________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
संशयाकार एव सः, 'रक्तो दण्डो नवा' इति संशयकालीनो रक्तदण्डवान् इति प्रात्यक्षिकबोध इव रक्तत्वांशे इति द्रष्टव्यम् ।
१००
इदं तु बोध्यम् - किञ्चिद्धर्मावच्छिन्ने यद्विशेषणतावच्छेदकं तत्प्रकारकनिश्चयत्वेनैव हेतुत्वम्, अन्तरा धर्मितावच्छेदका नियन्त्रितस्थले 'दण्डवद्' इत्यादौ तु दण्डत्वादिप्रकारकज्ञानत्वेनैव निर्धर्मितावच्छेदक निश्चयत्वस्य दुर्वचत्वात् तत्प्रवेशवैयर्थ्यांच्चेति ।
'विशिष्टवैशिष्ट्यम्' इति बुद्धित्वं तु रक्तत्वदण्डत्वोभयधर्मावच्छिन्न विशेष्यतानिरूपितप्रकारताशा लिबुद्धित्वम्, कारणता च तत्र दण्डत्वावच्छिन्न विशेष्यता निरूपितर तत्वप्रकारताशालिनिर्णयत्वेन, कार्यता व्यापकत्वस्य विशेषणत्वे त्वित्यर्थः । सः फलीभूतसन्देहः । यत्र विशेषणतावच्छेदकप्रकार कसन्देहस्तत्र तद्गतज्ञानं 'विशेष्ये विशेषणम्' इति रीत्या भवतीत्यत्र दृष्टान्तमाह- 'रक्तो दण्डो नवा' इतीति- रक्तत्वप्रकारकदण्डविशेष्यकज्ञानानन्तरं जायमानो रक्तदण्डवानिति प्रात्यक्षिकबोधो यथा धर्म्यंशे दण्डं तत्र च रक्तत्वमित्येवमवगाहमानो 'विशेष्ये विशेषणम्' इति रीत्या भवतु न तु रक्तत्वविशिष्टदण्डस्य वैशिष्टयावगाही तथा हेतौ साध्यव्यापकोपाधिव्यभिचारसन्देहोऽपि व्यभिचारे उपाधिमुपाधौ साध्यव्यापकत्वमित्येवमवगाहमानो विशेष्ये विशेषणमिति रीत्या भवति न तु साध्यव्यापकत्वविशिष्टोपाधेर्व्यभिचारे वैशिष्टयावगाहीति विशिष्टवैशिष्टयावगाहिबोधत्वलक्षणकार्यतावच्छेदकधर्मानाक्रान्तस्य तस्य साध्यव्यापकत्वरूपविशेषणतावच्छेदकप्रकारकनिश्चयं विना भावेऽपि न व्यभिचार इत्यर्थः ।
यत्र कमपि धर्मं धर्मितावच्छेदकीकृत्य विशिष्टस्वरूपविशेषणसन्निविष्टं विशेषणं विशेषणेऽवगाहते विशिष्टवैशिष्ट्य बुद्धिस्तत्र यद्धर्मावच्छिन्ने यद्धर्मो विशेषणीभवन् विशेषणतावच्छेदको भवति तद्धर्मावच्छिन्न विशेष्यकतद्धर्मप्रकार कनिश्चयत्वेनैव तादृशविशिष्टवैशिष्टयबुद्धिं प्रति कारणत्वम्, यद् विशिष्टस्वरूपं तु नैकं धर्मं धर्मितावच्छेदकी कृत्या परधर्मवैशिष्टयतो निष्पन्नस्वरूपं किन्त्वेकधर्मवद्रूपतया प्रतिभासमानतयैव विशिष्टं तद्वैशिष्टयबुद्धिं प्रति कञ्चिद्धर्मितावच्छेदकम निवेश्यैव विशेषणताव च्छेदकप्रकारकज्ञानत्वेनैव हेतुत्वं न तु तथाविधबुद्धिं प्रति विशेषणतावच्छेदकप्रकारकनिश्चयत्वेन हेतुत्वम्, तदभावनिष्ठप्रकारत्वानिरूपित तन्निष्टप्रकारतानिरूपित किच्चिद्धर्मावच्छिन्न विशेष्यताक ज्ञानत्वमेव तन्निश्चयत्वं तत्संशयत्वविरुद्धं सधर्मितावच्छेदकज्ञानगतमेव, निर्धर्मितावच्छेदकज्ञानगतं तु निश्चयत्वं तु निर्वक्तुमशक्यम्, यतः