________________
३८० नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । "जो दिव्वेण पखित्तो तहा तहा हन्त पुरिसकारु त्ति। तत्तो फलमुभयजमवि भन्नइ खलु पुरिसकाराओ॥१॥ एएण मीसपरिणामिए उजं तंमि तं च दुगजण्णं । दिव्वाउ णवरि भन्नइ णिच्छयओ उभयज सव्वं ॥२॥"
[बीजादिविंशतिका ] अत्र मिश्रपरिणामिन इत्यस्यानुत्कटत्वेन परिणामित इत्यर्थः। ननु यत्र भोजकादृष्टेन भोजनं भोक्तृव्यापार विनैवोपनामितं तत्र भोक्तृयत्नस्यानुत्कटोऽपि क इव व्यापार इति चेत् ? तदीयचेष्टात्वावच्छिन्ने तदीययत्नत्वेन हेतुत्वात् सामग्र्युपनायकोऽपि मुखप्रक्षेपादिरूप एव, प्रापकादृष्टेन आकस्मिकधनप्राप्त्यादिस्थलेऽपि प्रतिग्रहादियत्नोऽवर्जनीय एव, किं बहुना ? यत्र व्यक्त्या यलो न कोऽपि दृश्यते तत्र देवाक्षेपकभवान्तरीययत्नेनाप्युभयोस्तुल्यकक्षात्वमुपपादनीयम्, प्रधान-गुणभावस्यापेक्षिकत्वेन तद्बाधकत्वात् , तदुक्तम्" पुवकयं कम्म चिय चित्तविवागमिह भन्नई दिव्वो। कालाइएहि तप्पायणं तु तहपुरिसकारु त्ति ॥१॥ इय समणीइयोगा इयरेयरसंगया उ जुज्जन्ति । इय दिव्व पुरुसगारा पहाण-गुणभावओ दो वि ॥२॥"
[बीजादिविंशतिका ] देवम् आर्षत्वात् पुंस्त्वम् , कालादिभिस्तत्परिपाचनमिति- कृदभिहितन्यायात् कालादिभिः परिपकं
केवलान्वयिनो देवमात्रजन्यत्वेनाभिमते सत्त्वान्न व्याघात इत्यर्थः । उक्ताभिप्रायकहरिभद्रसूरिवचनसंवादमुपदर्शयतितदिदमभिप्रेत्योक्तमिति । जो दिव्वेण० इति- "यो देवेन प्रक्षिप्तस्तथा तथा हन्त पुरुषकारोक्तिः। तत् ततः फलमुभयजमपि भण्यते खलु पुरुषकारतः ॥ एतेन मिश्रपरिणामिनस्तु यत् तन्मात्रं च द्वयजन्यम् । दैवात् तु नवरं भण्यते निश्चयत उ नयजं सर्वम् ॥” इति संस्कृतम् । ननु मिश्रपरिणामिनस्तु यत् तत् कथं देवमात्रजन्यमित्यत आह-अत्रेतिउक्तहरिभद्रसूरिवचने । “परिणामित" इत्यस्य स्थाने "परिणामिन" इति पाठो युक्तः । सर्वस्य पुरुषकारजत्वमसहमानः शङ्कते- नन्विति । उत्तरयति- तदीयचेष्टात्वावच्छिन्न इति । सामग्युपनायकोऽपि सामग्यनुमापकोऽपि । मुखप्रक्षेपादिरूप एवेति- मुखे भक्तादेहस्तादिना प्रक्षेपादिरपि तदीयचेष्टात्वावच्छिन्न एव तं प्रत्यपि तदीययत्नत्वेन यत्नस्य कारणत्वाद् यत्नरूपकारणमन्तरेण निरुक्तचैप्टव न सम्भवतीति तदीयचेष्टारूपकार्येण तत्कारणीभूतस्तदीयप्रयत्नोऽनुमीयत एवेति प्रयत्नलक्षणपुरुषकारस्य न तत्र व्यभिचार इत्यर्थः, अन्यत्रापि पुरुषकारस्य व्यभिचारमपाकरोति-प्रापकाहोनेति-धनप्रापकदैवेनेत्यर्थः, प्रापकादृष्टेनापि प्रतिग्रहादियत्नसहकृतेनैव धनप्राप्तिरिति पुरुषकारस्तत्राप्यस्तीति न व्यभिचार इत्यर्थः । यत्र न कोऽपि यत्न इदानीमुपलभ्यते तत्रापि देवस्य कारणतयाऽभ्युपगतस्य कारणं जन्मान्तरीयप्रयत्नोऽपि तत्कारणं भवत्येवेति न तत्रापि कार्ये पुरुषकारस्य व्यभिचार इत्याह - किंबहुनेति । उभयोः दैव-पुरुषकारयोः । तुल्यकक्षत्वं समानयोगक्षेमत्वम् । ननु यत्र यत्नो न दृश्यते तत्र जन्मान्तरीयस्य यत्नस्य सद्भावेऽपि तस्य गौणत्वमेव, प्राधान्येन त्वदृष्टस्यैव कारणत्वमित्यत आह-प्रधान-गुणभावस्येति- किञ्चित्कार्ये दैवस्य प्राधान्यं पुरुषकारस्य गुणभावः, क्वचित् कार्ये पुरुषकारस्य प्राधान्यं दैवस्य गुणभाव इत्येवं प्रधान-गुणभावस्यापेक्षिकत्वेन पुरुषकारकारणत्वाबाधकत्वादित्यर्थः, अत्रापि हरिभद्रसूरिव वनं संवादकमुपदर्शयति- तदुक्तमिति । पुवकयं ति- “पूर्वकृतं कर्मैव, चित्रविपाकमिह भण्यते दैवम् । कालादिकैस्तत्पाचनं तु तथा पुरुषकार इति ॥ इति समयनीतियोगाद् इतरेतरसङ्गतौ तु युज्यते । इति देवपुरुषकारौ प्रधान-गुणभावतो द्वावरि ॥” इति संस्कृतम् । दिवो इत्यस्य संस्कृतं देवमिति- एवं सति नपुंसकेन भाव्यमिति दिव्वो इत्येवं पुलिंगवचनं कथमित्यपेक्षायामाह- आर्षत्वात् पुंस्त्वमिति । कालादिभिरिति- "कृदभिहितो भावो द्रव्यवत् प्रकाशते” इति न्यायबलात् कालादिभिः परिपाचनमित्यस्य कालादिभिः परिपक्वमित्यर्थ इत्यर्थः, तथापुरुषकार इतीत्यस्य फलितमर्थमावेदयति-दैवपरिणतस्यैवेति. यस्यात्मनो दैवरूपः परिणामः प्रथमतोऽभवत् तस्यैव देवरूपपरि. .