________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः
ऋजुसूत्राद्विशेषिततरत्वं वक्तुं युक्तम्, एवं सति ऋजुसूत्राभिमतं सत्त्वमुपमृद्या सत्त्वग्रहणव्यापृतस्य व्यवहारस्यापि ततो विशेषिततरार्थत्वापत्तेः, विशेष्यकभङ्गा निर्धारकवचनापत्तेश्चेति; तत्रायमस्माकं मनीषोन्मेषः - पर्यायाश्रिता सप्तभङ्गी सङ्ग्रह - व्यवहारर्जुसूत्रैर्व्यञ्जन पर्यायाश्रिता शब्द- समभिरूढैवम्भूतैः सम्म सूचिता, तथाप्येतत् प्रकारद्वयाभिधान मर्थ- व्यञ्जनसाधारणं पर्यायसामान्याश्रितसप्तभङ्गषा अनुपलक्षणम्, सा च स्व-परपर्यायाणां क्रम-युगपद्विवक्षावशात् नयद्वयेन, शुद्ध-शुद्धतरपर्यायविवक्षया च नयत्रयेणापि सम्भवतीति ऋजुसूत्र - शब्द प्रयुक्तसप्तभङ्गयां द्वितीयादिना, व्यवहारर्जुसूत्रप्रयुक्तायां च तस्यां तृतीयादिना भङ्गेन ऋजुसूत्राच्छब्दस्य विशेषिततरार्थत्वमुक्तम्, न चैवं ऋजुसूत्रस्वीकृत सस्त्रापेक्षया सत्ताप्राहिणो माशङ्कय प्रतिक्षिपति - न चेति - अस्य ' युक्तम्' इत्यनेनान्वयः, ऋजुसूत्राभिमतं यत् सत्त्वं- लिङ्गवचनादिभेदेऽप्यभिन्नस्य क्षणमात्रस्थायिनोऽर्थक्रियाकारित्वलक्षणं सत्त्वं प्रथमभङ्गप्रतिपाद्यम्, तद् उपमृद्य - लिङ्ग-वचनादिभेदे भेदोऽवश्यमेव भवति ततो न तस्य सत्त्वमित्येवं प्रतिक्षिप्य तथाभूतस्य यदत्वं तत्प्रतिपादकभङ्गोऽपि वाच्य वाचकयोरभेदाभ्युपगमतस्तदाख्यः; एवम्भूतो यो द्वितीयभङ्गस्तदुपस्थापनात्, शब्दस्य - शब्दनयस्य, ऋजुसूत्राद्-ऋजुसूत्रनयाद् विशेषिततरत्वं वक्तुम् - अभिधातुं न च युक्तमित्यर्थः । निषेधे हेतुमाह एवं सतीति- उक्तदिशा ऋजुसूत्राच्छब्दस्य विशेषिततरत्वाभ्युपगमे सतीत्यर्थः । यद्यपि स्वरूपसत्त्वं व्यवहारोऽप्यभ्युपगच्छति तथापि यादृशं सत्त्वमृजुसूत्रोऽभ्युपगच्छति न तादृशं सत्त्वं व्यवहारः स्वीकरोतीति तादृशसत्त्वं प्रतिक्षिप्य तादृशसत्त्वाभावलक्षणमसत्वं गृह्णात्येव व्यवहारस्तदालम्बनेन स्यान्नास्तीति द्वितीयभङ्गः प्रवर्तयितुं शक्नोत्येव स इति । तेन द्वितीयभङ्गेन व्यवहारस्यापि ऋजुसूत्राद् विशेषिततरत्वं स्यादित्याह - ऋजु सूत्राभिमतमिति । ततः ऋजुसूत्रात्। एवं च भङ्गमात्रस्यैव तत्तन्नयविषयप्रतिपादकतया स्त्रमूलीभूत न यभिनन य प्रवर्तितभङ्गार्थप्रतिपक्षार्थावेदकत्वेन स्वमूलीभूतनयार्थविशेषकत्वतोऽयमेव भङ्गो विशेषक इति निर्धारणमपि न भवेदित्याह - विशेष्यकेति - 'विशेष्यकभङ्गानिर्धारकवचनापत्तेश्च' इत्यस्य स्थाने 'विशेषकभङ्गनिर्धारकवचनानुपत्तेश्व ' इति पाठो युक्तः ।