संशयविरोधिज्ञानस्यैव निश्चयत्वम्, संशयश्च कधर्मिविशेष्यकविरुद्ध भावाभावोभयप्रकारको नियमेन सधर्मितावच्छेदक एव तद्विरोधिज्ञानमपि सधर्मितावच्छेदकमेव भवितुमर्हति एकधर्मविशिष्टवैशिष्टयावगाहिज्ञानं च 'दण्डवद् इति ज्ञानम्', तच्च 'दण्डो न वा' इत्येवं संशयस्वरूपादपि दण्डत्वप्रकारक ज्ञानादुत्पत्तुमर्हतीति तत्कारणावच्छेदककुक्षौ निश्चयत्वनिवेशनं विफलमपीति सूक्ष्मेक्षिकां स्वयं ग्रन्थकृदाहइदं तु बोध्यमिति । 'अन्तरा' इत्यादिकं न पूर्वेणान्वितं किन्तूत्तरेण, यस्य वैशिष्टयं विशिष्टवैशिष्टयतयाऽभिमतं तत् तस्य च तद् विशेषणं तयोर्मध्ये धर्मितावच्छेदको न यत्र समस्ति तादृशस्थले इत्यर्थः तादृशस्थलमेवोपदर्शितम् ' दण्डवद्' इत्यादौ तु इत्यनेन । तत्प्रवेशवैयर्थ्याच्च निश्चयत्वस्य कारणतावच्छेदककुक्षौ प्रवेशस्य वैयर्थ्याच्च तथा च 'दण्डवद्' इत्याकार कदण्डत्वविशिष्टवैशिष्टयबुद्धौ विशेषणतावच्छेद की भूतदण्डत्वप्रकारक ज्ञानत्वेनैव हेतुत्वं न तु दण्डत्वप्रकारकनिर्णयत्वेन, 'रक्तदण्डवान्' इत्यादौ तु किञ्चिद्धर्मावच्छिन्ने दण्डत्वावच्छिन्ने रक्तत्वं विशेषणत्वाद् विशेषणतावच्छेदकमतो दण्डत्वावच्छिन्नविशेष्य करक्तत्वप्रकारकनिर्णयो 'रक्तदण्डत्वान्' इति विशिष्टवैशिष्टयावगाहिबुद्धिहेतुरित्यर्थः ।
विशिष्टवैशिष्ट्यबुद्धेश्चत्वारो भेदा नैयायिकाभिमताः, तत्र 'विशिष्ये विशेषणम्' इति रीत्या यो विशिष्टवैशिष्ट्यबुद्धिप्रकार: उपवर्णित :- 'विशेष्ये विशेषणम्' इति रीत्या बुद्धित्वं 'रक्तत्वाद्यवच्छिन्नप्रकारता निरूपितदण्डत्वाद्यवच्छिन्नप्रकार ताकबुद्धित्वम्' इत्यादिना ग्रन्थेन, 'विशिष्टस्य वैशिष्ट्यम्' इति यो विशिष्टवैशिष्टयबुद्धिप्रकारः स व्यावर्णितः - विशिष्टवैशिष्ट्यबुद्धित्वं तु रक्तदण्डत्वादिविशिष्टपर्याप्तिप्रकारताकबुद्धित्वम्' इत्यादिप्रन्थेन, इदानीम् 'एक विशिष्टेऽपरवैशिष्टयम्' इति रीत्या बोधलक्षणो यो विशिष्टवैशिष्ट्यबुद्धेः प्रकारस्तं व्यावर्णयति - विशिष्टवैशिष्ट्यबुद्धित्वं त्विति - अत्र 'विशिष्टे वैशिष्टय बुद्धित्वं तु' इति पाठो युक्तः । रक्तत्वेति- 'रक्तदण्डः प्रमेयः' इति ज्ञानं रक्तत्वविशिष्टदण्डे प्रमेयत्वस्य वैशिष्टयावगाहि, तत्र रक्तत्व-दण्डत्वोभयधर्मावच्छिन्ना या विशेष्यता सा रक्तदण्डनिष्टविशेष्यता, तन्निरूपिता प्रकारता प्रमेयत्वनिष्ठप्रकारता, तच्छालिबुद्धित्वं तन्निरूपकज्ञानत्वं समस्तीति लक्षणसङ्गतिः । तत्र कीदृशः कार्यकारणभाव इत्यपेक्षायामाह - कारणता चेति । तत्र 'विशिष्ट वैशिष्टम्' इति बुद्धिस्थले । 'रक्तदण्डः प्रमेयो रक्तदण्डो वाच्यो रक्तदण्डो द्रव्यम्' इत्येवं रक्तत्वविशिष्टदण्ड