________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
२६१
[तत्रैव सा] इति चेत् ? न-उक्तलक्षण एव भावनिक्षेपविषयाभेदव्यवहारौपयिकरूपराहित्यविशेषणदाने दोषाभावात् , निरूढलक्षणायाः स्वीकारे तु लक्षणाया निरूढत्वज्ञापकं वचनमेव निक्षेपः, तद्विषयविशेष. स्त्वन्यव्यावृत्त्यादिना यथाव्यवहारं स्वीकार्य इति नातिप्रसङ्ग इति दिक् ॥
तच्चित्रं स्थापनेति-तस्य-घटस्य चित्रं-पत्रादिलिखित आकारः स्थापना, तल्लक्षणं चैवं स्मरति" यत् तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणि, लेप्यादिकर्म तत् स्थापनेति क्रियतेऽल्पकालं च ॥"
एतदर्थोऽयं-यत्-वस्तु, तदर्थवियुक्त-भावेन्द्राद्यर्थरहितं, तदभिप्रायेण-तद्बुद्ध्या, करणिःआकृतिः, यच्चेन्द्राद्याकृति लेप्यादिकर्म क्रियते, चशब्दादाकृतिशून्यं चाक्षनिक्षेपादि तत् स्थापनेति, तच्चाल्पकालमित्वर मित्यर्थः, चशब्दाद् यावद्र्व्यभावि च ।
मृद्रव्यमिति-घटकारणीभूता मृदेव द्रव्यघट इत्यर्थः, तल्लक्षणमिदम्
त्यर्थः। द्रव्यनिक्षेपविषयत्वेनेति- अनाद्यनन्तस्वरूपे भवे सम्भाव्यते रूपवत्यादिको निरुक्ताख्याविषयः कश्चिदासीत् भविष्यति वेत्यतीतानागतकालिकवस्त्वात्मनाऽध्यवसिते तस्मिन्नतीतानागतपदार्थविषयकस्य द्रव्यनिक्षेपस्य विषयत्वेन नामनिक्षेपत्वस्य तत्रानिष्टत्वादित्यर्थः । उत्तरयति-नेति । भावेति-यद्यपि द्रव्यनिक्षेपविषयो भावनिक्षेपविषयो न भवति तथापि अयं राजा भावी भूतो वेति प्रतिसन्धाय राजपर्यायकरणे राजपर्यायकार्ये वा द्रव्यराजनि भावनिक्षेपविषयस्य भावराजस्याभेदव्यवहारो भवति, तझ्यवहारोपयिकं यत्तत्कारणत्व- तत्कार्यत्वादिरूपं तद्राहित्यस्योक्तनामनिक्षेपलक्षणे निवेशाद् द्रव्यनिक्षेपविषये रूपवत्याद्याख्यायिकाविषयेऽतिव्याप्तिदोषाभावादित्यर्थः । निक्षेपसामान्यलक्षण एवाभिमतनिक्षेपातिरिक्तनिक्षेपविषयव्यावर्तकविशेषणदानतोऽभिमतनिक्षेपविशेषलक्षणं कर्तुं सुकरमित्याशयनाह-निरूढलक्षणाया इति-अन मूलिका लक्षणा निरूढलक्षणा, सा प्रयोजननिरपेक्षव, सा यस्य पदस्य यत्रार्थे तत्र तत्पदस्य शक्तिरेव स्वीकरणीया किमुक्तलक्षणाभ्युपगमेनेति विवाद प्रदर्शनायोक्तम् - स्वीकारे त्विति - यस्य पदस्य नान्यत्र शक्तिरवधूता तस्य पदस्य शक्यार्थान्तराभावात् तत्सम्बन्धरूपा लक्षणा न सम्भवतीति तस्य पदस्य प्रकृतेऽर्थे शक्तिरेव न निरूढलक्षणा; यस्य पदस्य पुनरन्यार्थे व्यवहारादिना शक्तिः क्लुप्ता तस्य पदस्य क्लुप्तशक्यसम्बन्धत एवान्यार्थोपस्थितिसम्भवान्न तत्र शक्तिः किन्तु प्रयोजनाभावेऽपि अनादितात्पर्यमूलिका लक्षणैव, अनन्यलभ्यो हि शब्दार्थ इति वचनादित्येवं निरूढलक्षणास्वीकारोपष्टम्भिका युक्तिः । एवं सति यन्निक्षेपसामान्यलक्षणमभिमतं तदाह-लक्षणाया इति । निरूढत्वज्ञापकं अनादितात्पर्यमूलकत्वज्ञापकम् । तद्विषयविशेषस्तु निक्षेपविषयविशेषः पुनः, यद्वै लक्षण्यबलादान्तरनामनिक्षेपादिप्रभेदो भवति तादृशो निक्षेपविषयविशेष इति यावत् । अन्यव्यावृत्त्यादिनेति- यस्य निक्षेपस्य यो विषयो व्यवह्रियते तस्य निक्षेपस्य तद्विषयान्यव्यावृत्त्यादिनेत्यर्थः ।
तल्लक्षणं स्थापनालक्षणम् , च पुनः, एवम् अनन्तराभिधीयमानस्वरूपम् , स्मरन्ति प्राचीनाः कथयन्ति, स्मरन्तीत्युक्त्या नेदमभिनवमेव लक्षणं केनचित् कृतं तत्पूर्वमपीत्थमेव केनचित् प्रकाशितमेवं तत्पूर्वमपीति ज्ञापितम् । एतदर्थः " यत्तु तदर्थवियुक्तं" इति पद्यार्थः । अयम् अनन्तरं 'यत्तु०" इत्यादिनाऽभिधीयमानः। यत् त्वित्यत्र यत्पदं यत्किञ्चिद्वस्तुपरामर्शकमित्याह- यद् वस्त्विति । तदर्थवियुक्तमित्यस्य भावेन्द्राद्यर्थरहितमिति विवरणम् , भावेन्द्रादिको य इन्द्रादिशब्दार्थस्तद्रहितं- तच्छून्यमित्यर्थः । तदभिप्रायेणेत्यस्य विवरणं- तद्बुद्धयेति- इन्द्रोऽयमितीन्द्रादिबुद्धयेत्यर्थः । तत्करणीत्यत्र करणीशब्दार्थ आकृतिरित्याह - करणिः आकृतिरिति, तथा च तत्करणीत्यस्ये न्द्राद्याकृति वस्त्वित्यर्थ इत्याह- यच्चन्द्राद्याकृतीति- इन्द्रादेराकृतिराकारो यस्मिन् वस्तुनि तद् वस्तु, इन्द्राद्याकृतीत्यर्थः । तद् वस्तु किमित्यपेक्षायामाह-लेप्यादिकमैति- तथा'च भावेन्द्राद्यर्थरहितं भावेन्द्रादिबुद्धथा इन्द्राद्याकृतिस्वरूपं लेप्यादिकर्म क्रियते तल्लेप्यादिकर्म इन्द्रादिस्थापनेत्यर्थः । चशब्दात् 'यच' इत्यत्र चशब्दात् । आकृतिशून्यमिन्द्राद्याकृतिरहितं च यत् अक्षनिश्चपादि इन्द्रोऽयमिति बुद्धया स्थापितं तदक्षनिक्षेपादि, स्थापना स्थापनानिक्षेपः। तत्र