________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
ana
निरक्या. इयमेवानमित्यादिजनकता
..
व्याप्येन्धनवान्' इत्यादावपि सम्भवतीत्यलं दीधिति कृतः वच्छेदिका, नानाप्रकारतादिघटितधर्मस्य जनकताद्यवच्छेदकत्वे गौरवादिति । अथ 'दण्डो रक्तः' इति निर्णयस्य रक्तत्व-दण्डत्वोभयधर्मावच्छिन्नप्रकारताकत्वं जन्यतावच्छेदकमित्यभ्युपगमेऽपि रक्तत्वधर्मितावच्छेदकदण्डत्वप्रकारकनिर्णयजन्ये 'दण्डरत्नवान्' इति विशिष्टवैशिष्ट्य बोधे व्यभिचार इति चेत् ? न- रक्तत्वप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यताशालित्वस्यापि तादृशनिर्णयजन्यतावच्छेदके प्रवेशात् , उक्त. स्थले दण्डत्वप्रकारतानिरूपितरक्तत्वावच्छिन्नविशेष्यताया एव सत्त्वात्, विच्छिन्नप्रकारतां
"
क
वैशिष्टयबुद्धित्वमिति- अस्य 'सम्भवति' इत्यनेनान्वयः, उक्तलक्षणं यद् विशिष्टबुद्धित्वं तद् वहिव्याप्येन्धनवानित्यादावपि सम्भवति,यतोव हिव्याप्तिस्तदभाववदवृत्तित्वरूपा प्रसिद्धव,इन्धनसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकवह्नित्वावच्छिन्नसामानाधिकरण्यरूपायामपि तत्रानवच्छेदकत्वान्तमन्यत्र प्रसिद्धमिति तदात्मकव्याधिकरणधर्मनिष्ठावच्छेदकतानिरूपितवह्नित्वनिष्ठावच्छेदकतानिरूपितेत्यादिक्रमेण तत्तद्धर्मनिष्ठावच्छेदकतानिरूपितेन्धननिष्ठप्रकारतानिरूपकज्ञानत्वं 'वह्निव्याप्येन्धनवान्' इति ज्ञानेऽपि सम्भवतीति तद्रूपेण तस्य कारणत्वं वह्नयनुमितो भ्रमदशायां सम्भवतीति 'वह्निव्याप्पन्धनवान्' इति भ्रमात्मकपरामर्शस्योक्तानुमिति प्रति कार णत्वोपपत्तये प्रकृत हेतुतावच्छेदकनिष्टप्रकारतानिरूपितविशेष्यत्वावच्छेद्यप्रकृतहेतुनिष्टप्रकारतानिरूपितविशेष्यत्वावच्छेद्याधिकरणनिष्टप्रकारतानिरूपितविशेष्यत्व वच्छेद्यवृत्तित्वनिष्टप्रकारतानिरूपितविशेष्यत्वावच्छेद्याभावनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छेद्यप्रतियोगित्वनिष्टप्रकारतानिरूपितविशेष्यत्वाच्छेद्यप्रतियोगित्वसम्बन्धावाच्छिन्नावच्छेदकत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वाच्छेद्याभावनिष्टप्रकारतानिरूपितविशेष्यत्वावच्छेद्याधयत्वसम्बन्धावच्छिन्नसाध्यतावच्छेद कनिष्टप्रकारतानिरूपितविशेष्यत्वावच्छेद्यनिरूपित्वसम्बन्धावच्छिन्नावच्छेदकत्वनिष्टप्रकारतानिरूपितविशेष्यत्वावच्छेद्यनिरूपितत्वसम्बन्धावच्छिन्ननिरूपकत्वनिष्टप्रकारता निरूपितविशेष्यत्वावच्छेद्याधिकरणत्वनिष्टप्रकारतानिरूपितविशेष्यत्वावच्छद्यनिरूपितत्वसम्बन्धावच्छिन्ना धिकरणनिष्टप्रकारतानिरूपितविशेष्यत्वावच्छेद्यवृत्तित्वनिष्ठप्रकारत निरूपितविशेष्यत्वावच्छेद्य हेतुतावच्छेदकसम्बन्धावच्छिन्नहेतुता वच्छेदकधर्मावच्छिन्न हेतुनिष्ठप्रकारतानिरूपितपक्षतावच्छेदक