________________
३८२
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
प्रति नियतहेतुताया अप्रत्यूहत्वात्, पुष्टिशुद्ध्यनु बन्धे च प्रणिधानाद्यन्विततत्कृक्रियाणामनियतहेतुत्वेऽपि तद्विधीनामारोग्यहेतुधातुसाम्ये तत्तचिकित्साविधीनामिवानुपपत्त्यभावात् । यत् पुनः उच्यते- पूर्व निर्गुणस्य सतः सम्यक्त्वादिप्राप्तौ किं तदनन्तरं नानाविधगुणोपायान्वेषणेति तत् तुच्छम् , पूर्वसेवायां मृदूपायसाध्यायां तादृग्गुणानपेक्षायामपि महाविद्यालाभस्थानीये चारित्रे विशिष्टगुणापेक्षाया आवश्यकत्वात्, अस्तु वा स्वसामग्रीप्रभवानां गुणानामवर्जनीयत्वमेवानन्तरमपेक्षा । किञ्च, सकलशिष्टैकवाक्यतया यम-नियमादौ मुमुक्षोः प्रवृत्तिरेव मोक्षोपायत्वे मानम् , तदुक्तम्-- " विफला विश्ववृत्तिों न दुःखैकफलापि च । दृष्टलाभफलेनापि विप्रलम्भोऽपि नेदृशः ॥ १॥"
[ कुसुमाञ्जलिस्तबक० श्लो० ] इत्यादि । न श्रेष्ठतमः । इति एवं स्वरूपमाशङ्कनम् । तेन पुरुषकारस्योक्तदिशा मोक्षत्वावच्छिन्नं प्रति हेतुत्वव्यवस्थापनेन । अपास्तं निरस्तमित्यर्थः । तेनेत्यनेनोपदिष्टमेव निरासकारणं स्पष्टप्रतिपत्तये उपदर्शयति - पुष्टीति- चेतसः पुष्टिशुद्धयनुबन्धेनाभिव्यङ्गयाया भावचारित्रत्वलक्षणजातिस्तद्वतः पुरुषकारस्येत्यर्थः, अप्रत्यूहत्वात् बाधलक्षणविघ्नरहितत्वात् “तत्कृ" इत्यस्य स्थाने “तत्त” इति पाठो युक्तः । तद्विधीनां पुष्टिशुद्धयनुबन्धार्थ तत्तत्कियाविधायकशास्त्रवचनानाम् , अस्यानुपपत्यभावादित्यनेनान्वयः । अत्र दृष्टान्तमाह- आरोग्येति- धातूनां कफ-पित्त-वायूनां मध्यादेकस्य द्वयोस्त्रयाणां वा वैषम्ये कफप्रभव पित्तप्रभव-वायुप्रभवरोगाणां कफ-वायुद्वयप्रभव-कफपित्तोभयप्रभव-पित्तवायूभयप्रभवरोगाणां कफपित्त. वायुत्रयप्रभवरोगस्य वा प्रादुर्भावो भवति, निरुक्तधातुत्रयाणां साम्ये तु निरुक्तरोगविनाशलक्षणमारोग्यमुपजायत इति आरोग्यजनक यद् धातुसाम्यं तत्र तदर्थम् , तत्तचिकित्साविधीनां तत्तचिकित्साविधायकायुर्वेदवचनानाम् , अनुपपत्त्यभाववत्, पुष्टिशुद्धयनुबन्धार्थमनियतहेतुप्रणिधानाद्यन्विततत्तक्रियाविधायकशास्त्रवचनानामप्यनुपपत्त्यभावादित्यर्थः । अन्यदपि परकीयाक्षेपवचनमुपन्यस्य प्रतिक्षिपति- यत् पुनरिति । उच्यते परेणाभिधीयते । पूर्व सम्यक्त्वादिगुणप्राप्तितः प्राकाले । निर्गुणस्य सम्यक्त्वादिविशिष्टगुणरहितस्य, सतः