इत्थं स्थूलविचारतोऽनुपपद्यमानतामर्पणविषयत्वेनाभिमताया: सप्तभङ्गया उपदश्येदानीं स्वाकूतोपदर्शकं सूक्ष्मविचारं तत्र ग्रन्थकृदुद्भावयति - तत्रेति । अयं ' यद्यपि ' इत्यादिनाऽनन्तरमेव वक्ष्यमाणः । यद्यपीति सङ्ग्रह - व्यवहारर्जुसूत्रैरर्थपर्यायाश्रिता सप्तभङ्गी सम्मतौ सूचितेत्यन्वयः । व्यञ्जनेति-शब्द- समभिरूढैवम्भूतैर्व्यञ्जनपर्यायाश्रिता सप्तभङ्गी सम्म तौ सूचितेत्यन्वयः । एतत् प्रकारद्वयाभिधानम् अर्थ पर्यायात्रित सप्तभङ्गीव्यञ्जनपर्यायाश्रित सप्तभङ्गोद्वयाभिधानं सम्मतिगतम् । अथैति-' अर्थ- व्यञ्जनसाधारणं पर्याय सामान्याश्रित सप्तभङ्गया अनुपलक्षणम्' इत्यस्य स्थाने ' अर्थ-व्यञ्जनसाधारणपर्यायसामान्याश्रितसप्तभतया अप्युपलक्षणम्' इति पाठो युक्तः, तथा च सप्तभङ्गया त्रिधा विभाग एवमायाति - अर्थ पर्यायाश्रिता व्यञ्जनपर्यायाश्रिता पर्यायसामान्याश्रिता च सप्तभङ्गीति । तत्र पर्यायसामान्याश्रिता या सप्तभङ्गी तद्धटको भङ्गः कश्चिदर्थनयविषयीभूतार्थप्रतिपादकः कश्चित् तु शब्दनयविषयीभूतार्थप्रतिपादकोऽपि तत्र यः शब्दनयविषयीभूतार्थप्रतिपादको भङ्गो द्वितीयादिस्तृतीयादिर्वा तेन भङ्गेन शब्दनयस्यर्जुसूत्रनयाद् विशेषिततरार्थत्वम्, तावता विशेषकभङ्गावधारणवचनमपि सम्भवतीत्याह- सा चेति- पर्यायसामान्याश्रिता सप्तभङ्गी चेत्यर्थः अस्य ' सम्भवति ' इत्यनेनान्त्रयः, ' नयद्वयेन' इत्यस्यापि सम्भवति' इत्यनेनान्वयः । नयद्वय प्रयुक्त सप्तभङ्गयां द्वितीयादिना भङ्गेन नयत्रय प्रयुक्त सप्तभञ्ज्यां तृतीयादिना भङ्गेन ऋजुसूत्राच्छन्दनयस्य विशेषितत्तरार्थत्वमित्युपदर्शयति- ऋजुसूत्रेति - ऋजुसूत्रोऽर्थनयः शब्दश्च शब्दन यस्तदुभय प्रयुक्त सप्तभङ्गयामित्यर्थः । 'द्वितीयादिना' इत्यस्य 'भङ्गेन' इत्यनेनान्वयः । 'व्यवहारर्जुसूत्रप्रयुक्तायां च' इत्यस्य स्थाने 'व्यवहारर्जुसूत्र - शब्दप्रयुक्तायां च' इति पाठो युक्तः, व्यवहारर्जुसूत्रावर्थनयाँ शब्दश्च शब्दनयः, एतत्रितयप्रयुक्तायां चेत्यर्थः । तस्यां सप्तभङ्गयाम् । 'द्वितीयादिना' इत्यत्रादिपदात् तृतीयादीनामुग्रहः । ' तृतीयादिना' इत्यादिपदात् पञ्चमादीनामुपग्रहः, ऋजुसूत्र - शब्दप्रयुक्त भङ्गयां स्यादस्तीति प्रथमभङ्ग ऋजुसूत्र विषयप्रतिपादकः स्यान्नास्तीति द्वितीयभङ्गः शब्दनयविषयप्रतिपादकः स्यादवक्तव्य इति तृतीयादयो भङ्गा नयद्वयविषयप्रतिपादका इति द्वितीयादिषु सर्वेषु भङ्गेषु शब्दनयविष (सद्भावाद विशेषकत्वं युक्तम्, व्यवहारर्जुसूत्र शब्दप्रयुक्त सप्तभङ्गयां प्रथमभङ्गो व्यवहारनयविषयप्रतिपादकः, द्वितीयो भङ्ग ऋजुसूत्रनयविषयप्रतिपादकः, तृतीयो भङ्गः शब्दनय
१७९