________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलङ्कृतो नयोपदेशः । वादिकेन फलेन फलवत्ताया निर्णयात् तत्संनिधौ श्रुतस्याफलस्य सन्न्यासस्य प्रयाजादिवदङ्गत्वाश्रवणस्यायौक्तिकत्वात् , प्रमाणं च तत्र प्रयाजादिवत् प्रकरणमेव । अथैतदात्मन एव प्रकरणं न श्रवणस्यैवेति चेत् ? न- उपक्रमोपसंहारादिलिङ्गैरात्मनः प्रतिपाद्यत्वप्रतीतेरात्मनः प्रकरणमित्यभिधीयमानेऽप्यङ्गत्वावेदकस्योभयाकाङ्क्षारूपस्य प्रकरणस्यापि सुव्यवस्थितत्वात् , तथाहि- यथा प्रयाजा उपकार्याकाङ्क्षाः प्रधानयागोऽप्युपकारकाकास इत्युभयाकाङ्क्षा प्रयाजानां प्रकरणम् , तथा सन्यासोऽप्युपकार्याकाङ्कः श्रवणमप्युपकारकासमित्युभयाकलाप्रकरणं सन्न्यासस्य, तदेव च श्रवणाङ्गत्वसाधकमिति किमत्रार्थवादिकफलकल्पनाक्लेशेनेति दिक् । तस्मात् युक्तमुक्तं साधनचतुष्टयसम्पन्नः श्रवणाद्यधिकारीति । सोऽयमधिकारी श्रोत्रियं ब्रह्मनिष्टं गुरुमनुसृतः श्रवणादि सम्पादयति । श्रवणादिकं तु-श्रवणं १, मननं २,
आत्मसाक्षात्कारलक्षणफलजनकत्वादशीभूतं तथा संन्यासस्याप्यङ्गित्वमेव न्याय्यम् , तस्याङ्गित्वोपपत्तये फलान्तरमेव कल्पयितुमुचितमित्याशयेनाह- अज्ञानेति- अत्र " अज्ञानाङ्गत्वस्यैव" इत्यस्य स्थाने “अङ्गित्वस्यैव" इति पाठो युक्तः । निषेधे हेतुमाह-श्रवणस्येति । दृष्टार्थत्वात् मनन-निदिध्यासनद्वारा साक्षात्काररूपदृष्टप्रयोजनकत्वात् । यद्यपि आत्मसाक्षात्कारकाम आत्मश्रवणं कुर्यादित्येवमात्मश्रवणस्य फलतया आत्मसाक्षात्कारो न विहितस्तथापि आत्मश्रवणस्यार्थवादिकात्मसाक्षात्कारफलवत्तया फलवत्त्वं समस्त्येवेत्साह- दृष्टेनैवेति । यदा चार्थवादिकफलवत्तया फलवत्त्वं श्रवणस्य निश्चित तदा फलवत्सन्निधौ श्रूयमाणमफलं तदङ्गं भवतीति न्यायात् फलवच्छ्रवणसन्निधौ श्रूयमाणस्य संन्यासस्य श्रवणाङ्गत्वं स्यादेव यथा-स्वर्गकामो दर्श-पूर्णमासाभ्यां यजेतेति विधिना फलवत्तया विहितस्य दर्श-पूर्णमासस्य यागस्य सन्निधौ समिधो यजतीत्यादिविधिना विहिताः प्रयाजाः फलशून्यास्तदङ्गं भवन्तीत्येवं संन्यासस्य श्रमणाङ्गत्वाश्रयणं युक्त्युपेतमेवेत्याह- तत्सन्निधाविति- फलवच्छ्रवणसन्निधावित्यर्थः। “दङ्गत्वाश्रवणस्यौक्तिकत्वात्" इत्यस्य स्थाने " दङ्गत्वाश्रयणस्य यौक्तिकत्वात् " इति पाठो युक्तः । अङ्गाङ्गिभावबोधकानां श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानां षण्णां प्रमाणानां मध्यात् किमत्र प्रमाणं, यद्बलाच्छ्रवणाङ्गत्वं सन्न्यासस्य स्वीकरणीयमित्याकाङ्क्षायामाह-प्रमाणं चेति । तत्र संन्यासस्य श्रवणाङ्गत्वे । ननु यत्र प्रकरणे संन्यासादीनां विधानं तत् प्रकरणमात्मन एव न तु श्रवणस्येति संन्यासस्व प्रकरणादात्माङ्गत्वमेव स्थान श्रवणाङ्गत्वमिति शङ्कते- अथेति । “श्रवणस्यैवेति" इत्यस्य स्थाने "श्रवणस्येति" पाठो युक्तः । समाधत्ते-नेति । उपक्रमोपसंहारादीति- " उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्ग तात्पर्यनिर्णये ॥ १॥" [ ] इति वचनाद् आदिपदादभ्यासादीनां पश्चानां प्रहणम् । लिङ्गैः तात्पर्यलिङ्गैः उपक्रमोपसंहारादिभिः “तत् त्वमसि' [निरा. ३.] इत्यादिव क्यानामात्मन्येवं तात्पर्यमिति निश्चयत उक्तवाक्यत आत्मनः प्रतिपाद्यत्वप्रतीतेस्तादृशवाक्यकदम्बकात्मक: सन्दर्भ आत्मनः प्रकरणमित्येवमभिधीयमानेऽपीत्यर्थः । तथा चैतादृशं प्रकरणं श्रवणस्य नास्तीति भावः, तथापि येन प्रकारेणाङ्गाङ्गिभावोऽवबुध्यते तत् प्रकरणं श्रवणस्यास्तीत्याह- अङ्गत्वावेदकस्येति । उभयाकावारूपप्रकरणस्याङ्गत्वावेदकं दृष्टान्तोपष्टम्भेन भावयति-तथाहीति-- समिधो यजतीत्यादिविधिविहितानां प्रयाजानां किञ्चित्फलकामनयाऽविहितानां प्रधानत्वासम्भवात् किञ्चित्फलवकर्मोपकारकत्वमवश्यमेषितव्यमित्युपकार्याकालाः प्रयाजाः, दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेति विधिविहितौ दर्श-पूर्णमासयागौ फलकामनया विहितत्वात् प्रधानौ भवतोऽपि कथमेतौ कर्तव्यावितीति कर्तव्यताकालाशालिस्वादुपकारकाकालावित्येवमुभयाकालालक्षणप्रकरणेन यथा प्रयाजानां दश-पूर्णमासयागाङ्गत्वम् , तथा च समिदादिभिर्दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेत्येवं विधिस्वरूपं निराकाई सम्पद्यते, तथा संन्यासेन किं भावयेदित्येवं संन्यासस्यास्त्युपकार्याकाङ्क्षा, श्रवणं कथं भावयेदिति श्रवणस्याप्यस्त्युपकारकाकाङ्केत्येवमुभयाकाङ्घारूपप्रकरणात् सन्यासस्य श्रवणाङ्गत्वम्, एवं च प्रधानीभूतश्रवणफलेनैव संन्यासस्य फलवत्त्वोपपत्तन तस्यार्थवादिकफलकल्पनाक्लेशो विधेय इत्यर्थः । उपसंहरति-तस्मादिति । एवम्भूतः श्रवणाधिकारी कथं श्रवणादि सम्पादयतीत्यपेक्षायामाह- सोऽयमधिकारीति- अस्य सम्पादयतीत्यनेनान्वयः । श्रोत्रियम् अध्ययनाध्यापनादिना यथावच्छ्रत्यर्थज्ञातारम् । ब्रह्मनिष्ठं शुद्धचैतन्यस्वरूपं ब्रह्मैव सत्यं तदन्यन्मिथ्येत्येवं ब्रह्मैकश्रद्धम्। गलं