SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। कृत् मार्गानुसारितास्थैर्याधायको भवति, तेनान्त्यपुद्गलभावित्वात् चरमपुद्गलपरावर्तमात्रसंभवित्वात् , अन्येभ्यः- अक्रियावादादिभ्यः, तस्य क्रियावादस्य मुख्यता, तदुक्तं दशाचूर्णी "जो अकिरियावाई सो भविओ अभविओ वा कण्णपक्खिओ सुक्कपक्खिओ वा। जो किरिआवाई सो णियमा भविओ णियमा सुक्कपक्खिओ अन्तो पुग्गलपरिअट्टस्स सिज्झइ " ॥ [ ] इत्यादि । __ अत्र च क्रियावाद्यादीनां त्रिषष्ट्यधिकशतत्रयभेदप्रतिपादिका"असियसयं किरियाणं, अकिरियवाईण होइ चुलसीइ । अन्नाणि य सत्तही वेणइयाणं तु बत्तीसा ॥१॥" [सू० प्र० सम० अध्य० नियुक्तौ ] इति गाथा विनेयजनानुग्रहार्थ इह व्याख्यायते- अशीत्युत्तरशतं क्रियावादिनाम् , तत्र कर्तारं विना क्रियाऽसम्भव इति नाम्नात्मसमवायिनी वदन्ति ये तच्छीलाश्च ते क्रियावादिनः, ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणा अमुनोपायेनाशीत्यधिकशतसङ्ख्या विज्ञेयाः, जीवा-ऽजीवा-ऽऽश्रव-बन्ध-संवर-निर्जरा-पुण्याऽपुण्य-मोक्षाख्यान् नव पदार्थान् पट्टिकादौ लिखित्वा परिपाट्या जीवपदार्थस्याधः, स्व-परभेदावुपन्यसनीयौ, तयोरधो नित्या-ऽनित्यभेदो तयोरप्यधः कालेश्वरा-ऽऽत्म-नियति-स्वभावभेदा उपन्यसनीयाः, ततश्चेत्थमभिलापः कर्तव्यः- अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, तदर्थश्च विद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्व कालत इति कालवादिनः पक्षः, अत्रास्तित्वे स्वतस्त्वमवच्छेदकीभूय विशेषणम् , नित्यत्वमात्मन एवोपरञ्जनकं विशेषणम् , कालत इति नियामकं विद्यमानत्वरूपसत्तायाः तेन क्रियापक्षपातस्य मार्गानुसारितास्थैर्याधायकत्वेन, अस्य मुख्यतेत्यनेन सम्बन्धः । अन्त्यपुद्गलभावित्वादित्यस्य विवरणं-चरमपुरलपरावर्तनमात्रसंभावित्वादिति । अन्येभ्य इत्यस्य विवरणं- अक्रियावादादिभ्य इति, आदिपदादज्ञान-विनयवादादीनां ग्रहणम् । तस्येत्यस्य विवरणं-क्रियावादस्येति । उक्तार्थे दशाचूर्णिवचनसम्मतिमुपदर्शयति-तदुक्कमिति । जो० इति-"योऽक्रियावादी स भविकोऽभविको वा, कृष्णपक्षिकः, शुक्लपक्षिको वा; यः क्रियावादी स नियमभविको नियमाच्छुक्लपक्षिकोऽन्तःपुद्गलपरावर्तस्य सिद्धयति" इति संस्कृतम् । अत्र च क्रियावादादिविचारे च । प्रतिपादिकेत्यस्य गाथेत्यनेनान्वयः । असिय० इति-" अशीत्युत्तरशतं क्रियाणामक्रियावादिनो भवति चतुरशीतिः। अज्ञानिनश्च सप्तषष्टिवैनयिकानां तु द्वात्रिंशत्" इति संस्कृतम् । इति गाथा उक्तस्वरूपा गाथा । विनेय. जनानुग्रहार्थ शिष्यादिजनानुग्रहार्थम् । इह अस्मिन् ग्रन्थे । व्याख्यायते विव्रियते । क्रियावादिनः स्वरूपं सङ्खयां चोपदर्शयति-तत्रेति-क्रियावाद्यादिषु मध्ये इत्यर्थः । “नाम्ना" इत्यस्य स्थाने " नाना" इति पाठो युक्तः । तच्छीलाश्च नानात्मसमवायिनी क्रियां वदितुं शीलं स्वभावो येषां ते तच्छीलास्ते च । ते पुन: क्रियावादिनः पुनः । आत्माद्यस्तित्वप्रतिपत्तिलक्षणाः आत्मादीनां पदार्थानां यदस्तित्वं तदभ्युपगमस्वरूपाः । अमुनोपायन जीवा-उजीवे. त्याद्यनन्तरोपदयमानोपायेन । परिपाच्या लेखन भावयति-जीवपदार्थस्याध इति- जीवः स्वतः परतश्च नित्योऽनित्यः कालेश्वराऽऽत्म-नियति-स्वभावभेदतः, एवमुट्टङ्कनम् । तयोरधः स्व-परयोरधः । तयोरप्यधः नित्या-ऽनित्ययोरप्यधः । ततश्च एवं परिपाठयोपन्यासतश्च । इत्थम् अस्ति जीव इत्याद्यनन्तराभिधीयमानप्रकारेण । तदर्थश्च अस्ति जीवः स्वतो नित्यः कालत इत्यभिलापार्थश्च । अत्र अस्मिन् विकल्पे । अवच्छेदकीभूय विशेषणम् अस्तित्वे अवच्छेदकतया विशेषणं स्वतस्त्वमित्यतः स्वरूपावच्छिन्नास्तित्ववानित्याकारता प्रयोगस्य निष्पद्यते। कालतो नित्य आत्मेत्यपि प्रयोगघटकम्, तत्र नित्यत्वमुपरजकविशेषणम् , कालत इति चास्तित्व एव नियामकतयाऽन्वेतीत्याह-नित्यत्वमिति । कथं कालत इति नियामकमित्यपेक्षायामाह- विद्यमानत्वेति- एतेन नित्य आत्मा कालनियम्यत्वासाधारणात्मत्वाद्यवच्छिन्न विद्यमानत्वरूपा
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy