SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । ३८१ तदित्यर्थः, दैवपरिणतस्यैवात्मनः कालादिपरिपाकेन पुरुषकारपरिणतिः, अभेदोपपत्तिरित्यर्थः, प्रधानगुणभावत इति- कार्यविशेषेऽन्यतरस्य बह्वल्पव्यापारापेक्षया, जात्या तु- " अब्भन्तर-बज्झाणं " इत्यादिना प्रबन्धेन देव-पुरुषकारयोस्तुल्यप्राधान्यमुपपादितमस्माभिरध्यात्ममतपरीक्षायामिति विस्तरार्थिना तत्र दृष्टिदया । तदेवं पञ्चकारणीनये हेतुद्वयनये वा सुदैववत् पुरुषकारस्य कार्यमानहेतुत्वान्मोक्षेऽपि हेतुत्वं ध्रुवम् । स च ग्रन्थिभेदानन्तरं- " तदू बाध्यते दैवं प्रयोजनं तु विजृम्भते" ] इति वचनाद् देवं बाधित्वा स्वातन्त्र्येण प्रवर्तमानो रत्नत्रयमयत्वमास्कन्दंश्चेतसः पुष्टिशुद्ध्यनुबन्धं विधाय सद्य एव मुमुक्षोर्मोक्षमपर्यति । तेन ' चारित्रक्रियाया अप्यभव्य-दूरभव्यादौ व्यभिचारात् । " संवरनिर्जरारूपो बहुप्रकारस्तपोविधिः शास्त्रे । रोगचिकित्साविधिरिव कस्यापि कथञ्चिदुपयुक्तः ॥" इत्यनेन प्रतिपुरुषं नानाविधक्रियाया अनियतहेतुत्वदर्शनस्याहेतुत्वपर्यवसायकत्वाच्च न मोक्षो. पायवादो ज्यायान् , इत्यपास्तम् , पुष्टिशुद्ध्यनुबन्धाभिव्य[]भाव चारित्रत्वजातिमतः पुरुषकारस्य मोक्षं णामयोगिन आत्मनो या कालादिपरिपाकेन पुरुषकाररूपेण परिणतिः साऽभेदोपपत्तिः, पूर्वकृतं कमैव कालादिभिः परिपक्वं सत् पुरुषकाररूपं भवत्येतदेव देवपुरुषकारयोरभेदोपपत्तिरभेदसमर्थनमित्यर्थ इत्यर्थः, देवपुरुषकारयोरुभयोरपि कार्यमा प्रति कारणत्वे व्यवस्थिते सति यत्किञ्चित्कायें प्राधान्येन दैवस्य कारणत्वं देवमात्रजन्यं कार्यमेतदितिव्यवहारनिबन्धनं तत्र गुणभावेन पुरुषकारस्य कारणत्वं, यच्च कुत्रचित् कार्ये प्राधान्येन पुरुषकारस्य कारणत्वं पुरुषकारमात्रजन्यं कार्यमेतदितिव्यवहारनिबन्धनं, तत्र गुणभावेन देवस्य कारणत्वमित्येवं प्रधान गुणभावत इत्येवंरूपेण देवपुरुषकारकारणत्वं कार्यविशेष क्वचित्कायें, अन्यतरस्य देव-पुरुषकारयोर्मध्यादेकस्य बह्वल्पव्यापारापेक्षया यस्मिन् कायें देवस्य बहुसंख्यको व्यापारः, पुरुषकारस्य त्वल्पसंख्यको व्यापारस्तस्मिन् कार्ये देवस्य प्राधान्येन कारणत्वं पुरुषकारस्य तु गुणभावेन कारणत्वम् , यत्र च पुरुषकारस्य बहुसंख्यको व्यापारो देवस्य स्वल्पसंख्यको व्यापारस्तत्र कार्ये पुरुषकारस्य प्राधान्येन कारणत्वं देवस्य तु गुणभावेन कारणत्वमित्यर्थः । यदा तु व्यापारगतबह्वल्पसंख्ययोर्न विवक्षा तदानीं कार्यमा सामान्यतः समप्राधान्येनैव दैव-पुरुषकारयोः कारणत्वं प्रवचनोपपादितमवसेयमित्याह-जात्या त्विति । उपदिशति-विस्तरार्थिनेति । तत्र अध्यात्ममतपरीक्षायाम् । उपसंहरति- तदेवमिति । पञ्चकारणीनये काल-स्वभाव-नियति-देव-पुरुषकाराः पञ्चापि कार्यमात्रे कारणमिति मते । वा अथवा । हेतुद्वयनये कार्यमाने देव-पुरुषकारौ कारणमिति मते । “सुदैववत्" इत्यस्य स्थाने " दैववत्" इति पाठो ज्ञेयः । मोक्षेऽपि हेतुत्वं ध्रुवं मोक्षस्य कार्यमात्रान्तर्गतत्वेन तत्रापि दैववत् पुरुषकारकारणत्वं निश्चितम् । स चेत्यस्य मोक्षमर्पयतीत्यनेन सम्बन्धः। स च पुरुषकारश्च । व प्रन्थिभेदोत्तरकाले। "प्रयोजनं" इत्यस्य स्थाने “ योजनं" इति पाठो भवतुमर्हति, योजनं प्रयत्नः । स्वातन्त्र्येण प्रवर्तमान इत्यादिक पुरुषकारस्य विशेषणं बोध्यम् । सद्य एक चेतसः पुष्टि शुद्धयनुबन्धविधानान्यतरकाल एव । तेनेत्यस्य 'अपास्तम् ' इत्यनेन सम्बन्धः। चारित्रक्रियायास्तावन्मोक्षकारणत्वं न सम्भवति, अभव्य दूरभव्यादौ चारित्रक्रियायाः सत्त्वेऽपि मोक्षस्याभावेन व्यतिरेकव्यभिचारादित्याह-चारित्रक्रियाया अपीति । संवर-निर्जरारूपतपोविधेरपि न मोक्षोपायत्वमित्याह-संवरेति । इत्यनेन उक्तवचनेन । प्रतिपुरुषं पुरुषं पुरुषं प्रति । अनियतहेतुत्वदर्शनस्य कस्यचित् पुरुषस्यैका क्रिया मोक्ष प्रति कारणं पुरुषान्तरस्य तदन्या क्रिया मोक्षं प्रति कारणमित्येवमनियतहेतुत्वबोधनस्य । अहेतुत्वपर्यवसायकत्वात तक्रियाया अभावेऽपि क्रियान्तरेण मोक्षस्य भावेन व्यतिरेकव्यभिचारेण न मोक्षत्वावच्छिन्नं प्रति सा क्रिया कारणमेवं क्रियान्तरस्याभावेऽपि तरिक्रयया मोक्षस्य भावेन व्यतिरेकव्यभिचारेण क्रियान्तरमपि न मोक्षत्वावच्छिन्नं प्रति कारणमित्येव. मकारणत्वपर्यवसायकत्वात् । चः समुच्चये । मोक्षोपायवादः मोक्षं प्रति कस्यचित् कारणत्वाभ्युपगमवादः । न ज्यायान्
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy