________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
१७७
इह " कुम्भाकुम्भ० " इत्यादिगाथापश्चार्द्धन षट् भङ्गाः साक्षादुपात्ताः, सप्तमस्तु आदिशब्दात् , तद्यथा-कुम्भः १, अकुम्भः २, अवक्तव्यः ३, उभयत्ति- संश्वाऽसंश्च' इत्युभयम् ४, ' सन्नवक्तव्यः' इत्युभयम् ५, तथा 'असन्नवक्तव्यः' इत्युभयम् ६, आदिशब्दसगृहीतस्तु सप्तमः ‘सन्नसन्नवक्तव्यः' इति ७; अत्रोभयपदस्य समभिव्याहतपदार्थतावच्छेदकद्वयप्रकारकबुद्धिविषये शक्तावपि समभिव्याहारत्रै विध्याद् आवृत्त्या त्रिविधोभयबोध इति न्यायमार्गः, सामान्यशक्तावप्युभयपदादेकदेव समभिव्याहारमहिना त्रिविधविशेष प्रकारको बोध इत्यनभवमार्गः ॥ तदेवं स्याद्वाददृष्टसप्तभेदं घटादिकमर्थं यथा
वचनाद् वाक्यस्वाभाव्यादेव स्यात्पदमेवकारश्च भङ्गमात्रे समनुगच्छतः, तथा च स्यादयं कुम्भ एव इति प्रथमो भगः, स्यादयमकुम्भ एवेति द्वितीयो भङ्गः, इत्येवं दिशा सप्त भङ्गा अत्र ज्ञेयाः । चतुर्थ - पञ्चम- षष्ठभङ्गा उभयधर्मसम्मेलन. समुद्भवा इति 'कुम्भा कुम्भा ऽवत्तवोभयरूवाइ' इत्यत्रोभयपदत: प्रकटिता भवन्तीत्याह- उभयतीति - सामान्यतः सप्तभङ्गी 'स्यादस्ति, स्यान्नास्ति' इत्येवं दिशैव प्रवर्तते, तदनुसन्धानेन 'सँचाऽसँश्व' इत्युभयमित्याद्युक्त्या चतुर्थादिभङ्गामेडनम् , प्रकृताभिप्रायेण तु 'कुम्भश्चाकुम्भश्च' इत्युभयम् , 'कुम्भोऽवक्तव्यः' इत्युभयम्, तथा 'अकुम्भोऽवक्तव्यः' इत्युभयमित्येवमुल्लेखो बोध्यः, सप्तमभङ्गोल्लेखस्तु 'सन्नसन्नवक्तव्यः' इत्यस्य स्थाने 'कुम्भोऽकुम्भोऽवक्तव्यः' इत्येवं ज्ञेयः। ननु 'कुम्भा-ऽकुम्भा-ऽप्रत्तवोभयरूवाइ' इत्यत्रैकस्यैवोभयपदस्य श्रूयमाणत्वेन तस्य समभिव्याहृतपदार्थतावच्छेदकद्वयप्रकारकबुद्धिविषये शक्तत्वेन ततः कुम्भत्वा-ऽकुम्भत्वोभयप्रकारकबोधस्य चतुर्थभङ्गजन्यतयाऽभिप्रेतस्य कुम्भत्वा-ऽवक्तव्यत्वोभयप्रकारकबोधस्य पञ्चमभङ्गजन्यतयाऽभिप्रेतस्याकुम्भत्वा-ऽवक्तव्यत्वोभयप्रकारकबोधस्य वा षष्ठभङ्गजन्यतयाऽभिप्रेतस्यैकस्यैवोत्पादः स्यादेकस्य समभिव्याहारस्यकविधबोधजनन एवं सामादित्यत आह- मत्रोभयपदस्येति । समभिव्याहारत्रैविध्यादिति- कुम्भा ऽकुम्भोभयेति कुम्भा-ऽवक्तव्योभयेति अकुम्भाऽवतव्योभयेत्येवं समभिव्याहार• विध्यादित्यर्थः। ननु सकृदुचरितः शब्दः सकृदेवार्थ गमयतोति नियमादुभयपदस्थ सकृदुच्चरितस्य कुम्भाकुम्भोभयादिसमभिव्याहारेज्वेक एव कश्चित् समभिव्याहारो न तु समभिव्याहारत्रैविध्यमिति