________________
१०२
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
व्यभिचारवारणाय तादृशविशेष्यतायां रक्तप्रकारतादिनिरूपितदण्डत्वावच्छिन्नविशेष्यताभिन्नत्वं निवे. शनीयम् ।
'एकत्र द्वयम्' इति विषयिता च प्रकारिताद्वयावच्छिन्नविशेष्यतारूपा, यथा-चैत्रो दण्डी कुण्डलीत्यत्र, न चैवमेकत्र त्रयादिकमप्यतिरिच्येत 'एकत्र द्वयम्' इति सज्ञयैव सङ्ग्रहात्, एवं च 'दण्डी चैत्रो न कुण्डली' इति ज्ञानप्रतिबध्यतावच्छेदिका दण्डप्रकारित्वकुण्डलप्रकारित्वनिरूपितचैत्रत्वावच्छिन्नविशेष्यताकनिश्चयत्वस्या 'चैत्रो दण्डी कुण्डली, दण्डी चैत्रः कुण्डली' इत्युभयत्र सत्त्वात्, उद्देश्यतावच्छेदकत्व-विधेयत्वयोः प्रकारताविशेषत्वात् , तादृशबाधधीप्रतिबध्यतावच्छेदकत्वादेव चास्याश्चैत्रत्वेन रकत्व-दण्डत्वोभयावच्छिन्नविशेष्यता तन्निरूपकबुद्धित्वावच्छिन्नं प्रति दण्डत्वावच्छिन्नविशेष्यतानिरूपितरक्तत्वनिष्टप्रकारताशालिनिर्णयत्वेन कारणत्वम्, 'दण्डो रक्तः प्रमेयः' इति ज्ञाने च प्रमेयत्वनिष्ठप्रकारतानिरूपितरक्तत्व-दण्डत्वोभयावच्छिन्नविशेष्यता दण्डत्वनिष्टप्रकारतानिरूपितरक्तत्वावच्छिन्नविशेष्यत्वाभिन्ना, न तु रक्तत्वनिष्ठप्रकारतानिरूपितदण्डत्वा. वच्छिन्नविशेष्यत्वाभिन्नति 'दण्डो रक्तः प्रमेयः' इति ज्ञानस्य दण्डविशेष्यकर क्तत्वप्रकारकनिर्णयजन्यतावच्छेदकनिरुक्तधर्मानाक्रान्तत्वान्न तत्र व्यभिचार इत्याशयः।।
विशिष्टवैशिष्ट्यबुद्धस्तुरीयं प्रकारम् 'एकत्र द्वयम्' इति रीत्या ज्ञान प्ररूपयति- 'एकत्र द्वयम्' इतीति । 'विशेप्यतारूपा' इति स्थाने 'विशेष्यितारूपा' इति पाठो युक्तः, यथा च अनन्तराभासमानसमानाधिकरणैकज्ञानीयविषयत्वानां मतभेदेनाभेदोऽवच्छेद्यावच्छेदकभावश्च, तथैकज्ञाननिष्टविषयित्वानामपि, तत्र विशिष्टबुद्धौ विशेष्यतया भासमानस्य प्राधान्यं तदाश्रयणेन विशेषणानां प्रवृत्तरिति तद्गतत्वाद् विशेष्यतायाः प्राधान्यम् , तत एव च तन्निरूपितविशेष्यिताया अपि प्राधान्यम् , विशेषणस्याप्राधान्य तद्वतत्वात् प्रकारताया अप्राधान्ये तन्निरूपितप्रकारिताया अप्यप्राधान्यम्, प्रधानाप्रधानयोश्चाप्रधानमवच्छेदकं भवतीति 'एकत्र द्वयम्' इति ज्ञाने प्रकारताद्वयनिरूपितैका विशेष्यतेति प्रकारिताद्वयावच्छिन्नविशेष्यितात्मकविषयितावज्ज्ञानत्वम् ‘एकत्र द्वयम्' इति ज्ञानत्वमित्यर्थः । उदाहरति- यथेति- 'चैत्रो दण्डो कुण्डली' इति ज्ञाने चैत्रस्य विशेष्यत्वं दण्ड कुण्डलयोश्च प्रकारत्वमिति दण्डनिरूपितप्रकारित्वकुण्डलनिरूपित प्रकारित्वदयावच्छिन्नचैत्रनिरूपितविशेष्यिता. वज्ज्ञानत्वं तत्र समस्तीति लक्षणसमन्वयः । ननु यथा 'एकत्र द्वयम्' इति रीत्या ज्ञानं तथा 'एकत्र त्रयम्' इति ‘एकत्र चतुष्टयम्' इत्यादिरीत्याऽपि ज्ञानमित्येवं बहवः प्रकारा 'विशिष्टवैशिष्ट्यबुद्धेः स्युरिति तेषामनुपवर्णनान्यूनत्वमित्याशङ्कय प्रतिक्षिपतिन चेति । 