________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
संशयाभावत्वेन हेतुत्वे गौरवात्, प्रतियोगितावच्छेदकप्रकारकनिश्चयस्य प्रतियोगितावच्छेदकविशिष्टविषयकेऽभावस्य प्रत्यक्षे हेतुत्वं कल्प्यमानमभावांशाप्रवेशेन लाघवात् तादृशज्ञान एव युक्तमिति तद्बलेन निश्चयजन्यतावच्छेदकविशिष्टवैशिष्ट्य विषयतासिद्धेश्च ।
__ "शाकपाकजत्वादौ साध्यव्यापकत्वसन्देहेनाहितो हेतौ साध्यव्यापकत्वव्यभिचारसन्देह उपाधिः" इति दीधित्युक्तस्तु फलीभूतसन्देहे शाकपाकजत्वविशिष्टे साध्यव्यापकस्याविशेषणात्, अन्यथा तु द्रव्यत्वादौ तस्य निश्चयात् तत्र तद्विशेषणे तु साध्यव्यापकत्वांशे 'विशेष्ये विशेषणम्' इति रीत्या प्रतियोगितावच्छेदको विशेषणतावच्छेदकधर्मविशेष एव तत्प्रकारकज्ञानं विशेषणतावच्छेदकप्रकारकज्ञानविशेषः. प्रतियोगितावच्छेदकविशिष्टवैशिष्ट्यावगाहिज्ञानं च विशिष्टवैशिष्ट्यावगाहिज्ञानविशेष इति, एतेन विशिष्टवैशिष्ट्यावगाहिज्ञानविधयैव प्रतियोगितावच्छेदकविशिष्टवैशिष्ट्यावगाह्यभावज्ञानस्य कार्यत्वं विशेषणतावच्छेदकप्रकारकनिर्णयविधयैव च प्रतियोगितावच्छेदकज्ञानस्य कारणत्वं न तु स्वातन्त्र्येण तयोः कार्यकारणभाव इत्यपि लाघवं सुस्पष्टं प्रतीयते । 'हेतुत्वम्' इति पूर्वमुक्तस्य 'युक्तम्' इत्यनेनान्वयः। तद्वलेनेति-प्रतियोगितावच्छेदकविशिष्टवैशिष्ट्य ज्ञाने प्रतियोगितावच्छेदकप्रकारकज्ञानस्य यत् कारणत्वं तद्बलाजम्यतावच्छेदकतया विशिष्टवैशिष्ट्यविषयतासिद्धेरिति तदवच्छिन्ने विशेषणतावच्छेदकप्रकारकनिर्णयस्य सामान्यतः कारणत्वं युज्यत एवेति ।
ननु यदि विशिष्टवैशिष्ट्यावगाहिबुद्धिं प्रति विशेषणतावच्छदकप्रकारकनिश्चयस्य सामान्यतः कारणत्वं तदा 'स श्यामो मित्रातनयत्वाद्, इत्यत्र शाकपाकजत्वमुपाधिः, तद्धि शामत्वलक्षणसाध्यस्य व्यापकं मित्रातनयत्वलक्षणसाधनस्याव्यापकमतः साध्यव्यापकत्वे सति साधनाव्यापकत्वलक्षणोपाधिस्तत्र विद्यते, व्यभिचारानुमान चोपाधेः प्रयोजनम् , तद्यथा- मित्रातनयत्वं श्यामत्वव्यभिचारि श्यामत्वव्यापकशाकपाकजत्वव्यभिचारित्वादिति, अत्र शाकपाकजत्वे श्यामत्वव्यापकत्वनिश्चये तद्व्यभिचारलक्षणहेतुरपि मित्रातनयत्वलक्षणप्रकृततौ निश्चीयते, यदा तु शाकपाकजत्वे श्यामत्वव्यापकत्वसंदेहस्तदा तेन मित्रातनयत्वे श्यामत्वव्यापकव्यभिचारित्वसंदेहः, सोऽयं हेतुसंदेहः साध्यव्यभिचारित्वलक्षणसाध्यसंदेहस्य प्रयोजक इति, स च साध्यव्यभिचारसंदेहो ग्राह्यसंशयविधया व्याप्तिज्ञान प्रतिबन्धक इत्यभिप्रायेण शाकपाकजत्वादौ साध्यव्यापकत्वसंदेहाहितो हेतौ साध्यव्यापकव्यभिचारसंदेह इत्येवमुपाधिग्रन्थे