________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
साधनान्तरस्य प्रा[ त्य]क्षिकी प्राप्तिस्तत्र सा च न निर्विशेषा आत्मज्ञाने श्रवणातिरिक्तस्याप्राप्तेरिति कथं नियमविधिः, न च त्रीहितुषविमोकत्व पुरस्कारेणावघातातिरिक्तस्येवात्मज्ञानत्व पुरस्कारेण श्रवणातिरिक्तस्य प्रत्यक्षादेः प्राप्तेरदोषफलतावच्छेदकावच्छिन्न साधनान्तर प्राप्ते रपेक्षितत्वात्, अत एवापूर्वापूर्वत्रीहि तुषविमोकोऽपि दलनादिना कर्तुं शक्यत इत्यवघातो नियम्यते, आत्मज्ञानमात्रे प्रत्यक्षादिप्रसन्नियमविध्यादरे च सुखमात्रे साधनान्तरप्राप्तेः " यजेत " [ ] इत्यादावपि तत्प्रसङ्गतः, अत एव न भ्रान्त्या साधनान्तरप्राप्तेरपि नियमविष्यङ्गत्वं 'यजेत' इत्यादावतिप्रसङ्गादेवेति व्रीहीन व हन्यादेवेत्येवंस्वरूपो नियमविधिरेव, अत्र नखविदारणादिनाऽपि तुषविमोकः सम्भवति, नियमविधिना तत्प्रतिक्षेपः क्रियते, अवघाततो वितुषीकृतैरेव व्रीहिभिर्यजेत न तु नखविदारणादिना वितुषीकृतैरिति तथा चावघाततो वितुषीकरणलक्षणदृष्टप्रयोजनमपि भवति, दृष्टफलकयज्ञोपयोग्यदृष्टलक्षणप्रयोजनमपि भवतीत्येवं तत्रत्यनियम विधेर्यथा दृष्टादृष्टार्थत्वम्, तथा प्रकृतेऽपि श्रवणादिनियमविधितो दृष्टमपि प्रयोजनं भवति, अदृष्टमपि प्रयोजनं भवतीति किमत्रादृष्टप्रयोजनमुररीक्रियत इत्यपेक्षायामाह - अदृष्टस्यापीति । न चेत्यस्य व्यवहितेन इति वाच्यमित्यनेन सम्बन्धः । नियमविधिस्थले व्रीहीनवहन्तीत्यादिनियमविधिस्थले । फले तुषविमोकादिलक्षणफले । साधनान्तरस्य अवघातभिन्ननखविदारणादिलक्षणकारणस्य । 'प्रा [त्य]क्षिकी" इत्यस्य स्थाने " पाक्षिकी " इति पाठो युक्तः -
""
1
" विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते ॥ १ ॥ " [ इति वचनात् यदा अवघातो न क्रियते किन्तु नखविदारणादिकमेव विधीयते तदानीं नखविदारणादिलक्षणसाधनान्तरस्य प्राप्तिरस्ति, अतस्तत्प्रतिषेधार्थं नियमविधिराश्रीयते । तत्र श्रवणादिविधिस्थले, सा च न आत्मज्ञानलक्षणफले श्रवणाद्यतिरिक्तसाधनस्य पाक्षिकी प्राप्तिर्न पुनः । कथं नेत्यपेक्षायामाह निर्विशेषेति - " निर्विशेषा आत्मज्ञाने " इत्यस्य स्थाने “ निर्विशेषाऽऽत्मज्ञाने " इति पाठो युक्तः । कथमित्याक्षेपे न कथञ्चिदित्यर्थः तथा चात्मज्ञानार्थं श्रवणादेरत्यन्ताप्राप्तत्वादपूर्व विधिरेवायं भवितुमईतीति भावः । अन्तरा शङ्कामुत्थाप्य प्रतिक्षिपति-न चेति- यथा सामान्यतो ब्रीहितुष विमोकं प्रति अवघातोऽपि कारणं नखविदारणादिकमपि कारणमिति नखविदारणादिसाधनान्तरस्य प्राप्तौ तदानीमवघातस्याप्राप्तौ नियमविधिस्तथा प्रकृतेऽपि सामान्यत आत्मज्ञाने श्रवणमपि कारणं प्रत्यक्षादिकमपि कारणमिति यदा प्रत्यक्षादिनाss. त्मानं ज्ञातुं प्रवर्तते तदानीं प्रत्यक्षादिसाधनान्तरस्य प्राप्तौ श्रवणस्याप्राप्तौ नियमविधिः स्यादिति शङ्कार्थः । “रदोष फल " इत्यस्य स्थाने " रदोषः, फलः " इति पाठो युक्तः । अवान्तराशङ्कानिषेधे हेतुमुपदर्शयति- फलतेति - व्रीहीन वहन्तीत्यत्रावघातरूपसाधनस्य फलतावच्छेदकं तुषविमोकत्वं तदवच्छिन्नस्य तुषविमोकस्य साधनान्तरं नखविदलनादिकं तत्प्राप्तेर्नियमविधिनाऽपेक्षितत्वात् प्रकृते तु श्रवणादिलक्षणसाधनस्य फलतावच्छेदकं निर्विशेषात्मज्ञानत्वं तदवच्छिन्नस्यनिर्विशेषात्मज्ञानस्य साधनान्तरं न प्रत्यक्षादिकं प्रत्यक्षादिप्रमाणतो निर्विशेषात्मज्ञानानुदयादिति साधनान्तरप्राप्यभावे तन्निबन्धनाप्राप्तेरभावान्न नियमविधिसम्भव इत्यर्थः । अत एव फलतावच्छेदकावच्छिन्न साधनान्तर प्राप्तर्नियम विधिनाऽपेक्षितत्वादेव । अपूर्वेतियस्य यस्य व्रीहेर्नखेन विदारणं न सम्भवति तस्याप्यूर्ध्वा घोव्यवस्थित प्रस्तर द्वयकरणकदलनादिना तुषविमोकः सम्भवत्येवेत्येवेति तुषविमोकत्वावच्छिन्ने साधनान्तर प्रात्या तत्प्रतिषेधायावघातो नियम्यत इत्यर्थः । यदि च निर्विशेषात्मज्ञाने - प्रत्यक्षादिप्रमाणान्तरा प्रवृत्तावपि आत्मज्ञानमात्रे प्रत्यक्षादिसाधनान्तरप्रवृत्तित: श्रवणादिविधेर्नियमविधित्वमुपपाद्यते, तदा फलतावच्छेदकावच्छिन्नसाधनान्तर प्रवृत्तेरनपेक्षितत्वं फलजातीयं यत् किञ्चित् फलं प्रति साधनान्तरप्राप्तेरपेक्षितत्वमित्यस्य नियमविध्युपोद्बलकस्य स्वहस्तितत्वेन स्वर्गकामो यजेतेत्यादावपि " यन्न दुःखेन सम्भिन्नं च प्रस्तमनन्तरम् ॥ अभिलाषोपनीतं च तत् सुखं खः पदास्पदम् ॥ १ ॥" [ ] इति वचनलक्षितसुखविशेषलक्षणस्वर्ग जातीयसुखमात्रं प्रति सक्-चन्दन- वनितादिलक्षण साधनान्तरप्राप्तेरपि नियमविध्यतत्वतो नियमविधित्वमेव तस्य प्रसज्येत स्वीकृतस्यापूर्वविधित्वस्योच्छेद एव स्यादि - त्याह- आत्मज्ञानमात्र इति । " तत्प्रसङ्गतः " इत्यस्य स्थाने " तत्प्रसङ्गः " इति पाठो युक्तः, तसिलप्रत्ययस्य सार्वविभक्तिकत्वे तथा पाठोsपि युक्त एव तस्य नियमविधित्वप्रसङ्ग इत्यर्थः । अत एव स्वर्गकामो यजेतेत्यादौ नियमविधित्व
r
३३७