'त्रयादिकम्' इत्यत्रादिपराच्चतुष्टयादेरुपग्रहः । प्रकारिकाद्वयेति प्रकारितात्रयादीनामप्युपलक्षणमिति नानाप्रकारित्वावच्छिन्नविशेष्यितावज्ज्ञानत्वमेवैषामनुगमकलक्षणमिति ‘एकत्र त्रयम्' इत्यादिप्रकाराणामनेनैव सङ्ग्रहान्न न्यूनत्वमिति प्रतिक्षेपहेतुमुपदर्शयति- 'एकत्र द्वयम्' इति सज्ञयैव सङ्गहादिति- एकत्र द्वयमेकत्र त्रयमित्याद्यशेषज्ञानानामेकत्र द्वयमिति संज्ञा, तया निरुक्तसर्वज्ञानानां सङ्ग्रहादित्यर्थः । 'एवं च' इति स्थाने 'इय च' इति पाठो युक्तः,प्रकारिताद्वयाव. च्छिन्नविशेष्यितारूपविषयिता चेति तदर्थः, 'दण्डी चैत्रो न कुण्डली' इति निश्चयनिष्ठदण्डचैत्रत्वोभयावच्छिन्नविशेष्यतानिरूपितकुण्डलाभावत्वावच्छिन्नप्रकारताकनिश्चयत्वावच्छिन्न प्रतिबन्धकतानिरूपित प्रतिबध्यतावच्छेदिका दण्डनिष्टप्रकारतानिरूपितप्रकारित्व-कुण्डलनिष्टप्रकारतानिरूपितप्रकारित्वद्वयावच्छिन्न चैत्रत्वावच्छिन्नविशेष्यतानिरूपितविशेष्यित्वात्मकविषयितेत्यर्थः । अस्या निरुक्तबाधप्रतिबध्यतावच्छेदकतयोररीकारे सति निरुक्तबाधप्रतिबध्यत्वं 'चैत्रो दण्डी कुण्डली' इति ज्ञाने 'दण्डी चैत्रः कुण्डली' इति ज्ञाने च सम्भवति, निरुक्तज्ञानद्वयेऽपि निरुक्तप्रकारिताद्वयावच्छिन्नचैत्रत्वावच्छिन्नविशेष्यतानिरूपितविशेष्यित्वस्य सत्त्वादित्याह-दण्डप्रकारित्वेति । 'कुण्डलप्रकारित्वनिरूपित' इत्यत्र निरूपितत्वमवच्छिन्नत्वरूपम् । 'चैत्रत्वा. वच्छिन्नविशेष्यताकनिश्चयत्वस्या' इत्यस्य स्थाने 'चैत्रत्वावच्छिन्नविशेष्यतानिरूपितविशेष्यितावन्निश्चयत्वस्य' इति पाठो युक्तः । ननु 'चैत्रो दण्डी कुण्डली च' इति ज्ञाने चैत्रस्य विशेष्यत्वं दण्ड-कुण्डलयोश्च प्रकारत्वमिति निरुक्तप्रकारिता. यावच्छिन्नविशेष्यिता तत्र सम्भवति, 'दण्डी चैत्रः कुण्डली' इति ज्ञाने तु दण्ड-चैत्रत्वोभयावच्छिन्नस्य विशेष्यत्वं केवलकुण्डलस्यैव प्रकारत्वमिति कथं तत्र निरुक्तप्रकारिताद्वयावच्छिन्नविशेष्यितेत्यत आह- उद्देश्यतावच्छेदकत्वेति-'दण्डी चैत्रः कुण्डली' इत्यत्र दण्डविशिष्टचैत्रस्योद्देश्यत्वे उद्देश्यतावच्छेदकता या दण्डनिष्ठा सा प्रकारताविशेषरूपा, कुण्डलस्य तत्र विधेयत्वमिति कुण्डलनिष्ठविधेयताऽपि प्रकारताविशेषरूपेति तादृश प्रकारताद्वयनिरूपितप्रकारिताद्वयावच्छिन्नविशेष्यितावन्निश्चयत्वं तत्र समस्तीति 'दण्डी चैत्रो न कुण्डली' इति बाधनिश्चयप्रतिबध्यत्वम् , 'चैत्रो दण्डी कुण्ड ली' इत्यत्र तु दण्ड-कुण्डलयो