वच्छिन्नपक्षनिष्टविशेष्यताक निश्चयत्वेन खण्डशः प्रसिद्ध या परामर्शस्यानुमिति प्रति कारणत्वमित्यभिप्रायेण दीधितिकृतः खण्डशो निरुत्तया, अलं पर्याप्तम् , तथा निर्वचनस्य न किञ्चित्प्र. योजनमित्यर्थः । इयमेव अनन्तरोपवर्णिता तत्तन्निष्टावच्छेदकतानिरूपितप्रकारत कबुद्धित्वलक्षणा विशिष्ट वैशिष्ट्यबुद्धितैव । दीधितिकृदभितधर्मस्य नानाप्रकारतादिघटितधर्मस्य गुरुभूतत्वनानुमितिजनकतावच्छेदकत्वाभावादित्याह-नानेति । 'प्रकारतादि' इत्यादि पदान्नानाविशेष्यत्वानामुपग्रहः, अनेन च 'विशेष्ये विशेषणम्' इति रीत्या विषयितैवानुमितिप्रवृत्त्यादिजनकताव. च्छेदिकति साम्प्रदायिकमतमपि निरस्तं भवति, तत्र रक्तत्वनिष्ठप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यत्वावच्छेद्यदण्डत्वनिछावच्छेदकतानिरूपितदण्डनिष्ट प्रकारताव बुद्ध रेव 'विशेष्य विशेषणम्' इति रीत्या बुद्धित्वेन तेन रूपेणानुमितिप्रवृत्त्यादिजनकत्वे नानाप्रकारताविशेष्यत्वादिघटित धर्मस्य तदवच्छेकत्वे गौरवं स्याद् उक्तदिशा निरुक्तेन तत्तधर्मनिष्टावच्छेदकतानिरूपितप्रकारताकबुद्धित्वलक्षणविशिष्टयेशिष्ट्यबुद्धित्वेनानुमितिप्रवृत्त्यादिजनकत्वे नानाप्रकारत्व-विशे'यत्वादीनां कारणत्वावच्छेदकघटकत्वाभावाल्लाघवमित्याशयः। ननु रक्तत्वस्वरूपविशेषणतावच्छेदकधर्मप्रकारकदण्डविशेष्यकनिर्णयस्य 'दण्डो रक्तः' इत्याकारकस्य जन्यतावच्छेदकं भवन्मते रक्तत्व दण्डत्योभयपर्याप्तावच्छेदकताकदण्डनिष्टप्रकारताकबुद्धिवलक्षणं रक्तत्वविशिष्टदण्डवैशिष्टयावगाहिवुद्धित्वम् , तद् यथा 'रक्तदण्डवान्' इति बुद्धौ वर्तते तथा रक्तत्वावच्छिन्नविशेष्यकदण्डत्वप्रकारकनिर्णयस्वरूपस्य 'रक्तो दण्डः' इति निर्णयस्य जन्ये 'दण्डरक्तवान्' इति विशिष्टयवैशिष्ट्यबोधेऽपि वर्तत इति सोऽपि 'दण्डो रक्तः' इति रक्तत्वप्रकारकदण्डविशेष्यकनिर्णयजन्यतावच्छेदकाक्रान्तः, स तु रक्तत्वप्रकारकदण्डविशेष्यकनिर्णयमन्तरेणैव रत्तत्वावच्छिन्नविशेष्यकदण्डत्वप्रकारकनिर्णयादुपजायत इति व्यतिरेकव्यभिचारेणोक्तरीत्या विशेषणतावच्छेदकप्रकारकनिर्णय विशिष्ट वैशिष्ट्यबोधयोः कार्यकारणभावे न सम्भवतीति शङ्कते- अथेति । 'दण्डरत्नवान' इत्यस्य स्थाने 'दण्ड (क्तवान्' इति पाठो युक्तः । दण्डत्व रक्तत्वोभयप्तिावच्छेदकताकदण्डनिष्टप्रकारतानिरूपकत्वे सति रक्तत्वनिष्ट प्रकारतानिरूपितदण्डत्वावच्छिन्नविशेप्यताशालिबुद्धित्वस्यैव रक्तत्वनिष्ठप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यलाशालिनिर्णयजन्यतावच्छेदकतया स्वीकारेण 'दण्डरक्तवान् । इति बोधे दण्डत्वनिष्ठप्रकारतानिरूपितरक्तत्वावच्छिन्नविशेष्यतानिरूपके रक्तत्वनिष्टप्रकारतानिरूपितदण्डत्वावच्छिन्न विशेष्यता