________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
,
भावाद ' विशेष्ये विशेषणम्' इति विषयिताया विशिष्टवैशिष्ट्यविषयिताव्यापकत्वे ' दण्डाभाववद् इति ज्ञानेऽपि तस्याः सत्वेन तदवच्छिन्नं प्रति प्रतिबन्धकत्वसम्भवाच्च, अत एव 'दण्डो रक्को नवा ?' इति संशयकाले यदि ' विशेष्ये विशेषणम्' इति रीत्यापि ' रक्तदण्डवान्' इति धियो नोत्पत्तिः, तदा तत्र ' दण्डो रक्तः ' इत्यादि निश्चयाभावविशिष्टो ' दण्डो रक्तो नवा ?' इत्यादिसंशयप्रतिबोधकः स्वीक्रियते, इत्थं च व्यापकत्वाद् ' विशेष्ये विशेषणम्' इति रीत्या विषयितैवानुमितिप्रवृत्यादिजनकतावच्छेदिका, विशिष्टवैशिष्ट्यबुद्धित्वं तु रक्तदण्डत्वा दिविशिष्ट पर्याप्तिप्रकारताकबुद्धित्वं 'रक्तं दण्डेन जानामि इति प्रतीते:, इति सम्प्रदायविदः, तदसत् - अस्या एवानुमित्यादिजनकतावच्छेदकत्वे विशिष्ट - दण्डीयो नवा ?' इति संशयानन्तरं 'दण्डाभाववद्' इति ज्ञानं विशेष्ये विशेषणमिति रीत्याऽपि न स्यादेवेत्याह- विशेष्ये विशेषणमिति विषयताया इति । 'दण्डाभाववद्, इति ज्ञानेऽपीति- अभावे दण्डत्वविशिष्टदण्डवैशिष्टया वगाहिज्ञानेऽपीत्यर्थः, अपिना विशेष्ये विशेषणमिति रीत्या ज्ञानस्य समुच्चयः । तस्याः विशेष्ये विशेषणमिति विषयतायाः । तदवच्छिन्नं प्रति विशेष्ये विशेषणमितिविषयताकबुद्धित्वावच्छिन्नं प्रति । प्रतिबन्धकत्वसम्भवाच्च 'अभावो दण्डीयो नवा ?' इति संशयस्य प्रतिबन्धकत्वाच्च तथा चोक्तप्रतिबन्धकसद्भावादेव यथा न 'दण्डाभाववद्' इति विशिष्टवैशि ष्टयावगाहिज्ञानं तथा विशेष्ये विशेषणमिति रीत्या ज्ञानमपि नेत्याशयः । अत एवेति - विशिष्टवैशिष्ट्यविषयिताव्यापिकाया विशेष्ये विशेषणमितिरीत्या विषयिताया निरुक्तसंशय प्रतिबध्यतावच्छेदकत्वादेव तदा 'दण्डो रक्तो नवा ?' इति संशयकाले विशेष्ये विशेषणमिति रीत्याऽपि 'रक्तदण्डवान्' इति धियो नोत्पत्तिरित्यस्योपपादनार्थम् । तत्र विशेष्ये विशेषणमिति रीत्या 'रक्तदण्डवान्' इति बुद्धौं । 'नवेत्यादिसंशयप्रतिबोधकः' इत्यस्य स्थाने 'नवेत्यादिसंशयः प्रतिबन्धकः' इति पाठो युक्तः, 'दण्डो रक्तो नवा' इति संशयद्वितीयक्षणे 'दण्डो रक्तः' इत्याकारकविशेषणतावच्छेदकप्रकारकनिश्चये तदानीमुक्तसंशयसत्त्वेऽपि रक्तदण्ड निति बुद्धिर्विशिष्टवैशिष्ट्यविषयिताशालिनी तद्व्यापकविशेष्ये विशेषणमितिविषयिताशालिनी चोत्पद्यत एवेत्यतो 'दण्डो रक्तः' इत्यादिनिश्चयाभाववैशिष्ट्यं निरुक्तसंशये विशेषणम् । इत्थं च 'दण्डो रक्तः ' इत्यादिनिश्चयाभावविशिष्टस्य 'दण्डो रक्तो नवा ?' इत्यादिसंशयस्य विशिष्टवैशिष्टयविषयिताव्यापक विशेष्ये