________________
३०७
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
चैतन्याभासाङ्गीकारात्, एवमन्त: करणादावपि चैतन्याभासोऽज्ञानगत चैतन्याभासः, अज्ञानगत चैतन्याभासस्तु जीवशब्दप्रवृत्तिनिमित्तम्, तत्तादात्म्यापन्नचैतन्यस्य जीवत्वादिति ।
विवरणाचार्यस्तु मुखान्तरोत्पत्ति, नेच्छन्ति, किन्तु मुखे अधिष्ठानगतभेदमात्रस्य द्विश्वपर्यांयस्यादर्शस्थत्वस्य चानिर्वचनीयस्योत्पत्तिं तावतैव प्रतीत्युपपत्तेर्मुखान्तरकल्पने गौरवात् । न चैवं शुक्तावपि रजतापत्तिर्न स्यात् तादात्म्यमात्रोत्पत्स्यैवेदं रजतमिति धीनिर्वाहोपपत्तेरिति वाच्यम्, तथा सति र्जत
जालमन्यत्रापि चैतन्य उपाधिमाहात्म्यात् प्रतिसन्धीयते - चैतन्यान्तर कल्पकत्वेन प्रतिसन्धीयते इत्येवं न्याययोजनाऽत्र कार्या । यथाऽज्ञाने चैतन्याभासस्तथाऽन्तःकरणादावपि चैतन्याभासः, अन्तःकरणादेरपि कल्पितस्याज्ञानपरिणामत्वादज्ञानत्वमित्यन्तःकरणादिगतचैतन्याभासोऽप्यज्ञानगत चैतन्याभास इत्यनेकजीववादेऽन्तःकरणगत चैतन्याभास तादात्म्यापन्न चैतन्यस्य जीवत्वेऽप्यज्ञानगतचैतन्याभासतादात्म्यापन्नचैतन्यं जीव इति वादो न व्याहन्यत इत्याशयेनाह - एवमन्तःकरणादाव पीति - आदिपदादज्ञानशक्तेरुपग्रहः । कथमज्ञान गत चैतन्याभासस्य जीवशब्दप्रवृत्तिनिमित्तत्वमित्यपेक्षायामाह - तत्तादात्म्या पन्नेति - अज्ञानगतचैतन्या भासतादात्म्यापन्नेत्यर्थः, यथा पशुशब्दस्य लोमवल्लाङ्गूलवति शक्तत्वे शक्यस्वरूपसन्निविष्टत्वालोम वत्त्वस्य पशुपदप्रवृतिनिमित्तत्वं तथा जीवपदशक्याज्ञानगतचैतन्याभासतादात्म्यापन्नचैतन्य स्वरूपसन्निविष्टत्वादज्ञानगतचैतन्याभासस्य जीवशब्दप्रवृत्तिनिमित्तत्वमिति ।
विवरणाचार्यमतमुपदर्शयति- विवरणाचार्यास्त्विति । यदि विवरणाचार्या आदर्शे मुखान्तरोत्पत्तिं नेच्छन्ति तर्हि तत्स्थले किमिच्छन्तीति पृच्छति - किन्त्विति । उत्तरयति - मुख इति - " मुखे अधिष्ठानगतभेदमात्रस्य " इत्यस्य स्थाने " मुखे अधिष्ठाने भेदमात्रस्य " इति पाठः सम्यग्, द्वित्वापरपर्यायस्य भेदमात्रस्य अनिर्वचनीयस्यादर्शस्थत्वस्य च मुखे अधिष्ठाने उत्पत्तिमिच्छन्तीत्यन्वय इच्छन्तीत्यस्यानुकर्षाद् बोध्यः । तावतैव मुखे अधिष्ठाने द्वित्वापरपर्यायभेदमात्रस्यानिर्वचनीयादर्शस्थत्वस्य चोत्पत्त्यैव । प्रतीत्युपपत्तेः आदर्श मुखमिति प्रतीतेरुपपत्तेः । मुखान्तरोत्पत्तिमेव कुतो नेच्छन्तोत्यपेक्षायामाह - मुखान्तरकल्पने गौरवादिति - मुखान्तरकल्पनेऽपि तत्र श्रीवास्थमुखाद् भेद आदर्शस्थत्वं च कल्पनीयमेव, मुखान्तरकल्पनं त्वधिकमिति मुखे द्वित्वस्यादर्शस्थत्वस्य च कल्पनापेक्षया गौरवं व्यक्तमेव । न चेत्यस्य वाच्यमित्यनेनान्वयः । एवं गौरवान्मुखान्तराकल्पने । शुक्तावपीति- शुक्काविदं रजतमिति भ्रमस्थले अन्यथाख्याति - वादिभिर्नैयायिकादिभिरन्यदेशस्थितस्य रजतस्य तादात्म्येन टङ्कशाला स्थरजतगतर जतत्वस्य वा समवायेन शुक्तौ भ्रम उपेयते, वेदान्तिना तु शुक्तिरजतस्यैवानिर्वचनीयस्य शुक्तयज्ञानतस्तदानीमेव चाकचक्यादिदोषसह कृताज्ञानतः शुतावुत्पन्नस्य रजतस्य ख्यातिरुपेयते, यदि चादर्शे नानिर्वचनीयस्य मुखान्तरस्योत्पादः, आदर्शे मुखमिति प्रतीतिरन्यथैवोपपाद्यते, तदा शुक्तावपि रजतोत्पत्तिर्नाभ्युपेया स्यात्, तत्रेदं रजतमिति धियः शुक्तौ रजततादात्म्योत्पत्त्या तदवगाहनत एव सम्भवाद् रजतान्तरकल्पने गौरवस्यात्रापि जागरूकत्वादित्यर्थः । निषेधे हेतुमाह तथा सतीति- शुक्तौ रजतस्योत्पादानभ्युपगमे सतीत्यर्थः । " रजतस्यापरोक्षत्वापत्तेः " इत्यस्य स्थाने " रजतस्यापरोक्षत्वानापत्तेः " इति पाठो युक्तः, रजतस्योत्पादाभ्युपगमे रजतं सन्निकृष्टमिति रजताकारान्तःकरणवृत्यवच्छिन्न चैतन्यरूपप्रमाणचैतन्यस्य शुक्तिरजतावच्छिन्न चैतन्यरूप प्रमेयचैतन्यस्यान्तःकरणावच्छिन्न चैतन्यरूपप्रमातृचैतन्यस्य चेत्येवं चैतन्यत्रयाणामेकदेशस्थितोपाधीनामभेदेन प्रमेयचैतन्यस्य प्रमाणचैतन्याभेदलक्षणं ज्ञानगत प्रत्यक्षलक्षणं घटते, प्रमातृसत्तातिरिक्तसत्ताकत्वाभावलक्षणं विषयगतापरोक्षत्वमपि घटते, यतो वेदान्तमते स्वावच्छिन्नचैतन्यसत्तैव विषयस्य सत्ता, प्रत्यक्षस्थले च प्रमेयचैतन्य- प्रमातृचैतन्ययोरेकदेशस्थितोपाधिकत्वेनैक त्वाद् भवति प्रमातृसत्तैव प्रमेयसत्तेति, रजतस्योत्पादानभ्युपगमे तु शुक्तिदेशे टङ्कशालायन्यदेशगतं रजतं नास्तीतौदमवच्छिन्नचैतन्यं न रजतावच्छिन्नं पुरोवर्तिन्याः शुकेरिदंशब्दप्रतिपाद्यायाः सन्निकृष्टत्वाद् रजतस्यासन्निकृष्टत्वादिति रजताकारान्तःकरणवृत्तिरन्तःकरणदेशगतैव न शुक्तिदेशगता नवा रजतदेशगतेति रजतावच्छिन्नचैतन्येदमवच्छिन्न चैतन्ययोर्भेदे शुक्तिदेशगतस्य प्रमातृचैतन्यस्य शुक्त्यवच्छिन्न चैतन्येन सहाभेदेऽपि रजतावच्छिन्न चैतन्येन सह नाभेदः, एवमिदमाकार वृत्त्यवच्छिन्न चैतन्यस्येदमवच्छिन्नचैतन्यरूपशुक्त्यवच्छिन्न चैतन्येन सदाभेदेऽपि रजताकारवृत्त्यवच्छिन्न चैतन्यस्य रजतावच्छिन्न चैतन्येन सह नाभेद