शिरोमणिभट्टाचार्येण यदुक्तं तत् कथं सङ्गच्छते ? साध्यव्यापकव्यभिचारसंदेहस्य साध्यव्यापकत्वविशिष्टवैशिष्टयावगाहिबोधरूपत्वेन तं प्रति विशेषणतावच्छेदकीभूतसाध्यध्यापकत्वप्रकारकनिश्चयस्य कारणत्वेन साध्यव्यापकत्वसंदेहेनातथाभूतेन तदाधानासम्भवादित्यत आह-शाकपाकजत्वादाविति। "साध्यव्यापकत्वव्यभिचारसंदेह उपाधिः इति दीधित्युक्तस्तु" इत्यस्य स्थाने “साध्यव्यापकव्यभिचारित्वसन्देहः" इत्युपाधिदीधित्युक्तस्तु" इति पाठो युक्तः, 'इत्युपाधिदीधित्युक्तस्तु' इत्यस्य ‘एवंस्वरूप उपाधिनिरूपणात्मकोपाध्यभिख्यदीधितिग्रन्थैकदेशप्रकरणोकस्तु' इत्यर्थः, 'शाकपाकजत्वविशिष्टे साध्यव्यापकस्याविशेषणाद्' इत्यस्य स्थाने 'शाकपाकजत्वविशिष्टे साध्यव्यापकत्वस्याविशेषणत्वाद्' इति पाठो युक्तः, तथा च 'फलीभूतसन्देहे' इत्यादेरयमर्थ:- शाकपाकजत्वादौ साध्यव्यापकत्वसंदेहस्य फलीभूतो यः संदेहो हेतौ साध्यव्यापकत्वसन्देहस्तत्र शाकपाकजत्वत्वेन रूपेण शाकपाकजत्वस्याविषयत्वेन तत्र साध्यव्यापकत्वस्याविशेषणत्वात् , एवं च साध्यव्यापकत्वविशिष्टस्य शाकपाकजत्वत्वावच्छिन्नस्य वैशिष्टयावगाहिज्ञानं हेतौ साध्यव्यापकव्यभिचारित्वसन्देहो न भवत्येवेति न तत्र शाकपाकजत्वविशेष्यकसाध्यव्यापकत्वप्रकारकनिर्णयस्य हेतुत्वमिति शाकपाकजत्वादौ साध्यव्यापकत्वसन्देहतो हेतौ साध्यव्यापकव्यभिचारित्वसन्देहेऽपि न व्यभिचार इति भावः । यदि तु यद्धर्मविशिष्टयद्धविच्छिन्नवैशिष्टयावगाहिज्ञान एव तद्धर्मप्रकारकतद्धविच्छिन्नविशेष्यकनिर्णयः कारणं सामान्यतस्तु तद्धर्मविशिष्टवैशिष्टयावगाहिज्ञाने तद्धर्मप्रकारकनिर्णयमात्र कारणमिति विभाव्यते तदा शाकपाकजत्वादौ श्यामत्वव्यापकत्वसन्देहेऽपि द्रव्यत्वादौ श्यामत्वव्यापकत्वनिर्णयः समस्येव, एकस्यापि ज्ञानस्यैकत्र तत्संशयरूपस्यान्यत्र तन्निश्चयरूपस्य समूहालम्बनस्य सम्भवादिति तत एवोक्कविशिष्टवैशिष्टयावगाहिनिरुक्तसंशयसंभवेन न तत्र व्यभिचार इत्याह- अन्यथा विति- प्रकारान्तरेण पुनः, सामान्यत इति यावत् । तस्य साध्यव्यापकत्वस्य ।; यदि तु 'हेतौ साध्यव्यापकव्यभिचारित्वसन्दहः' इत्यस्य 'हेतौ साध्यव्यापकशाकपाकजत्वव्यभिचारित्वसन्देहः' इत्यर्थमुपादाय फलीभूतसन्देहे शाकपाकजत्वविशिष्टे साध्यव्यापकत्वं विशेषणतया भासत इति विभाव्यते तदा व्यभिचारित्वे निरूपितत्वसम्बन्धन शाकपाकजत्वं तत्र साध्यव्यापकत्वमित्येवं 'विशेष्ये विशेषणं तत्र च विशेषणान्तरम्' इत्येवंरीत्यैव निरुक्तसंशय इति तस्य विशिष्टवैशिष्टयावगाहित्वाभावादेव न तत्र व्यभिचार इत्याह-तत्र तद्विशेषणे विति- शाकपाकजत्वत्वविशिष्टे साध्य