तथावस्थितस्य जीवस्य । सम्यक्त्वादिप्राप्तौ सम्यक्त्वादि. गुणप्राप्तौ सत्याम्। किं किमर्थम् । तदनन्तरं सम्यक्त्वादिगुणप्रायनन्तरम् । तत् तुच्छं नानाविधगुणोपायान्वेषणकैमर्थ्यप्रतिपादकं परवचनं तुच्छं न समीचीनम् । तत्र हेतुमाह-पूर्वसेवायामिति । अथवा नानाविधगुणोपायान्वेषणं न क्रियत एव किन्तु स्वसामग्रीप्रभवा गुणास्तदानीं भवन्त्येवेत्येतावतैव तदपेक्षा गीयत इत्याह- अस्तु वेति । यमनियमादौ मोक्षोपायत्वे प्रमाणमप्यस्येवेत्याह- किञ्चति । सकलशिष्टकवाक्यतया सकलशिष्टसम्मततया । उक्ताथै उदयनाचार्यवचनसंवादमाह-तदुक्तमिति। "दृष्टलाभफलेनापि" इत्यस्य स्थाने " दृष्टलाभफला नापि" इति पाठः सम्यग् । उक्तपद्यार्थस्पष्टप्रतिपत्तये तद्रन्थ एवोल्लिख्यते-" अस्तु दृष्टमेव सहकारिचक्र किमपूर्वकल्पनया" इति चेत् , न-विश्ववृत्तितः,“विफला विश्ववृत्तिों न दुःखैकफलाऽपि वा। दृष्टलाभफला नापि विप्रलम्भोऽपि नेदृशः ॥" [ कुसुमाञ्जलिस्तबक- श्लो. ] यदि हि पूर्वपूर्वभूतपरिणतिपरम्परामात्रमेवोत्तरोत्तरनिबन्धनभू, न परलोकार्थी कश्चिदिष्टापूर्तयोः प्रवर्तेत, नहि निष्फले दुःखैकफले वा कश्चिदेकोऽपि प्रेक्षापूर्वकारी घटते, प्रागेव जगत् ; लाभपूजाख्यात्यर्थमिति चेत् ? लाभादय एव किंनिबन्धनाः ? नहीयं प्रवृत्तिः स्वरूपत एव तद्धेतुः, यतो वाऽनेन लब्धव्यं यो वैनं पूजयिष्यति स किमर्थम् , ख्यात्यर्थमनुरागार्थ च, जनो दातरि मानयितरि च रज्यते, जनानुरागप्रभवा हि सम्पद इति चेत् ? न- नीतिनर्मसचिवेष्वेव तदर्थ दानादिव्यवस्थापनात्; त्रैविद्यतपस्विनोऽपि धूर्तबका एवेति चेत् ? न- तेषां दृष्टसम्पदं प्रत्यनुपयोगात्; सुखार्थ तथा करोतीति चेत् , न-नास्तिकैरपि तथाकरणप्रसङ्गात्, सम्भोगवत् ; लोकव्यवहारसिद्धत्वादफलमपि क्रियते वेदव्यवहारसिद्धत्वात् सन्ध्योपासनवदिति चेत् ?, गुरुमतमेतत् , न तु गुरोर्मतम्, ततो नेदमनवसर एव वक्तुमुचितम् ; वृद्धविप्रलब्धत्वाद् बालानामिति चेत् ?, न-वृद्धानामपि प्रवृत्तेः; न च विप्रलम्भकाः स्वात्मानमपि विप्रलभन्ते, तेऽपि वृद्धतरैरित्येवमनादिरिति चेत् ? न तर्हि विप्रलिप्सुः कश्चिदत्र, यतः प्रतारणशङ्का स्यात् ; इदं प्रथम एव कश्चिदनुष्ठायापि धूर्तः पराननुष्ठापयतीति चेत् ? किमसौ सर्वलोकोत्तर एव यः सर्वस्वदक्षिणया सर्वबन्धुपरित्यागेन सर्वसुखविमुखो ब्रह्म