________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
निदिध्यासनं ३ चेति । श्रवणं नाम - वेदान्तानां शक्ति- तात्पर्यावधारणानुकूलो व्यापारः, श्रुतस्यार्थस्य युक्तितः सन्धानं मननम्, विजातीयप्रत्ययतिरस्कारेण सजातीयप्रत्ययप्रवाहीकरणं निदिध्यासनम् । एतेषां श्रवणं प्रधानम्, इतरे फलोपकार्याङ्गे, श्रोतव्यादिवाक्येषु प्राथमिकत्वात् श्रवणविधेरेवार्थवादिकफल्[ कल्पनयेतरयोस्तत्क]ल्पना क्लेश निवृत्तेः । श्रवणस्य तत्त्वज्ञाने प्रधानभूतशब्दप्रमाणस्वरूपनिर्वाहकतया प्राधान्यम्, असति श्रवणे प्रामाणासंभावनया तत्त्वज्ञानानुदयात्, अत्यन्तानवगतार्थे गृहीतशक्तितात्पर्यकस्य शब्दस्यैव प्रमाजनकत्वात् तन्निर्वाहकस्य श्रवणस्य प्राधान्यमिति तात्पर्यम् । विधिश्वात्र नियमाख्य एव दृष्टादृष्टार्थत्वात् दृष्टस्यापि तत्वज्ञानोपयोगित्वात् । न च, नियमविधिस्थले फले ब्रह्मस्वरूपोपदेष्टारमाचार्यम्, अनुसृतः सन् । श्रवणादीत्यनेन किं ग्राह्यमित्यपेक्षायामाह - श्रवणादिकं त्विति । श्रवणमनन-निदिध्यासनानां क्रमेण स्वरूपात्म कलक्षणमुपदर्शयति- श्रवणं नामेति । वेदान्तानां तत्त्वमसीत्यादिमहावाक्यानाम् । शक्तितात्पर्येति तत्पदस्य मायावच्छिन्न चैतन्ये शक्तिः, त्वम्पदस्यान्तःकरणावच्छिन्नचैतन्ये शक्तिः, शक्यार्थयोर्निरुक्तविशिष्टचैतन्ययोरभेदेनान्वयोऽनुपपन्न इत्यन्वयानुपपत्या जहदजहत्स्वार्थलक्षणया तत्त्वमसीति वाक्यं शुद्ध चैतन्यमेवावबोधयतीति तस्य शुद्धचैतन्य एव तात्पर्यमित्येवं शक्ति- तात्पर्यावधारणानुकूलो य उपक्रमोपसंहारादिषट्तात्पर्यलिङ्गान्वेषणलक्षणो व्यापारः श्रवणमित्यर्थः, उक्तस्वरूपस्य श्रवणस्य कर्तव्यत्वावेदकं तत्स्वरूपावेदकं च पद्यकदम्बकं पञ्चदश्यां यथा
३३६
" इति ।
" अहं ब्रह्मेति वाक्यार्थबोधो यावद् दृढीभवेत् । शमादिसहितस्तावदभ्यसेच्छ्रवणादिकम् ॥ १ ॥ बाढं सन्ति दास्य हेतवः श्रुत्यनेकता । असंभाव्यत्वमर्थस्य विपरीता च भावना ॥ २ ॥ शाखाभेदात् कामभेदाच्छुतं कर्मान्यथाऽन्यथा । एवमत्रापि मा शङ्कीत्यतः श्रवणमाचरेत् ॥ ३ ॥ वेदान्तानामशेषाणामादि-मध्यावसानतः । ब्रह्मात्मन्येव तात्पर्यमिति धीः श्रवणं भवेत् ॥ ४ ॥ मननस्वरूपं प्रकटयति- श्रुतस्येति श्रवणनिष्टङ्कितस्येत्यर्थः । युक्तितः प्रमाण- तर्कोपेतहेतुतः । सन्धानम् अनुमितिविषयकरणम्, यस्य येन रूपेण श्रवणं तस्मिंस्तद्रूपस्यानुमित्यात्मकं यज्ज्ञानं तन्मननमित्यर्थः । निदिध्यासन - स्वरूपमावेदयति-विजातीयेति - अनुमित्यात्मकं यदात्ममननं तद्विजातीयोऽन्यविषयकप्रत्यक्षादिरूपः प्रत्ययस्तस्य तिरस्कारेणअन्तराऽन्तराऽन्यादृशज्ञानजननतो यदात्मानुमितिप्रवाहस्य विच्छेदस्तत्परिहारेणेति यावत् सजातीयप्रत्ययस्यात्मानुमितिप्रत्ययस्य प्रवाहीकरणं - प्रवाहरूपेणावस्थापनं निदिध्यासनमित्यर्थः । एतेषां श्रवण-मनन-निदिध्यासनानां मध्ये । श्रवणं श्रुतिप्रभवात्मज्ञानम् । प्रधानं आत्मसाक्षात्कारलक्षणात्मतत्त्वज्ञानात्मक फलवत्त्वान्मुख्यम्, इतरे मनन-निदिध्यासने । फलोपकार्याने फलमात्मतत्त्वसाक्षात्कारलक्षणं तत्साधनं श्रवणमपि फलवत्त्वात् फलं तद्रूपं यदुपकार्यं प्रधानत्वात् तस्यातदुपकारके, फलवत्सन्निधौ श्रूयमाणमफलं तदनं भवतीति नियमात् । कथं श्रवणस्यैव फलवत्त्वं येन तदङ्गत्वं मनननिदिध्यासनयोरित्यपेक्षायामाह - श्रोतव्या दिवाक्येष्विति - "आत्मा वाsरे श्रोतव्यो मन्तव्यो निदिध्यासितव्यः साक्षात् कर्तव्यः " [ ] इति वाक्येष्वित्यर्थः । प्राथमिकत्वात् प्रथमं श्रूयमाणत्वात् । श्रवणविधेः श्रोतव्य इति विधेः । अर्थवादिकफलकल्पनया अर्थवादोक्तफलकल्पनया । इतरयोः मनन-निदिध्यासनविध्योः । तत्कल्पनाक्लेशनिवृत्तेः फलान्तरकल्पनाप्रयासाभावात् । श्रवणस्य मनन- निदिध्यासनापेक्षया प्राधान्यं व्यवस्थापयति- श्रवणस्येतिअस्य प्राधान्यमित्यनेनान्वयः । कस्मिन् फले प्राधान्यमित्याकाङ्क्षायामाह तत्त्वज्ञान इति। प्रधानभूतशब्दप्रमाणस्वरूपनिर्वाहकत्वमेव श्रवणस्य व्यवस्थापयति- असति श्रवण इति । ननु श्रवणाभावेऽपि शब्दप्रमाणातिरिक्तप्रमाणदेव तत्त्वज्ञानं भविष्यतीति कुतः प्रमाणासंभावनेत्यत आह- अत्यन्तानवगतार्थ इति । तन्निर्वाहकस्य प्रमाजनकशब्दस्वरूपनिर्वाहकस्य । " विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति ॥ तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते ॥ १ ॥ " इति वचनाद् विधेस्त्रैविध्ये श्रवणविधिः किमेतेष्वित्यपेक्षयामाह विधिश्वात्रेति- "दृष्टा दृष्टार्थत्वात् दृष्टस्यापि " इत्यस्य स्थाने " दृष्टादृष्टार्थत्वात्, अदृष्टस्यापि " इति पाठो युक्तः, यथा ब्रीहिनवहन्तीत्यत्र नापूर्वविधिः, प्रमाणान्तराप्राप्तस्य प्रापको विधिरपूर्व विधिरित्युच्यते, तुषविमोकार्थं व्रीहेरवहननं प्रत्यक्षादिप्रमाणेनैवोपलभ्यत इति तत् प्रमाणान्तरप्राप्तमेव किन्तु