विशेषणमितिविषयित्वावच्छिन्नप्रतिबन्धकत्वव्यवस्थितौ च । विषयितैवेत्येवकारेण विशिष्टवैशिष्ट्यविषयिताया अनुमितिप्रवृत्त्यादि - जनकतावच्छेदकत्वव्यवच्छेदः, अयमभिप्रायः - पर्वते धूमो धूमे च वह्निव्याप्यत्वमिति रीत्या यद् 'वह्निव्याप्यधूमवान् पर्वतः ' इति ज्ञानम् यच्च वह्निव्याप्यत्वविशिष्टधूमस्य पर्वते वैशिष्टयावगाहिज्ञानम्, तदुभयत्र विशेष्ये विशेषणमिति रीत्या विषयितायाः सत्त्वादुक्त परामर्शद्वयस्यापि निरुक्तविषयितालक्षणानुमितिकारणतावच्छेदकधर्माकान्तत्वाद् द्विविधादपि परामर्शादनुमि त्युत्पत्तिः सम्भवति, तथा 'इदमेतद्धर्मवद्, अयं धर्म इष्टसाधनातावच्छेदकः' इत्येवंरीत्या यज्ज्ञानम्, यच्च 'इष्टसाधनता - वच्छेदकधर्मवद्' इति ज्ञानम् विशेष्ये विशेषणमिति रीत्या विषयितायाः प्रवृत्तिजनकतावच्छेदिकायाः सत्त्वादुभयस्मादुक्तज्ञानात् प्रवृत्तिनिर्वाह इति । रक्तरूपत्वावच्छिन्नप्रकारता निरूपित शुद्धदण्डत्वावच्छिन्नप्रकार तानिरूपित पुरुषत्वावच्छिन्न विशेयतानिरूपित विषयिताया विशेष्ये विशेषणमिति रीत्या विषयितारूपाया विशिष्टवैशिष्ट्यविषयिताव्यापकत्वेऽवधृते विशिष्ट - वैशिष्ट्यबुद्धित्वं किमित्यपेक्षायामाह - विशिष्ट वैशिष्ट्यबुद्धित्वं त्विति । रक्तेति- रक्तदण्डत्वादिविशिष्टे न तु रक्तत्वविनिर्मुक्तदण्डत्वादिविशिष्टे पर्याप्तिर्यस्याः प्रकारतायाः सा रक्तदण्डत्वादिविशिष्टपर्याप्तिप्रकारता, रक्तत्वदण्डत्वो भयपर्याप्तावच्छेदकताकप्रकारता न तु केवलदण्डत्वनिष्ठावच्छेदकताकप्रकारता, तन्निरूपकबुद्धित्वं विशिष्टवैशिष्ट्यबुद्धित्वमित्यर्थः । निरुक्तबुद्धित्वस्य विशिष्टवैशिष्टय बुद्धिरूपत्वेऽनुव्यवसायं प्रमाणमुपदर्शयति- रक्तमिति - 'रक्तं दण्डेन जानामीति प्रतीतेः ' इति स्थाने 'रक्तदण्डेन पुरुषं जानामीति प्रतीतेः' इति पाठो युक्तः, तस्य रक्तदण्डनिष्टप्रकारता कपुरुषनिष्ठविशेष्यता कज्ञानवनहमिति प्रतीतेरित्यर्थः, अत्र तृतीयार्थे प्रकारत्वे रक्तदण्डस्याधेयतयाऽन्वये रक्तदण्डत्वावच्छिन्नत्वमपि तत्रान्वेतीति । विशेष्ये विशेषणमिति रीत्या विषयिताया अनुमितिप्रवृत्त्यादिजनकतावच्छेदकत्वमभ्युपगच्छतां प्राचां मतमपहस्तयति - तद सदिति । अस्या एव विशेष्ये विशेषणमिति रीत्या विषयिताया एव एवकारेण विशिष्टवैशिष्टयविषयिताया अनुमित्यादिजनकतावच्छेदकत्व व्यवच्छेदः, विशिष्टवैशिष्टयवुद्धावपि रक्तत्वं दण्ड एव प्रकारो दण्डश्च पुरुषे प्रकार इत्येवानुभूयत इति रक्तत्वनिष्ठप्रकारतानिरूपितैव दण्डनिष्टविशेष्यता न तु रक्तत्वनिष्टावच्छेदकतानिरूपिता दण्डनिष्ठप्रकारतेति । अत्र प्रतीतिं
८४
"