________________
२१०
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
नन्वेवं निश्चयतः सिद्धस्याजीवत्वे भवद्भिरिष्यमाणे भवतामेव प्रन्थे संसारिसिद्धसाधारणजीयपदार्थाभिधानं कथम् ? इत्याशङ्कायामाह ।
यजीवत्वं क्वचिद् द्रव्य-भावप्राणान्वयात् स्मृतम् ।
विचित्रनगमाकूतात् तज्ज्ञेयं न तु निश्चयात् ॥ ५० ॥ नयामृत-यदिति । यज्जीवत्वं क्वचिद् प्रन्थे, द्रव्यभावप्राणानाम् अन्वयात्-एकीकरणात् स्मृतं संसारि-सिद्धसाधारण्यमिति शेषः, तद् विचित्र:-विविधावस्थो यो नैगमः, तस्याकूतात्-अभिप्रायात् ज्ञेयम्, न तु निश्चयादेवम्भूतनयात्, तथा चैवम्भूतनयेनैव सिद्धमजीवं वयं प्रतिजानीमहे, न तु नयान्तराभिमते न जीवत्वेऽपि विप्रतिपद्यामहे, इति शुद्धा-ऽशुद्धेन नैगमनयेन साधारण जीवत्वाभ्युपगमेऽपि न क्षतिः, इयाँस्तु विशेष:- प्रसिद्धनैगम औदायिकभावोपलक्षितमात्मत्वाख्यं पारिणामिकभावमेव जीवपदप्रवृत्तिनिमित्तमभ्युपैति, तत्तद्विशेषश्च कश्चिदुपचारोपजीवी द्रव्य-भावप्राणान्यतरवत्त्वेनानुगतमौदयिकक्षायिकभावद्वयमिति, नेदं सिद्धान्तार्णवे नयविकल्पकल्लोलवैचिश्यं तत्संप्लवव्यसनिनां विक्षोभावहम् ॥५०॥
सेति सङ्ग्रहस्य शक्तिग्राहकत्वमेव न व्यक्तिमाहकत्वम्, व्यक्तिप्राहकत्वं तु व्यवहारस्यैव, तथा च व्यक्तथा शुद्धचैतन्य यदि सिद्धे जीवपदप्रवृत्तिनिमित्तं तदा व्यवहारत ए सिद्धो जीवो न निश्चयत इत्यनभिमतमेव दिगम्बरस्यासज्यत इत्युत्तराभिसन्धिः। एवं ज्ञानदर्शनयोर्योगपद्याभावन सिद्धेऽपि यदा ज्ञानमभिव्यज्यते तदा न दर्शनमभिव्यज्यते, यदा दर्शनमभिव्यज्यते तदा न ज्ञानमभिव्यज्यत इति व्यक्तया द्विचेतनाशालित्वं न सिद्धेऽपीति सिद्धोऽपि न निश्चयतो जीवः स्यादिति सिद्धस्य द्विवेतनाशालिवेन जीवत्वं निश्चयनयत इत्यपि दिगम्बरस्य व्याहतमेवेत्याह-निश्चयत इति ॥ ४९ ।।
पञ्चाशत्तमपद्यमवतारयति-नन्वेवमिति । एवम् अनन्तरोपदर्शितदिशा । भवद्भिः श्वेताम्बरैः। भवतामेव श्वेताम्बराणामेव । “यजीवत्वं" इति पञ्चाशत्तमपद्यं विवृणोति-यदितीति । एकीकरणात् प्राणधारित्वं जोवत्वमिति लक्षणे द्रव्यप्राण-भावाणसाधारणप्राणत्वेन रूपेणानुगमय्य द्रव्यप्राणभावप्राणयोरुपादानात् । 'संसारि-सिद्धसाधारण्यम्' इत्यस्य स्थाने 'संसारि-सिद्धसाधारणम्' इति पाटो युक्तः, तथा सत्येव तस्य 'जीवत्वम् ' इत्यनेनाभेदेनान्वयो घटते। तथा च सिद्ध-संसारिसाधारणजीवत्वाभिधानस्य विचित्रनगमाकूतप्रयुक्तत्वव्यवस्थितौ च । वयं श्वेताम्बराः । 'नयान्तराभिमतेन' इत्यस्य स्थाने 'नयान्तराभिमते' इति पाठः सम्यग्, तथा च नयान्तराभिमते नैगमनयाभिमते, जीवत्वेऽपि सिद्ध-संसारिसाधारणजीवत्वेऽपि, न तु नैव, विप्रतिपद्यामहे विवादमातिष्ठामहे इत्यर्थः । इति एतस्मात् कारणात् । शुद्धाशुद्धेन नैगमनयः परसङ्ग्रहसमानाभिप्रायः शुद्धद्रव्यं विषयीकरोतीति शुद्धः, अशुद्धव्यग्राहिव्यवहारसमानाभिप्रायस्त्वशुद्धमपि द्रव्यं विषयीकरोतीत्यशुद्ध इति कृत्वा शुद्धाशुद्धेन । साधारणेति- सिद्ध जीवसाधारणेत्यर्थः । न क्षतिः न क्वचिदस्मदभियुक्तनिर्मितग्रन्थे सिद्ध-संसारिसाधारणजीवत्वप्रतिपादके सत्यपि श्वेताम्बराणामस्माकमेवम्भूत. नयसिद्धस्याजीवत्वं स्वीकुर्वतां हानिः। नैगमनयवैचित्र्यं तदवान्तराभिप्रायवैचित्र्योपदर्शनेन समर्थयति-इयाँस्त्विति ।
औदयिकभावोपलक्षितं जीवपदव्युत्तत्तिनिमित्तजीवनलक्षणोदयिकभावोपलक्षितम् । 'तत्तद्विशेषश्च' इति स्थाने 'तद्विशेषश्च' इति पाठः सम्यग् , नैगमविशेषश्चेति तदर्थः । 'भावद्वयम्' इत्यस्यानन्तरं 'जीवपदप्रवृत्तिनिमित्तमभ्युपैति' इत्यनुषज्यते । 'नेदम्' इत्यत्र नो 'विक्षोभावहम् ' इत्यनेनान्वयः । इदम् अनन्तरमेवोपवर्णितं नयामिप्राय. बैचित्र्यम् । अस्यैव शिष्यबुद्धिवेशद्यायोपवर्णनम्-सिद्धान्तार्णवे नयविकल्पकल्लोलवैविध्यमिति-सिद्धान्त एव-जैनागम एव. अर्णवः- समुद्रः, तत्र नयस्य- वस्त्वंशग्राह्यभिप्रायस्य, यो विकल्प:- नैगमादिप्रकारः, स एव कल्लोल:- तरङ्गः, तस्य वैचित्र्यं - नानाप्रभेदस्तदेतत् , तत्संप्लवव्यसनिनां तस्मिन्- निरुक्तसिद्धान्तसमुदे, संप्लवः-मुहुर्मुहुस्तदन्तर्निविष्टतत्त्वज्ञान