कथं त्रिविधोभयबोध इत्यत आहआवृत्त्येति- उभयपदस्य त्रिवारमुच्चारणं क्रियत इत्युच्चारणभेदादुभयपदानि त्रीणि संवृत्तानीति समभिव्याहारत्रैविध्यात् त्रिविधोभयबोधो न्यायमार्गपरिनिष्ठित इत्यर्थः । उभयपदस्य सामान्यत उभयत्वावच्छिन्न एव शक्तिः, न तु समभिव्याहृतपदार्थतावच्छेदकद्वय प्रकारकबुद्धिविषये एवमपि समभिव्याहारमहिम्ना सामान्यशकादप्युभयपदात् कुम्भाउकुम्भोभयत्वप्रकारकस्य कुम्भा-ऽवक्तव्यत्वोभयत्वप्रकारकस्याकुम्भा-ऽवक्तव्यत्वोभयत्वप्रकारकस्य चैकदैव बोधस्यानुभवबलादभ्युपगमविषयत्वमित्याह-सामान्यशक्तावपीति । सप्तभङ्गयर्पणाद् विशेषिततरत्वं शब्दनयस्य ऋजुसूत्राद् यत् प्रकान्तं तन्निगमनपरां विशेषावश्यकोक्किं प्रश्नाति--तदेवमिति। तत् तस्मात् । एवं 'स्यात् कुम्भः, स्यादकुम्भः' इत्येवं प्रकारेण । स्याद्वाददृष्टसप्तभेदम् अनन्तधर्मात्मकवस्त्वभ्युपगमपरस्याद्वादप्रमाणराजाकलितकुम्भत्वा-ऽकुम्भत्वादिसप्तविध. धर्मविशिष्टम् । यथाविवक्षितं स्वपर्यायापेक्षया कुम्भत्वेन विवक्षितं परपर्या यापेक्षयाऽकुम्भत्वेन विवक्षितमित्येवं विवक्षामनतिक्रम्य तत्तद्धर्माकलितम्। एकेन केनापि भड़केन यदा सत्त्वधर्मावलम्बनेन ऋजुसूत्रः स्यादस्तीति भङ्गेन घर्ट प्रतिपादयति तदाऽसत्त्वधर्मावलम्बनेन शब्दनयः स्यान्नास्तीति द्वितीयभङ्गेनासत्त्वधर्मवत्तया विशेषिततरं घटं प्रतिपद्यते
द्वाददृष्टसप्तवर्मवत्तयैव घर किमिति न प्रतिपद्यते शब्दनयः ? एवमपि ऋजुसूत्रात् स्वपर्यायापित. कुम्भत्वैकधर्मालिङ्गितघटाभ्युपगमप्रवणाद् विशेषिततरत्वं शब्दनयस्य स्यात् , एवं सति सप्तभयर्पण दिति हेतुरपि विशे. षिततरत्वे सम्यगुपपद्यते. एकभनेन विशेषिततरवे तु सप्तभनय कदेशकमार्पणस्यैव सप्तभायर्पणत्वेन विवक्षायामपचारेण तदुपपादनं स्यादिसत आह-नयत्वादिति - यदि स्याद्वाददृष्ट सप्तभेदमेव घटादिकं सम्पूर्णया सप्तमाया प्रतिपादनतो विशेषिततरं घटमसौ शन्दनयः स्त्रीकुर्यात् तदा प्रतिधर्म सप्तधर्मप्रतिपादकमसावशेषधर्माकलितवस्तुविषयकं प्रमाणमेव भवेन तु वस्त्वंशग्राहकनयरूपः स्यादतो नयत्वान्यथानुपपत्त्य केनैव केनापि भङ्गेन विशेषिततरं घटादिकं शब्दनयः प्रतिपद्यत इत्यर्थः । यद्भङ्गविषयीभूतधर्मवतया घटादिकमसावभ्युपगच्छति तद्धर्माविशेषितमेव घटादिकमृजुसूत्रोऽभिमन्यत इत्येतावताऽस्यर्जुसूत्राद् विशेषिततरवस्तुमाहित्वेन ततो विशेषिततरत्वमप्युपपद्यत एव, भङ्गसप्तकप्रवृत्तौ सत्यामेव यद्भग