत्याशयेनाह-ऋजुसूत्रादिति । ननु ऋजुसूत्रनयो यद्भङ्गात्मकवाक्यमुररीकरोति तदन्यभङ्गात्मकवाक्यमेव शब्दनयोऽभ्युपैति, नैकोऽपि नयः सप्तभङ्गात्मकमहावाक्यं स्त्रीकरोतीति परस्परविरुद्धधर्माभ्युपगन्त्रोर्नययोर्मल्ल-प्रतिमल्लभावेन व्यवस्थिततया अभ्युपगमपदवीमप्राप्तायाः सप्तभङ्गया अर्पणमेव न सम्भवतीत्यत आह-स्थाद्वा. दिनस्त्विति-अस्य 'प्रतिपद्यन्ते' इत्यनेनान्धयः, तथा च स्याद्वादिनः सर्वनयाभिप्रेतान् धर्मानभ्युपगच्छन्तस्तत्तद्धर्मप्रतिपादकतत्तन्नयाभिमतभङ्गसमूहात्मिकां सप्तभङ्गोमुत्थापयितुं प्रभविष्णव एव, त एव च 'एतन्नयाभ्युपगतैतद्भनेनायं धर्मः प्रतिपाद्यते, अयं च धर्म एतन्नयाभ्युपगतेन प्रतिपाद्यते' इत्येवं नययोजनां च कुन्तीति सप्तभनथर्पणं युक्तमेवेति ।
नन्वेवं नयद्वययोजनया नयत्रययोजनया वा सप्तभङ्गी स्थाद्वादिप्रवर्ति । भवति, नयानां चार्थनय-शब्दनयभेदेन द्वैविध्यम् , तथा च सप्तभाया अप्यर्थनयाश्रित-शब्दनयाश्रितभेदेन द्वैविध्यम् , एवं च प्रकृते कस्याः सप्तभङ्या अर्पणम् , न तावदर्थनयाश्रितायाः, तथा सति तद्धटकभङ्गस्य कस्यविजुसूत्रनयाभिमतत्वेऽपि शब्दनयाभिमतत्वाभावेन तदर्पणेन विशेषिततरत्वस्य प्रतिपादनासम्भवात् , नापि शब्दनयाश्रितायाः, तद्धट कभङ्गस्य कस्यविच्छन्दनयाभिमतत्रेऽपि ऋजुसूत्राभिमतत्वाभावेन तदर्पणेन ऋजुसूत्राद् विशेषिततरत्वस्य वक्तुमशक्यत्वात् , तथा च किमत्र तत्त्वमित्याशङ्काशङ्कुसमुन्मूलनाय ग्रन्थकारोऽभिनवविचारपल्लवनद्वारा स्वाभित्रायं प्रकटयितुमाह -तत्रेति- सप्तभकर्षणादृजुसूत्रनयाच्छन्दनयस्य विशेषिततरार्थावगाहित्वे इत्यर्थः । इयमर्पगविषयतयाऽभिमता। आधे अर्थनयाश्रिता सप्तभङ्गी प्रकृते अर्पणविषयतयाऽभिमतेति प्रथमपक्षे । “तदेकतरभङ्गविशेषणे" इति स्थाने " तदेकतरभङ्गविशेषणेन" इति पाठो युक्तः, अर्थनयाश्रितसप्तभङ्गीघटकैकभङ्गविशेषणेनेत्यर्थः, भात्य विशेषगवं स्वार्थद्वारा बोध्यम् । अर्थनयाश्रितवं सप्तभङ्गायाः स्वघटकभङ्गस्यार्थ नयाश्रितत्वादेवेत्यर्थनयाश्रितभङ्गस्यार्थनयविषय एव विषयो न तु शब्दनयविषय इत्यन्यविषयकस्य नान्यविषयविशेषकत्वमित्याह-अर्थनयाश्रितमकस्मेति । य एवार्थनयविषयः स एव यदि शब्दनयविषयोऽपि स्यात् स्यात् तदाऽर्थनयाश्रितभन्नः शब्दनयविषयविशेषकत्वाच्छन्दनयविशेषकः, न चैवमित्याह-उभयेषामिति- शब्दन या ऽर्थनयानामित्यर्थः । दूरान्तरत्वात् अत्यन्तभिन्नत्वात् । द्वितीयविकलो असंगविषयतयाऽभिमता सप्तभङ्गो शब्दनयाश्रितेति द्वितीयपक्षे । शब्दनयाश्रितभङ्ग ऋजुसूत्रविषयार्थपर्यायविषयको न भवति तस्य शब्दनयविषयाशुद्धव्यञ्जनपर्यायविषयकत्वादिति न तेनर्जुसूत्राच्छब्दनयस्यावशेषिततरत्वमित्याह-ऋजुसूत्रेति । यदि तदविषयविषयकत्वं ततो विशेषिततरत्वं स्यात् स्यात् तदा ऋजुसूत्राविषयव्यञ्जनपर्यायविषयकत्वाच्छब्दस्य विशेषितरत्वम् , न चैवमित्याह- नहीति। तर्हि किं विशेषितशब्दार्थ इति पृच्छति-किन्विति । उत्तरयति-तद्विषयतेति- यथा नैगमाद् विशेषिततरत्वं सङ्घहे, यतस्तत्र तत्पदेन नैगमस्य ग्रहणम्, तन्निरूपितविषयता सामान्ये विशेषे च वर्तते, तस्याप्या विषयता सामान्यनिष्ठविषयता तन्निरूपकत्वं सङ्ग्रहे समस्तीति भवति नैगमाद् विशेषिततरत्वं सङ्ग्रहे, एवं नैगमाद् विशषिततरत्वं व्यवहारेऽपि, तत्र नैगमविष यताव्याप्यविशेषनिष्ठविषयताकत्वं समस्तीति, प्रकृते तु ऋजुसूत्रनयनिरूपितविषयताऽर्थपर्यायनिष्ठा, यतः क्रमिकक्षणमात्रस्थायी योऽर्थपर्यायस्तनिष्ठा ऋजुसूत्रनिरूपितविषयता, तद्वयाप्या शब्दनयनिरूपितव्यञ्जनपर्यायनिष्ठविषयता न भवति, अर्थपर्याय-व्यञ्जनपर्याययोरत्यन्तभिन्नत्वेन तन्निष्टविषयत्वयोः सामानाधिकरण्यस्यैवाभावेन व्याप्यव्यापकभावस्य सुतरामभावादिति ऋजुसूत्रविषयताव्याप्यविषयताकत्वाभावाच्छब्दनयस्य नैवर्जुसूत्रादिविशेषिततरत्वमित्यर्थः। प्रकारान्तरेण ऋजुसूत्राच्छन्दनयस्य विशेषिततरत्वसङ्गमन